Table of Contents

<<3-4-98 —- 3-4-100>>

3-4-99 नित्यं डितः

प्रथमावृत्तिः

TBD.

काशिका

लेट इति निवृत्तम्। ङितो लकारस्य य उत्तमः, तस्य नित्यं सकारस्य लोपो भवति। उपचाव, उपचाम। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

423 सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः. अलोऽन्त्यस्येति सलोपः. भवाव. भवाम.

बालमनोरमा

49 नित्यं ङितः। उत्तमपुरुष एवास्य सूत्रस्य प्रयोजनम्, प्रसङ्गादिहोपन्यस्तम्। `स उत्तमस्ये'ति सूत्रमनुवर्तते। तत्र `स' इति षष्ठ\उfffद्न्तम्। तेन उत्तमो विशेष्यते। तदन्तविधिः। `इतश्च लोप' इत्यतो `लोप' इत्यनुवर्तते। तदाह–सकारान्तस्य ङिदुत्तमस्येति। ङितो लकारस्य य आदेशः–उत्तमपुरुषस्तस्येत्यर्थः। `वैतोऽन्यत्रे'त्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम्। अलोऽन्त्यस्येत्यन्त्यलोपः। भवतामिति। लोटस्तस्। तस्य तामादेशः। शप्। गुणाऽवादेशौ। न च तामादेशस्य सर्वादेशत्वात्प्राग्विभक्तित्वाऽभावा'न्न विभक्तौ तुस्मा' इति निषेधाऽभावान्मकारस्येत्संज्ञा शङ्क्या। संयोगान्तलोपेन मकारान्तप्रश्लेषेण उपदेशेऽन्त्यत्वाऽभावात्। भवन्त्विति। लोटो रेझन्तादेशे शिपि गुणेऽवादेशे द्वयोरकारयोः पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम्। अथ लोटः सिपि शपि गुणाऽवादेशयोः भव सि इति स्थिते–।

तत्त्वबोधिनी

38 सकारान्तस्येति। `ङिल्लकारोत्तमसकारस्ये'ति प्राचो व्याख्यानं त्वयुक्तं, भूयासमित्यादावतिप्रसङ्गः स्यादिति भावः। ङिदुत्तमस्येति। ङिल्लकारोत्तमस्येत्यर्थः। तेन भवाव भवामेत्यादौ नातिप्रसङ्गः॥

Satishji's सूत्र-सूचिः

308) नित्यं ङितः 3-4-99

वृत्तिः सकारान्‍तस्‍य ङिदुत्तमस्‍य नित्‍यं लोपः। A उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य only the ending सकारः takes लोपः ।

उदाहरणम् – भवाव (√भू-धातुः, लोँट्, उत्तम-पुरुषः, द्विवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + वस् 3-4-78, 1-4-101, 1-4-102, 1-4-107, वस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + व 3-4-85, 3-4-99 = भू + आट् व 3-4-92, 1-1-46 = भू + आ व 1-3-3
= भू + शप् + आव 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + आव 7-3-84 = भो + अ + आव 1-3-3, 1-3-8, 1-3-4 = भव + आव 6-1-78 = भवाव 6-1-101