TBD.
हल उत्तरस्य श्नाप्रत्ययस्य शनजादेशो भवति हौ परतः। मुषाण। पुषाण। हलः इति किम्? क्रीणीहि। हौ इति किम्? मुष्णाति। श्नः इति स्थानिनिर्देशः आदेशसम्प्रत्ययार्थः। इतरथा हि प्रत्ययान्तरम् एव सर्वविषयं विज्ञायेत।
TBD.
690 हलः परस्य श्नः शानजादेशः स्याद्धौ परे. स्तभान..
384 स्तभानेति श्नाप्रत्ययस्य शानजादेसे कृते `अतो हे' रिति लुक्।
335 हलः श्नः। स्तभानेति। `अतो हे' रित्यारम्भसामथ्र्यात्संनिपातपरिभाषाया अप्रवृत्तेर्लुक्। अत एव `जही'त्यत्र हिलोपवारणायेयं परिभाषा नोपन्यस्तेत्याहुः। यत्तु कैश्चिच्छानजादेशो धातुपाठपठितेभ्यः परस्य श्नो भवति न तु सोत्रेभ्य इति व्याख्या स्तभ्नीहीत्युदाह्मतं तन्निष्प्रमाणं, माधवादिग्रन्थविरुद्धं च।
440) हलः श्नः शानज्झौ 3-1-83
वृत्तिः हलः परस्य श्नः शानजादेशः स्याद्धौ परे । After a verbal root ending in a consonant, the affix “श्ना” is replaced by “शानच्”, when the हि-प्रत्ययः follows.
Note: As per 1-1-55, the entire term “श्ना” gets replaced.
उदाहरणम् – गृहाण √ग्रह्-धातुः (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१ ), लोँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातु: is उभयपदी।
Let us consider the case where it takes a परस्मैपद-प्रत्यय:।
ग्रह् + लोँट् 3-3-162
= ग्रह् + ल् 1-3-2, 1-3-3, 1-3-9
= ग्रह् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105. सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= ग्रह् + सि 1-3-3, 1-3-9
= ग्रह् + हि 3-4-87
= ग्रह् + श्ना + हि 3-1-81
= ग्रह् + शानच् + हि 3-1-83, 1-1-55
= ग् ऋ अ ह् + शानच् + हि 6-1-16. (Note: Since the सार्वधातुक-प्रत्यय: “शानच्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.)
= गृह् + शानच् + हि 6-1-108
= गृह् + आन + हि 1-3-3, 1-3-8, 1-3-9
= गृहान 6-4-105
= गृहाण 8-4-2, वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।