TBD.
कण्डूञित्येवम् आदिभ्यो यक् प्रत्ययो भवति। द्विवधाः कण्ड्वादयो, धातवः प्रातिपादिकानि च। तत्र धात्वधिकाराद् धतुभ्यः एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः। तथा च गुणप्रतिषेधार्थः ककारो ऽनुबध्यते। धातुप्रकरणाद् धातुः कस्य चासञ्जनादपि। आह च अयम् इमं दीर्घं मन्ये धतुर् विभाषितः। कण्डूञ् कण्डूयति, कण्डूयते। ञित्वात् कर्त्रभिप्राये क्रियाफले 1-3-72 इत्यात्मनेपदम्। कण्डूञ्। मन्तु। हृणीङ्। वल्गु। अस्मनस्। महीङ्। लेट्। लोट्। इरस्। इरज्। इरञ्। द्रवस्। मेधा। कुषुभ। मगध। तन्तस्। पम्पस्। सुख। दुःख। सपर। अरर। भिषज्। भिष्णज्। इषुध। चरण। चुरण। भुरण। तुरण। गद्गद। एला। केला। खेला। लिट्। लोट्।
TBD.
733
524 अथ कण्वादिप्रक्रिया निरूप्यन्ते। कण्ड्वादिभ्यो यक्। धातुभ्य इति। `धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः। नित्यमिति। वाग्रहणं तु निवृत्तमिति भावः। अन्यथा कण्डवतीत्याद्यपि स्यादिति भावः। द्विधा हीति। एतच्च भाष्ये स्पष्टम्। तेन कण्डूरित्याद्यविगृहीतरूपसिद्धिः। लेटितेति। `यस्य हलः' इति यलोपः। मेधा आशुग्रहणे इति। आशुग्रहणँ त्वरया बोधः। `सुग्रहणे' इति पाठान्तरम्। सुख्यतीति। यकि अतो लोपः। प्रातिपदिकेभ्यो यकि तु आद्र्धधातुकत्वाऽभावादल्लोपो न स्यादिति बोध्यम्। चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम्। अरर आराकर्मणीति। आरा = प्रतोदः, तत्करणकं कर्म- आराकर्म। भिषज् चिकित्सायाम्। जान्तोयऽयम्। भिषज्यति। लेखा स्खलने चेति। लेखायति।लेख्यतीति। अदन्ताद्यकि अतो लोपः। आकृतिगणोऽयमिति। कण्ड्वादिरित्यर्थः। तेन दुवस् संदीपने इत्यादिसङ्ग्रहः। `समिधाऽ\उfffद्ग्न दुवस्यते'। इति कण्ड्वादयः।
471 कण्ड्वादिभ्यो यक्। `धातोरेकाच' इत्यस्माद्धातोरिति वर्तते। वेति निवृत्तम्। अन्यथा कण्डवतीति स्यात्तदाह— धातोर्नित्यमिति। केचित्तु `नित्यं कौटिल्ये गतौ' इत्यतो नित्यमित्यनुवर्तत इत्याहुः। तच्चिन्त्यम्। तत्र हि नित्यग्रहणमेवकारार्थे वर्तते तक्रकौण्डिन्यन्यायस्याऽनित्यतां ज्ञापयितुमिति प्राग्व्याख्यातत्वात्।किं च `नित्यं कौटिल्ये गतौ' इत्यत्रापि वेत्यनुर्तते। अन्यथा गत्यर्थेभ्यो नित्यं यह् स्यादिति। स्वार्थे इति। इति कण्ड्वादिभ्यो यक्स्यात्कृञर्थे इति प्राचोक्तमयुक्तमिति भावः। द्विधा हीति। यकः कित्त्वेन धातव इति ज्ञायते। कण्डूञिति दीर्घपाठेन प्रातिपदिकान्यपीति। यदि तु धातव एव स्युस्तर्हि ह्यस्वान्ते पठितेऽपि यकि परे `अकृत्सार्वे'ति दीर्घेण कण्डूयतीत्यादिसिद्धेः किं तेन दीर्घपाठेन ?। द्वैविध्ये तु धातुभ्यो यकि गुणनिषेधेन कित्त्वं सार्थकम्। `कण्डू'रित्यादियग्रहितरूपसिद्ध्या दीर्घपाठोऽपि सार्थकः। अत एवोक्तं भाष्ये– - धातुप्रकरणाद्धातुः कस्यचाऽसञ्जनादपि। आह चायमिममं दीर्घं मन्ये धातुर्विभाषितः'। इति।एतेन कण्डूं करोति कण्डूयतीति प्राचोक्तविग्रहोऽपि परास्तः। कण्ड्वादयः प्रातिपदिकान्येवेत्यनभ्युपगमात्। न च द्वैविध्याभ्युपगमेऽपि प्रातपदिकादेव यक् स्यादिति वाच्यं, तथाहि सति दातोर्लडादौ कण्डवतीत्याद्यनिष्टप्रसङ्गात्। सुखदुःखादिप्राप्तिपदिकेभ्यो यकि अल्लोपाऽसंभवन सुख्यतीत्याद्यसिद्धिप्रसङ्गाच्च। यत्तु कैश्चित् `शब्दवैरकलहे'ति सूत्रात्करणे इत्यनुर्तनात्कृञर्थे यगिति प्राचोक्तव्याख्यायां न किंचिद्बाधकमित्युक्तं,तच्चिन्त्यम्, अनुधृत्तौ मानाऽभावात्। अन्यथा णिजन्तेष्विव प्रकृतिप्रत्ययाभ्यां व्यापारद्वयापत्तेरिति दिक्। पूर्वभाव इति। पूर्वत्वमित्यर्थः। लेटितेति। `यस्य हलः' इति यलोपः। सुख्यतीति। चुरादौ तु `सुख दुःख तत्क्रियायां। सुखयती'त्याद्युदाह्मतम्। सपर। यगन्तात् `अ प्रत्ययात्' `गुरोश्च हलः' इत्यनेन वा अप्रत्यये टाप्। सपर्या। अरर। आरा = प्रतोदः। तत्करणकं कर्म आराकर्म। अदन्तोऽयमिति। लेख्यति। आदन्तपक्षे तु लेखायति। महीङ्। `प्रेत्य स्वर्गे महीयते' इति रामायणम्। प्रसृताविति। प्रसृतिः– परिमाणविशेषः। प्रभतूभावे इति। बाहुल्य इत्यर्थः। `प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु'इत्यमरः। संभूयस्यति। असंभूयसीत्।नेह संशब्दसय् पृथक्कृतिः, यत्र प्रातिपदिकाद्धातुसंज्ञाप्रयोजकप्रत्ययस्य विधानं तत्रैव पृथक्कृतिरित्याहुः। आकृतिगण इति। तेन दुवस् सन्दीपने इत्यादि सिद्धम्। प्रयुज्यते च `समिधाऽग्नि दुवस्यते'त्यादि। \र्\निति तत्त्वबोधिन्याम् कण्ड्वादिप्रक्रिया।
TBD.