Table of Contents

<<3-4-91 —- 3-4-93>>

3-4-92 आडुत्तमस्य पिच् च

प्रथमावृत्तिः

TBD.

काशिका

लोटः इत्येव। लोट्सम्बन्धिनः उत्तमपुरुषस्य आडागमो भवति, स च उत्तमपुरुषः पिद् भवति। करवाणि, करवाव, करवाम। करवै, कर्वावहै, करवामहै।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

420 लोडुत्तमस्याट् स्यात् पिच्च. हिन्योरुत्वं न, इकारोच्चारण सामर्थ्यात्..

बालमनोरमा

53 भव नि इति स्थिते– आडुत्तमस्येति। `लोटो लङ्व'दित्यतो लोट इत्यनुवर्तते। तदाह- -लोडुत्तमस्येति। स्तवानि स्तवावेत्यादौ सार्वधातुकपिदिति ङित्त्वनिवृत्त्यर्थं पिद्वचनम्। यद्यपि मिपस्थानिकस्य नः पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं, तथापि वस्मसोराडागमस्याऽङित्तवार्थं पिदिति वचनम्। ननु स्तुहि भवानीत्यत्र `एरु' रित्युत्वं कुतो न स्यादित्यत आह-हिन्योरुत्वं नेति। सामथ्र्यादिति। अन्यथा– `हु- नु' इत्येव विदध्यादिति भावः। भवानीति। आडागमे सवर्णदीर्घः। न चाऽत्र लङ्वद्भावादितश्चेति लोपः शङ्क्यः, इकारोच्चारणसामथ्र्यात्। अन्यथा `मो न' इत्येव विदध्यात्। एवं हेरपि बोध्यम्। यद्यपि भवानीत्यादवतो दीर्घो यञि इत्येव दीर्घसिद्धेराडागमविधिव्र्यर्थस्तथापि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम्। भवावेति। लोटो वस्। गुणावादेशौ। आडागमः। सवर्णदीर्घः। लङ्वद्भावात् `नित्यं ङित' इति सकारलोपः। एवं मसि भवामेति रूपम्। इति लोट्प्रक्रिया।

तत्त्वबोधिनी

41 `स' इति तच्छब्देन यस्याऽऽडागमः स परामृश्यत इत्याहुः॥

Satishji's सूत्र-सूचिः

305) आडुत्तमस्य पिच्च 3-4-92

वृत्तिः लोँडुत्तमस्‍याट् स्‍यात् पिच्‍च । A उत्तम-पुरुष-प्रत्ययः of लोँट्  gets आट् as an augment. And this उत्तम-पुरुष-प्रत्ययः is considered to have पकारः as इत्।

Note: हिन्‍योरुत्‍वं न, इकारोच्‍चारण-सामर्थ्यात्। By उच्चारणसामर्थ्यात्, the ending इकारः of हि and नि do not get उकारः as आदेशः by 3-4-87 एरुः।

Example continued from above

भू + नि = भू + आट् नि 3-4-92, 1-1-46 = भू आनि 1-3-3
= भू + शप् + आनि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = भो + शप् + आनि 7-3-84 = भो + अ + आनि 1-3-3, 1-3-8 = भव + आनि 6-1-78 = भवानि 6-1-101