Table of Contents

<<6-4-108 —- 6-4-110>>

6-4-109 ये च

प्रथमावृत्तिः

ये (7/1), च (-)।
हिन्दी – [ये] यकारादि प्रत्यय परे रहते [च] भी कृ अङ्ग से उत्तर उकार प्रत्यय का नित्य लोप होता है।

काशिका

यकारादौ च प्रत्यये परतः करोतेः उत्तरस्य उकारप्रत्ययस्य नित्यं लोपो भवति। कुर्यात्, कुर्याताम्, कुर्युः।

Ashtadhyayi (C.S.Vasu)

The affix उ of the stem कुरु is always elided before a personal ending beginning with a य॥

लघु

683 कृञ उलोपो यादौ प्रत्यये परे. कुर्यात्, कुर्वीत. क्रियात्, कृषीष्ट. अकार्षीत्, अकृत. अकरिष्यत्, अकरिष्यत..

बालमनोरमा

तत्त्वबोधिनी

597 सिचो लोप इति। नचाऽस्मिन्पक्षे प्रत्ययलक्षणप्रवृत्त्या अकृतेत्यत्र गुणः स्यादिति वाच्यम्, `उश्चे'ति सिचः कित्त्वेन तन्निषेधात्। `संपर्युपेभ्यः' इतिवृत्तिस्थपाठं विहाय भाष्यवार्तिकानुसारेणाह– संपरिभ्यामिति। इति तनादयः। इट् कुतो नेत्यत आह–ऋतश्चेत्यादि।\र्\निति तत्त्वबोधिन्याम् तनादयः।

Satishji's सूत्र-सूचिः

438) ये च 6-4-109
वृत्तिः कृञ उलोपो यादौ प्रत्‍यये परे । The उकारः of a प्रत्ययः following the verbal root √कृ (डुकृञ् करणे, # ८. १०) takes लोप: (elision), when followed by an affix beginning with a यकारः।

उदाहरणम् – कुर्यात् √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०), विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

कृ + लिँङ् 3-3-161
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कृ + ति 1-3-3, 1-3-9
= कृ + त् 3-4-100
= कृ + यासुट् + त् 3-4-103
= कृ + यास् + त् 1-3-3, 1-3-9
= कृ + उ + यास् + त् 3-1-79
= कर् + उ + यास् त् 7-3-84, 1-1-51 (Note: As per 3-4-103, यासुट् is a ङित्। Hence 1-1-5 prevents the गुणादेश: for the उकार: which would have been done by 7-3-84.)
= कुर् + उ + यास् त् 6-4-110
= कुर् + यास् त् 6-4-109
= कुर्यात् 7-2-79
Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् “कुर्” that would have been done by 8-2-77.