Table of Contents

<<6-4-117 —- 6-4-119>>

6-4-118 लोपो यि

प्रथमावृत्तिः

TBD.

काशिका

लोपो भवति जहातेः यकारादौ क्ङिति सार्वधातुके परतः। जह्यात्, जह्याताम्, जह्युः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

624 जहातेरालोपो यादौ सार्वधातुके. जह्यात्. एर्लिङि. हेयात्. अहासीत्. अहास्यत्.. माङ् माने शब्दे च.. 6..

बालमनोरमा

330 लोपो यि। `जहातेश्चे'त्यतो जहातेरिति, `श्नभ्यस्तयोरातःर' इत्यत आत इति, `अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते। `यी'ति सप्तम्यन्तं सार्वधातुकविशेषणम्। तदादिविधिः। तदाह–जहातेरित्यादिना। `जहातेश्चे'त्यस्यापवादः। आशीर्लिङ्याह– एर्लिङीति। अहासीदिति। `यमरमे'ति सगिटौ। अहास्यत्। डु दाञ्। उभयपदी। अनिट्। प्रणिददातीति। `नेर्गदे'ति णत्वम्। दत्त इति। ददा तस् इति स्थिते `अघो'रिति पर्युदासादीत्त्वाऽभावे `श्नाभ्यस्तयो'रित्याल्लोपः। ददतीति। अभ्यस्तत्वाददादेशे `श्नाभ्यस्तयो'रित्याल्लोप इति भावः। ददासि दत्थः दत्थ। ददामि दद्वः दद्मः। दत्ते इति। ददाते ददते। दत्से ददाथे दद्ध्वे। ददे दद्वहे दद्महे। ददौ इति। ददतुः दधुः। ददिथ–दधाथ ददथुः दद। ददौ ददिव ददिम। ददे ददाते ददिरे। ददिषे ददाथे ददिध्वे। ददे ददिवहे ददिमहे। दाता। दास्यति दास्यते। ददातु– दत्तात् दत्ताम् ददतु। इति सिद्ध्वत्कृत्य देहि इत्यत्र आह— घ्वसोरिति। दत्तात् दत्तम् दत्त। ददानि ददाव ददाम। दत्ताम् ददाताम् ददताम्। दत्स्व ददाथाम् दद्ध्वम्। ददै ददावहै ददामहै। लङ्याह— अददादिति। अददुरिति। अददुरिति। अभ्यस्तत्वाज्जुस्। अददाः अदत्तम्। अदत्त। अददाम् अदद्व अदद्म। विधिलिङ्याह–दद्यादिति। स्नाभ्यस्तयो'रित्याल्लोपः। आशीर्लिङि तु `एर्लिङी'त्येत्त्वमभिप्रेत्य आह– देयादिति। दासीष्ट। लुङ्याह— अदादिति। `गातिस्थे'ति सिचो लुगिति भावः। अदाः अदातम् अदात। अदाम् अदाव अदाम। लुङ्यात्मनेपदे आह– अदितेति। अदा स् त इति स्थिते `स्थाध्वोरिच्चे'ति दाधातोरन्त्यस्य इकारः। सिचः कित्त्वं च। कित्त्वान्न गुणः। `ह्यस्वादङ्गा'दिति सिचो लोप इति भावः। अदिषाताम् अदिषत। अदिथाः अदिषाथाम् अदिढ्वम्। अदिषि अदिष्विहि अदिष्महि। अदास्यत् अदास्यत्। डु धाञ्। ञित्त्वादुभयपदी। अनिट्। प्रणिदधातीति। `नेर्गदे'ति णत्वम्। तसि श्लौ द्वित्वे अभ्यासजश्त्वे `\त्श्नाभ्यस्तयो'रित्याल्लोपे दध् तस् इति स्थिते–

तत्त्वबोधिनी

286 लोपो यि। सार्वेति किम्? ?। हेयात्। प्रणिददातीति। `नेर्गदे'ति णत्वम्। दत्त इति। `श्नाभ्यस्तयो'रित्यालोपः। `अघो'रित्युक्तत्वादीत्त्वं तु न। अदादिति। `गातिस्थे'ति सिचो लुक्।

Satishji's सूत्र-सूचिः

413) लोपो यि 6-4-118
वृत्तिः जहातेराल्लोपो यादौ सार्वधातुके । The आकारः of the धातुः √हा (ओँहाक् त्यागे #३.९) is elided when followed by यकारादि: (beginning with यकारः) सार्वधातुक-प्रत्ययः।

उदाहरणम् – जह्यात् (√हा, जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९), विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

हा + लिँङ् 3-3-161 = हा + ल् 1-3-2, 1-3-3
= हा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + ति 1-3-3 = हा + त् 3-4-100 = हा + यासुट् त् 3-4-103, 1-1-46 = हा + यास् त् 1-3-3
= हा + शप् + यास् त् 3-1-68
= हा + यास् त् 2-4-75 = हा + हा + यास् त् 6-1-10
= झा + हा + यास् त् 7-4-62, 1-1-50 = झ + हा + यास् त् 7-4-59
= झ + हा + या त् 7-2-79 = झह् + यात् 6-4-118 = जह्यात् 8-4-54, 1-1-50