Table of Contents

<<8-2-78 —- 8-2-80>>

8-2-79 न भकुर्छुराम्

प्रथमावृत्तिः

TBD.

काशिका

रेफवकारान्तस्य भस्य कुर् छुर् इत्येतयोश्च दीर्घो न भवति। धुरं वहति धुर्यः। धुरि साधुः धुर्यः। दिव्यम्। कुर् - कुर्यात्। छुर् - छुर्यात्। रेफवकाराभ्यां भविशेषणं किम्? प्रतिदीव्ना। प्रतिदीव्ने।।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1136 भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात्. धुर्यः. धौरेयः..

बालमनोरमा

1609 न भकुर्छुराम्। `र्वोरुपधायाः' इत्यत `उपधाया' इति दीर्घ इति चानुवर्तते। तदाह–भस्येत्यादिना। `धूर्वहे धुर्यधौरेयधुरीणाः' इत्यमरः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

379) न भकुर्छुराम् 8-2-79

वृत्तिः भस्‍य कुर्छुरोश्‍चोपधाया इको दीर्घो न स्‍यात् । The दीर्घादेश: (prescribed by 8-2-77) for the penultimate (उपधा) इक् letter of an अङ्गम् does not take place in the following three cases:
i. The अङ्गम् has the भ-सञ्ज्ञा or
ii. The अङ्गम् is “कुर्” or
iii. The अङ्गम् is “छुर्”।
Note: This is a निषेध-सूत्रम् (negation) for 8-2-77.

Example continued from above..
विदाम् + कु र् व् + अन्तु
Now, since the root “कुर्” ends in a रेफः and is followed by a हल् (वकारः), the उपधा “उ” would have been made दीर्घः by 8-2-77. But 8-2-79 stops this operation.

= विदांकुर्वन्तु 8-3-23 = विदांकुर्वन्तु/विदाङ्कुर्वन्तु 8-4-59