TBD.
उत्तमपुरुषो नियम्यते। अस्मद्युपपदे समानाभिधेये प्रयुज्यमाने ऽप्यप्रयुज्यमाने ऽपि उत्तमपुरुषो भवति। अहम् पचामि। आवाम् पचावः। वयम् पचामः। अप्रयुज्यमाने ऽपि पचामि। पचावः। पचामः।
TBD.
386 तथाभूतेऽस्मद्युत्तमः..
14 अस्मद्युत्तमः। तथाभूत इति। तिङ्वाच्यकारकवाचिनि अप्रयुज्यमाने प्रयुज्यमाने चेत्यर्थः।
13 तथाभूते इति। तिङ्वाच्यकारकवाचिनि प्रयुज्यमानेऽप्रयुज्यमाने चेत्यर्थः॥
287) अस्मद्युत्तमः 1-4-107
वृत्तिः तिङ्वाच्यकारकवाचिनि अस्मदि (उपपदे) प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः। When the अस्मद्-शब्दः (either implied or expressed) is the word that is in agreement with the verb, a उत्तम-पुरुष-प्रत्यय: is used.
गीतासु उदाहरणम् -
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। 4-8।। तिङन्त-पदम् is सम्भवामि। Here अहम् (अस्मद्-प्रातिपदिकम्, प्रथमा-एकवचनम्) is implied.
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ।।1-22।। तिङन्त-पदम् is निरीक्षे। Here अहम् (अस्मद्-प्रातिपदिकम्, प्रथमा-एकवचनम्) is expressed.