Table of Contents

<<6-4-106 —- 6-4-108>>

6-4-107 लोपश्चास्यान्यतरस्यां म्वोः

प्रथमावृत्तिः

TBD.

काशिका

यो ऽयम् उकारो ऽसंयोगपूर्वः तदन्तस्य प्रत्ययस्य अन्यतरस्यां लोपो भवति वकारमकारादौ प्रत्यये परतः. सुन्वः, सुनुवः. सुन्मः, सुनुमः. तन्वः, तनुवः. तन्मः, अनुमः. प्रत्ययस्य इत्येव, युवः. युमः. असंयोगपूर्वस्य इत्येव, शक्नुवः. शक्नुमः. लुकिति वर्तमाने लोपग्रहणम् अन्त्यलोपार्थम्.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

504 असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः. शृण्वः, शृणुवः. शृण्मः, शृणुमः. शुश्राव. शुश्रुवतुः. शुश्रुवुः. शुश्रोथ. शुश्रुवथुः. शुश्रुव. शुश्राव, शुश्रव. शुश्रुव. शुश्रुम. श्रोता. श्रोष्यति. शृणोतु, शृणुतात्. शृणुताम्. शृण्वन्तु..

बालमनोरमा

172 लोपश्च। `उतश्च प्रत्ययादेसंयोगपूर्वा'दिति पूर्वसूत्रोक्त उकारोऽस्येत्यनेन परामृश्यते। प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते। असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति। स च अङ्गस्य विशेषणं। तदन्तविधिः। तदाह– असंयोगेति। प्रत्ययोकारैति। प्रत्ययसंबन्धी उकार इत्यर्थः। `प्रत्यय–उकार' इति व्याख्याने तु सनुनुवः सुनुम इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात्। प्रत्ययेति किम् ?। युवः। युमः। असंयोगपूर्वादिति किम् ?। शक्नुवः शक्नुमः। धिन्वः धिनुव इति। अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम्। नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह– मिपि त्विति। दिदिन्व। धिन्विता। धिन्विष्यति। धिनोतु।

तत्त्वबोधिनी

146 लोपश्चा। यः प्रत्ययोकार इति। असंयोगपूर्वो यः प्रत्यय इति प्रत्ययविशेषणं तु न कृतम्, अक्ष्णुवः अक्ष्णुम इत्यादावनिष्टाऽभावेऽपि अश्नुवहे इत्यादावतिप्रसङ्गात्। एवम् `उतश्चे'ति सूत्रेऽपि `अक्ष्णुही'त्यत्र दोषाऽभावेऽपि अश्नुहीत्यत्रातिप्रसङ्गः स्यादित्यसंयोगपूर्वेति प्रत्ययविशेषणं तु कृतमत्याहुः। `अश्नुही'ति परस्मपैदं यद्यपि लोके दुर्लभं, तथापि वेदाभिप्रायेण तत्प्रयोगस्य साधुत्वं बोध्यम्। `आप्नुहीटति पाठस्तूतिः।

Satishji's सूत्र-सूचिः

337) लोपश्चास्यान्यतरस्यां म्वोः 6-4-107
वृत्तिः असंयोगपूर्वस्‍य प्रत्‍ययोकारस्‍य लोपो वा म्‍वोः परयोः। The उकारः belonging to an affix and not preceded by a conjunct consonant is elided optionally, if followed by a मकारः or वकारः।

उदाहरणम् – शृणुवः/शृण्‍वः (√श्रु-धातुः, लँट्, उत्तम-पुरुषः, द्विवचनम्)
श्रु + लँट् 3-2-123 = श्रु + ल् 1-3-2, 1-3-3
= श्रु + वस् 3-4-78, 1-4-101, 1-4-102, 1-4-107, वस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + श्नु + वस् 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = शृ + नु + वस् 1-3-8, 1-3-4
Both “नु” as well as “वस्” are ङिद्वत् by 1-2-4. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।
= शृनुवस्/ शृन्वस् 6-4-107, 1-1-52 = शृनुवः/शृन्वः 8-2-66, 8-3-15 = शृणुवः/शृण्‍वः (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)