असिध्दवत् (-), अत्र (-), आ(-), भात् (5/1)|
हिन्दी – ’आभात्’, यहा आङ् अभिविधि में है, अतः ’आभात्’ से ’भस्य’ (6-4-129) का अधिकार जहाँ तक जाता है, अर्थात् ’पादकी समाप्ति पर्यन्त’ ऐसा अर्थ होगा।
भस्य के अधिकार-पर्यन्त, अर्थात् इस अध्याय की समाप्तिपर्यन्त समानाश्रय, अर्थात् एक ही निमित्त होने पर आभीय कार्य सिध्द के समान नहीं होता, अर्थात आभी कार्य के होने पर भी वह न होने जैसा इस सूत्र से माना जाता है। ’अत्र’ का ग्रहण यहाँ समानाश्रयत्व द्योतन के लिये है। समान = एक ही आश्रय = निमित्त है जिसका, वह (कार्य) समानाश्रय हुआ।
असिद्धवदित्ययम् अधिकारः। यदित ऊर्ध्वम् अनुक्रमिष्यामः आ अध्यायपरिसमाप्तेः तदसिद्धवत् भवति इत्येवं वेदितव्यम्। आ भातिति विषयनिर्देशः। आभसंशब्दनाद् यदुच्यते तत्र कर्तव्ये। अत्र इति समानाश्रयत्वप्रतिपत्त्यर्थम्। तच् चेदत्र भवति, यत्र तदा भात् शास्त्रीयं विधीयते तदाश्रयम् एव भवति। व्याश्रयं तु नासिद्धवद् भवति इत्यर्थः। असिद्धवचनम् उत्सर्गलक्षणभावार्थम्, आदेशलक्षणप्रतिषेधार्थं च। एधि, शाधि इत्यत्र एत्वशाभावयोः कृतयोः झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद् भवति। आगहि, जहि इत्यत्र अनुनासिक लोपे जभावे च अतो हेः 6-4-105 इति लुक् प्राप्नोति, असिद्धत्वान् न भवति। आ भातिति किम्? अभाजि। रागः। अत उपधायाः 7-2-116 इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति। अत्रग्रहणं किम्? पपुषः पश्य। चिच्युषः पश्य। लुलुवुषः पश्य। वसुसंप्रसारणम् आल्लोपे यणादेशे उवङादेशे च कर्तव्ये नासिद्धं भवति। आल्लोपादीनि वसौ, वसन्तस्य विभक्तौ संप्रसारणम् इति समानाश्रयत्वं न अस्ति। असिद्धं बहिरङ्गमन्तरङ्गे इति? एतदप्यत्र न भवति। किं कारणम्? एषा हि परिभाषा आभाच्छास्त्रीया। तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणाम् एव असिद्धत्वादन्तरङ्गबहिरङ्गयोः युगपत् समुपस्थापनं न अस्ति इति परिभाष न प्रवर्तते। वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यम्। वुगुवङादेशे बभूव, बहूवतुः, बव्हूवुः। युट् यणादेशे उपदिदीये, उपदिदीयाते, उपदेदीयिरे। आभातित्ययम् अभिविधावाङ्। तेन भाधिकारे ऽप्यसिद्धवद् भवति।
The change, which stem will undergo by the application of any of the rules from this sutra upto 6-4-129, is to be considered as not to have taken effect, when we have to apply any other rule of this very section 6-4-23 to 6-4-129.
564 इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम्. इति जस्यासिद्धत्वान्न हेर्लुक्. जहि, हतात्. हतम्. हत. हनानि. हनाव. हनाम. अहन्. अहताम्. अघ्नन्. अहन्. अहतम्. अहत. अहनम्. अहन्व. अहन्म. हन्यात्. हन्याताम्. हन्युः..
32 तथा च प्रकृतेऽभ्यासस्य बकारे सति बभूव् अ इति स्थिते `अचि श्नुधात्वि'त्युवङादेशमाशङ्कितुमाह– असिद्धवदत्रा। षष्ठस्य चतुर्थपादे इदं सूत्रं `श्नान्नलोप' इति सूत्रात्पूर्वं पठितम्। आ भादित्यभिविधावाङ्। भस्येत्यधिकारमभिव्याप्येत्यर्थः। भाधिकारश्च आ पादपरिसमाप्तेरिति सिद्धान्तः। तथा च आ पादपरिसमाप्तेरिति लभ्यते। `विहितं कार्य'मिति शेषः। किमारभ्येत्याकाङ्क्षायामुपस्थित्वादस्मादेव सूत्रादूध्र्वमिति लभ्यते। ततश्चा `श्नान्नलोप' इत्यारभ्या पादसमाप्तेर्विहितं यदाभीयं कार्यं तदसिद्धवद्भवति। प्रवृत्तमप्यप्रवृत्तवद्भवतीत्यर्थः। अधिकारसूत्रमिदमुत्तरत्र `श्नान्नलोप' इत्यादौ प्रतिसूत्रमुपतिष्ठते। तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्येऽसिद्धमिति लभ्यते। एवं च `श्नान्नलोप' इत्यादि तत्तदाभीयं कार्यं `श्नान्नलोप' इत्याद्याभीये कार्ये कर्तव्येऽसिद्धवदित्यर्थः पर्यवस्यति। अत्रेत्यनेन निमित्तसप्तम्यन्तेन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात् `समानाश्रये कार्ये कर्तव्ये सती'ति लभ्यते। एतत्सर्वं भाष्ये स्थितम्। तदाह– इत ऊध्र्वमित्यादिना। तस्मिन्निति। आभीये कर्तव्ये सतीत्यर्थः। एधि शाधीत्युदाहरणम्। अत्र `ध्वसोरेद्धावभ्यासलोपश्चे'त्यस्तेरेत्वस्य `शाहा'विति शास्तेः शाभावस्य चाभीयत्वेनाऽसिद्धत्वात् `हुझल्भ्यो हेर्धि'रिति हेर्धित्वमाभीयं प्रवर्तते। तथा `जङ्घही'त्याद्यप्युदाहरणम्। हन धातोर्यङ्?लुगन्ताल्लोण्मध्यमपुरषैकवचने सिपो हिभावे `अनुदात्तोपदेशे'ति नलोपस्याभीयस्यासिद्धत्वादतो हेरित्याभीयोलुङ् न भवति। समानाश्रय इति किम् ?। `पपुष' इत्यत्र पाधातोर्लिटः क्वसौ `लिटि धातो'रिति द्वित्वेऽभ्यासह्यस्वे क्वस्वन्ताद्द्वितीयाबहुवचने सि वसोः संप्रसारणमाभीयम्। `आतो लोप इटि चे'त्याल्लोपे आभीये कर्तव्ये असिद्धं न भञ्जेश्चिणि, रञ्जेर्घञि च कृते, `भञ्जेश्च चिणि', `घञि च भावकरणयो'रिति नलोपस्याभीयस्याऽनाभीयायामुपधावृद्धौ कर्तव्यायां नाऽसिद्धत्वात्। आभादित्यभिविधिः किम् ?। भाधिकारात् प्रागित्युक्ते भूयानित्यत्र `बहोर्लोपो भूच बहो'रिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वं न स्यात्, भस्येति सूत्रादूध्र्वभावित्यादित्यलम्। इति वुकोऽसिद्धत्वादिति। वुक आभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्येऽसिद्धतया ऊकारस्योवङि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः। वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः। वुग्युटावुवड\उfffद्णोरिति। यथासङ्ख्यमन्वयः। बभूवेति। णलो णित्त्वं तु जगादेत्यादौ वृद्ध्यर्थम्। बभूवतुरिति। तसोऽतुसादेशे वुगादि पूर्ववत्। सकारस्य रुत्वविसर्गौ। बभूवुरिति। जेरुसादेशे वुगादि पूर्ववत्।
26 वत्करणं प्रतिपत्तिलाघवाय, अन्यथा सिद्धे असिद्ध इति प्रयुज्यमानमनुपपन्नं सत्सामथ्र्यादसिद्धवदिति कल्पनीयं स्यात्। यथा राजभिन्ने पुरोहिते `राजाऽय'मिति प्रयोगो `राजव' दिति कथंचित्कल्पयति, `राजवदयं पुरोहित' इत्युक्ते तु लघु प्रतिपत्तिर्भवति। तथा चाऽगत्या `षत्वतुकोरसिद्धः' इत्यत्राऽसिद्धवदिति कल्प्यते। `असंयोगल्लिक्टि'दित्यत्रापि किद्वदित्यगत्यैव कल्प्यत इति ज्ञेयम्। आ भादिति। अभिविधावाङ्। भाधिकारमभिव्याप्येत्यर्थः। अधिकारश्चायम्। `अत्र' ग्रहणं समानाश्रयप्रतिपत्त्यर्थम्। आबाद्ग्रहणं विषयनिर्देशार्थम्। भाधिकारस्याऽवधिलाभस्तु `अङ्गस्य', `प्रत्ययः', `परश्चे'त्यादाविव व्याख्यानेनैव सिध्यति। एवं `अनुदात्तोपदेशे'त्यत्रास्योपस्थाने सत्ययमर्थो भवति, `एषामनुनासिकस्य लोपः स्याज्झलादौ क्ङिति परे, स चासिद्धो? भवति, अत्र झलादिक्ङिदाश्रित्यैव यदाभीयं प्राप्नोति तस्मिन्कर्तव्ये सति\त्' इति। जङ्गहि जङ्घहि। `अतो हेः' इति लुग्न भवति, अनुनासिकलोपस्य हिशब्दाश्रितत्वेनाऽसिद्धत्वात्। नन्वस्याधिकारत्वे यत्र यत्रोपस्थानं तत एवारभ्य यदाभीयं तस्मिन्नेव कर्तव्येऽसिद्धत्वं स्यान्न तु ततः पूर्वस्मिन्नपि। ततश्च `ध्वसो'रित्येत्वं पूर्वस्मिन्नपि धित्वे कर्तव्ये नाऽसिद्धं स्यादिति चेत्। भवेदयं दोषः शब्दाधिकारे, अर्थाधिकारस्त्वयम्। ततश्चेह `श्नान्न लोपः' इत्यवधिर्निर्णीतः, स एव प्रतिसूत्रमुपतिष्ठते। तदेतत्सकलमभिप्रेत्याह– इति ऊध्र्वमिति। अत्रापि शात्राऽसिद्धत्वमेवाऽकरे स्थितम्। तेन एधि शाधीत्यत्र स्थानिनो झलन्तत्वबुद्धेरनिवर्तितत्वात्तन्निबन्धनं `हुलझल्भ्यो हेर्धि'रिति धित्वं सिध्यति। प्राचोक्तकार्याऽसिद्धत्वपक्षे तु न सिध्यति, `देवदत्तस्य हन्तरि हते देवदत्तस्योज्जीवनं ने'ति न्यायेन एत्वविधिना झल्बुद्धौ निवर्तितायां पश्चादेत्वबुद्धिनिवर्तनेऽपि धित्वकार्यस्याऽप्रवृत्तेरित्याहुः। समानाश्रये इति किम्?। पपुषः। चिच्युषः। लुलुवुषः। इह पाधातोश्चिञो लूञश्च परस्य वसोर्यत्संप्रसारणं तत् `आतो लोप इटि च' इत्याल्लोपे `एरनेकाचः' इति यण्युवङि च कर्तव्ये नाऽसिद्धम्। आल्लोपादीनि हि क्वसौ, संप्रसारणं तु विभक्ताविति व्याश्रयत्वात्। न च बहिरङ्गत्वेनाऽसिद्धताऽस्त्विति शङ्क्यं, `नाऽजानन्तर्ये' इति निषेधात्। `वाह ऊठ्' सूत्रस्थबहिरङ्गपरिभाषाया अप्याभीयत्वेनाऽऽल्लोपादिषु कर्तव्येष्वसिद्धत्वाच्च। न चोक्तपरिभाषाया आल्लोपादीनां च समानाश्रयत्वं नेति शङ्क्यम्, वसोः संप्रसारणे कृते ह्रजाद्याश्रयेणाल्लोपादीनि प्रवर्तन्ते, तेषु कर्तव्येषु संप्रसारणस्याऽसिद्धत्वात्तद्विषये बहिरङ्गपरिभाषाऽपि प्रवर्तत इति तेषां तत्सत्त्वादिति दिक्। विषयलाभार्थमाभाद्ग्रहणं किम् ?। आभीयं प्रत्येवाऽभीयमसिद्धं नान्यं प्रतीति यथा स्यादित्येवमर्थम्। तेन `अभाजि', `राग' इत्यत्र `भञ्जेच चिणि', `रञ्जेश्च', `घञि च भावकरणयोः' इति नलोपे कृते तस्याऽसिद्धत्वाऽभावात् `अथ उपधायाः' इति वृद्धिर्भवतीत्याहुः। स्यादेतत्– - देभतुः देभुरित्यत्र `श्रन्थिग्रन्थिदम्भी'ति वक्ष्यमाणवचनेन लिटः कित्त्वान्नलोपेप्येत्वाभ्यासलोपौ न स्यातां, नलोपस्याऽसिद्धत्वात्। अत्राहुः– - `श्नसोरल्लोपः' इति तपरकरणाल्लिङ्गादाभीयाऽसिद्धत्वमनित्यमिति नास्त्यत्र दोषः। तपरकरणं हि आस्तामित्यत्राऽऽडागमस्य लोपो माभूदित्येतदर्थम्। यद्याडागमः श्नसोरलोपं प्रत्याभीयत्वेनाऽसिद्धः स्यात्तर्हि किं तेन तपरकरणेन ?। एवं च `दम्भेश्चे'ति वक्ष्यमाणं नाऽपूर्वं वार्तिकं, किं त्वनित्यत्वबललभ्यमेवेति॥ `वुक्' शास्त्रस्य। एवमग्रेऽपि। युट उदाहरणं `दितीये'। बभूवेति। अत्र प्राचा- - `इन्धिभवतिभ्यां च'ति सूत्रं पितोऽ#एपि लिटः कित्त्वार्थमिति व्याख्याय `अचोऽञ्णिती'ति वृद्धिप्राप्तौ `क्ङिति चे'ति निषेध' इत्युक्तं, तदुपेक्षितम्। `इग्लक्षणयोरेव गुणवृद्ध्योर्निषेध' इति सिद्धान्तात्। अन्यथा इक्स्थानिकयोर्निषेधे `लैगवायन' इत्यत्रापि वृद्धिर्न स्यात्। न चाऽत्र कित्त्वसामथ्र्यादनिग्लक्षणाया अपि वार्तिकम्–`इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्य'मिति। यद्यपीह शब्दान्तरकप्राप्त्या वुको नित्यत्वं नास्ति, तथापि कृताऽकृतप्रसङ्गित्वमात्रेणापि क्वचचिन्नित्यता स्वीक्रियत इति पक्षोऽप्यस्मादेव वार्तिकादवगम्यते, तेन रधेर्णिचि परामप्यपधावृदिं?ध बाधित्वा नित्यत्वात् `रधिजभोरची'ति नुमि कृते रन्धयतीति सिद्धम्। नन्वेवमपि संयोगात्परस्य लिटः कित्त्वार्थमिन्धेश्चेत्यंशोऽपेक्षित एव। अन्यथा `समीधे दस्यु हन्तम'मित्यत्रेन्धेर्नलोपो न स्यात्। मैवम्। `छन्दस्युभयथे'ति सूत्रेण हि सार्वधातुकसंज्ञा आद्र्धधातुकसंज्ञा च विधीयते, तेन `सार्वधातुकमपि'दिति ल#इटो ङित्त्वे स्यादेव नलोप इति वार्तिकाशयात्। अतर् नव्याः- - `बभूवे'त्यत्र `द्विर्वचनेऽची'त्यजादेशस्य निषेधाद्गुणवृद्धिभ्यां प्रगेव वुकः प्रवृत्त्या `भुवो वुको नित्यत्वा'दिति वार्तिके `नित्यत्वा'दिति हेतूपन्यासो निष्प्रयोजनः, शब्दान्तरप्राप्त्या वुको नित्यत्वं नास्ती'त्याशङ्क्य कृताऽकृतप्रसङ्गित्वमात्रेणापि क्वचिन्नित्यत्वं स्वीक्रियत इत्यादिसमाधानमपि व्यर्थमेवेत्याक्षिप्य स्वयमेव समादधुः– षाष्ठद्वित्वप्रकरणान्ते हि वार्तिककृता पूर्वविप्रतिषेधः पठ\उfffद्ते `द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्वेभ्यः' इति। तथा च `द्विर्वचनेऽची'ति सूत्रं नारम्भणीयमित्याशयेन नित्यत्वादिति हेतुरुपन्यस्त' इति। `द्विर्वचनेऽचीति सूत्रेणाऽरजादेशस्य स्थानिवद्भावो विधीयतर' इति पक्षे तु द्वित्वात्प्रागेव वृद्ध्याद्यादेशस्य स्वीकृतत्वादादेशानन्तरमपि वुकः प्रवृत्तिरस्तीति भुवो वुको नित्यत्वादित्यादिग्रन्थः सम्यगेव। न चैवमपि नामधातुषु त्वापयति मापयतीत्यत्र `मपर्यन्तस्य त्वमौ, पररूपात्पूर्वं नित्यत्वाट्टिलोप' इति ग्रन्थः कथं सङ्गच्छेतेति वाच्यं,`प्रकृत्यैका'जिति सूत्रं भाष्ये प्रत्याक्यातमित्याशयेन तत्प्रवृत्तेः। अत एव त्वादयति मादयतीत्येव न्याय्यमिति तत्रोक्तमिति दिक्॥
370) असिद्धवदत्राभात् 6-4-22
वृत्तिः इत ऊर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम् । A आभीय-कार्यम् is any operation/rule that is prescribed in the section starting from this rule (6-4-22) up to the end of the भस्य-अधिकारः (ref. 6-4-129), that is up to the end of the Sixth Chapter. When one आभीय-कार्यम् is done based on a certain element, then it is considered असिद्धम् (as if it has not happened) in the view of another आभीय-कार्यम् which is based on the same element.
Example continued from above.
जहि । Now by 6-4-105 अतो हेः, the हि-प्रत्ययः should have taken elision. Since both 6-4-36 and 6-4-105 belong to the अधिकारः of 6-4-22 असिद्धवदत्राभात्, the ज-आदेश: that was done by 6-4-36 is not seen by 6-4-105. Only हन् is seen by 6-4-105 and therefore there is no elision of the हि-प्रत्ययः here and the form remains as जहि।
Note: Both 6-4-36 and 6-4-105 prescribe an operation that involves the हि-प्रत्यय:। Since they are both based on a common element, 6-4-22 comes into effect.
In आशीर्लोँट् -