Table of Contents

<<3-1-25 —- 3-1-27>>

3-1-26 हेतुमति च

प्रथमावृत्तिः

TBD.

काशिका

हेतुः स्वतन्त्रय कर्तुः प्रयोजकः, तदीयो व्यापारः प्रेषनादिलक्षणो हेतुमान्, तस्मिन्नभिधेये धातोः णिच् प्रत्ययो भवति। कटं कारयति। ओदनं पाचयति। तत् करोति इत्युपसङ्ख्यानं सूत्रयति इत्याद्यर्थम्। सूत्रं करोति सूत्रयति। आख्यानात् कृतस् तदाचष्ट इति णिच् कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच् च कारकम्। आख्यानात् कृदन्त्तण् णिच् वक्तव्यः तदाचष्टे इत्येतस्मिन्नर्थे, कृल्लुक्, प्रकृतिप्रत्यापत्तिः, प्रकृतिवच् च कारकं भवति। कंसवधम् आचष्टे कंसं घातयति। बलिबन्धम् आचष्टे बलिं बन्धयति। राजागमनम् आचष्टे राजानम् आगमयति। आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम्। आरात्रि विवासम् आचश्टे रात्रिं विवासयति। चित्रीकरणे प्रापि। उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं सम्भावयते सूर्यम् उद्गमयति। नक्षत्रयोगे ज्ञि। पुष्ययोगं जानाति पुष्येण योजयति। मघभिर् योजयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

703 प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात्. भवन्तं प्रेरयति भावयति..

बालमनोरमा

404 हेतुमति च। `सत्यापपाशे'त्यतो णिजित्यनुवर्तते।हेतुः प्रयोजकः = आधारतया अस्यास्तीति हेतुमान् = प्रयोजकनिष्ठः प्रेषणादिव्यापारः, तस्मिन् वाच्ये णिच् स्यादित्यर्थः। `धातोरेकाचो हलादे'रिति धातोरित्यनुवर्तते। तदाह - प्रयोजकव्यापार #इति। प्रेषणादावित्यादिशब्देन अध्येषणानुमत्युपदेशादीनां ग्रहणम्। तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम्। आज्ञेत्यर्थः। समानस्याऽधिकस्य च सख्याचार्यादेः प्रवर्तना- अध्येषणा। अनुमति – राजादेः समंतिः। ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना– उपदेशः। हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः। प्रयोजकनिष्ठप्रवर्तनायां णिजिति फलितम्। एते तु विशेषाः प्रकरमादिना अवगम्यन्ते। `कुलालो घटं करोती' त्यत्र तु न णिच्, प्रयोज्यप्रयोजकोभयसमभिव्याहार एव तत्प्रवृत्तेरित्यन्यत्र विस्तरः। भवन्तमिति। देवदत्तो यज्वा भवति। तं प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्यभवनस्य मुख्यकर्ता यज्वा, तस्य यज्वभवने प्रवर्तयिता याजकादिः प्रयोजकः, तन्निष्ठ\उfffदां प्रेरणायां भूधातोर्णिच्। वृद्ध्यावादेशौ। भावीति णिजन्तम्। तस्माद्भवनानुकूलव्यापारार्थकाल्लटि `भावयती'ति रूपम्। भवन्तं प्रेरयतीति फलितोऽर्थः। भावयांबभूवेति। कर्तृगामिन्यपि क्रियाफले भूधातोरनात्मनेपदित्वादनुप्रयुज्यमानादपि नात्मनेपदमिति भावः।

तत्त्वबोधिनी

353 हेतुमति च। स्वनिष्ठाधारतानिरूपिताधेयतासंबन्धेन हेतुर्यत्रास्ति स हेतुमान् = व्यापारः, तस्मिन्वाच्ये णिजित्याह– प्रयोजकव्यापार इति। प्रयोजकश्चेतनाऽचेतनसाधारण्येन विवक्षितः। स च क्वचित्फलरूपः। `देवदत्तः गमयती' त्यादौ सिद्धः। `भिक्षा वासयति' `सङ्ग्रामो वासयती'त्यादौ तु फलरूपः। प्रेषणादाविति। भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेरणा। आज्ञेत्यर्थः। आदिशब्देनाऽध्येषणानुमत्यादीनमुपादानाम्। समानस्याऽधिकस्य वा ऋत्विगाचार्यादेः प्रवर्तना— अध्येषणम्। प्रार्थनेत्यर्थः। अनुमतिस्तु राजादेः संमतिः, तां विना यागादिक्रिया न निष्पद्यत इत्यनुमतिमात्रेण राजादिः प्रयोजकः। `अनुमत्यादी'त्यादिशब्देनात्रोपदेशानुग्रहयोरुपादानम्। `ज्वरितः कषायं पिबे'दित्युपदेशमात्रेण वैद्यादिः प्रयोजकः। यस्तु केनचिद्धन्तुमिष्टं पलायमानं निरुणद्धि सोऽपि हन्तुरनुग्राहकत्वेन प्रयोजकः। सर्वेऽप्येते विशेषाः कथं णिच्प्रत्ययगम्या इति चेत्। अत्राहुः– सर्वानुगतं प्रवर्तनासामान्यं णिचोऽर्थः, विशेषास्त्वर्थप्रकरणादिगम्या इति। नन्वेवं णिचो लोडादीनां च पर्यायता स्यात्ततश्च `इदानीं पृच्छतु भवा'निति वक्तवये `प्रच्छयती'ति णिजप प्रयुज्येतेति चेत्। मैवम्। कर्तुः प्रयोजको हि हेतुः, प्रैषविषयो यः संबोध्यो दैवदत्तादिः स तु नाद्यादि प्रश्नकर्तृत्वेनावधारितः। तथा च प्रयोज्यप्रवृत्त्युपहिता या प्रयोजकनिष्ठप्रवृत्तिः सा णिजर्थः, तदनुपहिता प्रयोजकप्रवृत्तिस्तु लोडर्थ इत्युभयोर्भेदः। उक्तं च — द्रव्यमात्रस्य तु प्रैषे पृच्छादेर्लोड् विधीयते। सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः'।इति। अस्यार्थः— कर्तृत्वेनाऽनवधारितस्य देवदत्तदेस्तु प्रैषे `प्रच्छ ज्ञीप्सायाटमित्यादेर्लोड्भवति। प्रयोज्यप्रवृत्त्युपहितप्रवृत्त्याश्रयस्य प्रयुक्तिस्तु यदा सा णिचो विषय इति। किं च प्रयोक्तृनिष्ठा प्रयुक्तिर्लोडर्थः, प्रयोक्रप्रयोक्तृकर्तका तु णिजर्थः। `पच देवदत्ते'त्यत्र हि वक्तैव प्रेरकः। `पाचयती'त्यादौ वक्तृभिन्नः, `पाचयामी'त्यादौ तु वक्तेति दिक्।

Satishji's सूत्र-सूचिः

448) हेतुमति च 3-1-26

वृत्तिः प्रयोजकव्‍यापारे प्रेषणादौ वाच्‍ये धातोर्णिच् स्‍यात् । The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

उदाहरणम् – भवन्तं प्रेरयति = भावयति। √भू-धातुः (भू सत्तायाम् १. १), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

भू + णिच् 3-1-26
= भू + इ 1-3-3, 1-3-7, 1-3-9
= भौ + इ 7-2-115
= भावि 6-1-78
“भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

भावि + लँट् 3-2-123
= भावि + ल् 1-3-2, 1-3-3, 1-3-9
= भावि + तिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भावि + शप् + तिप् 3-1-68
= भावि + अ + ति 1-3-3, 1-3-8, 1-3-9
= भावे + अ + ति 7-3-84
= भावयति 6-1-78