Table of Contents

<<6-4-104 —- 6-4-106>>

6-4-105 अतो हेः

प्रथमावृत्तिः

TBD.

काशिका

अकारान्तादङ्गादुत्तरस्य हेः लुग् भवति। पच। पठ। गच्छ। धाब। अतः इति किम्? युहि। रुहि। तपरकरणं किम्? लुनीहि। पुनीहि। ईत्वस्य असिद्धत्वादकार एव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

418 अतः परस्य हेर्लुक्. भव. भवतात्. भवतम्. भवत.

बालमनोरमा

51 अतो हेः। `अत' इति पञ्चमी। हेरिति षष्ठी। `चिणो लु'गित्यतो लुगित्यनुवर्तते। तदाह–अतः परस्येति। भवेति। हिविधानं तु स्तुहीत्याद्यर्थमिति भावः। भवतादिति। आशिषि लोटः सिपि तस्य `सेह्र्रपिच्चे'ति हिभावे शपि गुणावादेशयोः `अतो हे' रिति लुकं परत्वाद्बाधित्वा `तुह्रो'रिति पक्षे तातङिति भावः। भवतमिति। थसि शपि गुणेऽवादेशे चभव थस् इति स्थिते`लोटो लङ्व'दिति लङ्वत्त्वात्तस्थस्थमिपामितिथसस्तमादेशे रूपम्। एवं भवतेति। थस्य तादेश इति विशेषः।

तत्त्वबोधिनी

40 भवतादिति। लुगपेक्षया परत्वाद्धेस्तातङ्, अन्तरङ्गमेव लुग्बाधते न तु परमिति भावः॥

Satishji's सूत्र-सूचिः

303) अतो हेः 6-4-105

वृत्तिः अतः परस्‍य हेर्लुक् । There is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

Example continued from above

भवहि = भव 6-4-105