Table of Contents

<<8-2-76 —- 8-2-78>>

8-2-77 हलि च

प्रथमावृत्तिः

TBD.

काशिका

हलि च परतो रेफवकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति। आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। अवगूर्णम्। वकारान्तस्य दीव्यति। सिव्यति। धातोः इत्येव, दिवम् इच्छति दिव्यति। चतुरः इच्छति चतुर्यति। इकः इत्येव, स्मर्यते। भव्यम्। अपदान्तार्थो ऽयम् आरम्भः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

615 रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि. पिपूर्तः. पिपुरति. पपार..

बालमनोरमा

हलि च। `र्वोरुपधाया दीर्घ इकः' इत्यनुवर्तते। `सिपि धातोः' इत्यतो धातोरिति च। तच्च र्वोरित्यनेन विशेष्यते। तदन्तविधिः। तदाह-रेफवान्तस्येत्यादिना। रेफान्तस्य- जीर्यतीत्युदाहरणम्। अपदान्तत्वात् `र्वोरुपधायाः' इत्यप्राप्ते विधिः। प्रकृते च प्रतिदिव् न् अस् इति स्थिते नकारे हलि परे वान्तस्य दिव्धातोरूपधाया इकारस्य दीर्घ इति भावः। ननु `अचः परस्मि'न्नित्यल्लोपस्य स्थानिवत्त्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्याशङ्क्य परिहरति–नचेति। कुत इत्यत आह- -दीर्घविधौ तन्निषेधादिति। `न पदान्ते'ति सूत्रेण दीर्घवधौ स्थानिवत्त्वनिषेधादित्यर्थः। नन्वेवमपि भसंज्ञापेक्षस्याऽल्लोपस्य बहिर्भूतप्रत्ययापेक्षत्वेन बहिरङ्गतया तस्याऽन्तरङ्गे दीर्घे कर्तव्येऽसिद्धत्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्यत आह- बहिरङ्गेति। यथोद्देशपक्षे षाष्ठीं परिबाषां प्रति श्चुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावे परिभाषाया अप्रवृत्तेरिति राजन्शब्दोक्तन्यायेन दीर्घस्याऽसिद्धतया तद्विषये `असिद्धं बहिरङ्ग'मिति परिभाषा न प्रवर्तते इति भावः। प्रतिदीव्न इति। `न भकुर्छुरा'मिति निषेधस्तु वान्तस्याऽभत्वान्नेति भावः। इत्यादीति। प्रतिदिव्ने। प्रतिदीव्नः 2। प्रतिदीव्नोः 2। भ्यामादौ हलि राजवदित्यर्थः। यज्वन्शब्दः सुटि राजवदित्याह–यज्वेति।

तत्त्वबोधिनी

314 हलि च। `र्वोरुपधाया दीर्घ इकः'इत्यनुवर्तते, `सिपि धातोः'इत्यतो `धातो'रिति च, तच्च धातुग्रहणं र्वो'रित्यनेन विशेष्यते, विशेषणेन तदन्तविधिस्तदाह—- रेफवान्तस्य धातोरित्यादि। रेफान्तस्य तु `गीर्यति'`पर्यति'`गीर्णं'`पूर्ण'मित्याद्युदाहरणानि। धातोः किम्? रेफान्तस्य पदस्य मा भूत्। अग्निः करोति। वायुः करोति। नन्वस्तु धातोरनुवर्तनं परंतु `र्वो'रित्यनेन धातुर्न विशेष्यते–`रेफवान्तस्य धातो'रिति, किं तु इग्विशेष्यते,- -`रेफवान्तस्येको दीर्घः स्यात्तौ च रेफवकारौ धातोश्चेत्'। अन्तशब्दोऽत्र समीपवाची। तथाच `उपधायां चे'ति सूत्रं त्यक्तुं शक्यम्, अनेनैव मूर्छतिहूर्छतूत्यादिरूपसिद्धेरिति चेन्मैवम्। `कुर्कुरीयती'त्यादवतिप्रसङ्गः स्यात्। तस्मात् `र्वो'रित्यनेन धातुरेव विशेष्यः। एतच्चाकरे स्पष्टम्। यत्तु `उपधायां चे'ति कैश्चिदुपन्यस्तम्, तन्न, दिवेर्वकारस्याऽनुपधात्वात्। उक्तन्यायेनेति। यथो#एद्देशपक्षे षाष्ठीं परिभाषां प्रति दीर्घस्याऽसिद्धतयेत्यर्थः। प्रतिदिव्न इथि। न भकुर्छुरा'मित्यत्र `र्वो'रित्यनुवर्तनाद्रेफवान्तस्यैव भस्य निषेध इति न दीर्घनिषेधोऽत्र शङ्क्यो, नान्तस्येह भत्वात्।

Satishji's सूत्र-सूचिः

378) हलि च 8-2-77

वृत्तिः रेफवान्‍तस्‍य धातोरुपधाया इको दीर्घो हलि । The penultimate (उपधा) इक् letter of a verbal root ending in a वकारः or रेफः is elongated, when followed by a हल् (consonant.)

उदाहरणम् – विदाङ्कुर्वन्तु (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९) लोँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

विद् + लोँट् 3-3-162 = विद्+ आम् + कृ + लोँट् 3-1-41
= विदाम् + कृ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विदाम् + कृ + झु 3-4-86
= विदाम् + कृ + उ + झु 3-1-79, “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= विदाम् + कृ + उ + अन्तु 7-1-3
= विदाम् + कर् + उ + अन्तु 7-3-84, 1-1-51 (Note: Since the सार्वधातुक-प्रत्यय: “अन्तु” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 stops the गुणादेशः on “उ” which would have been done by 7-3-84.)
= विदाम् + कुर् + उ + अन्तु 6-4-110 = विदाम् + कु र् व् + अन्तु 6-1-77

Example continued below…