TBD.
अजन्तस्य अङ्गस्य ञिति णिति च प्रत्यये वृद्धिर् भवति। ञिति एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कारः। हारः। णिति गौः, गावौ, गावः। सखायौ, सखायः। जैत्रम्। यौत्रम्। च्यौत्नः। जयतेर् यौतेश्च उणादयो बहुलम् 3-3-1 इति ष्ट्रन् प्रत्ययः। च्यवतेरपि त्नण्।
TBD.
182 अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे. सखायौ. सखायः. हे सखे. सखायम्. सखायौ. सखीन्. सख्या. सख्ये..
252 अचोञ्णिति। ञ् च ण् चञ्णौ, तौ इतौ यस्य तत् ञ्णित्। `मृजेः' इत्यतो `वृद्धि'रित्यनुवर्तते। `अङ्गस्ये'त्यधिकृतमचा विशेष्यते। ततस्तदन्तविधिः। तदाह- अजन्तस्येत्यादिना। स्थानसाम्यादिकारस्य वृद्धिरैकारः। तस्य आयादेश इत्यभिप्रेत्याह-सखायाविति। एवं-सखायः। सखायं सखायौ। सखीनिति शसि हरिवद्रूपम्। असर्वनामस्थानत्वाण्णित्त्वाऽभावान्न वृद्धिः। घिसंज्ञाऽभावादिति। `शेषो घ्यसखी'त्यत्र असखीति पर्युदासादिति भावः। न तत्कार्यमिति। घिप्रयुक्तकार्यं नेत्यर्थः। सख्येति। सखि-आ इति स्थिते घित्वाऽभावादाङो नाऽस्त्रियामिति नाभावाऽभावे यणि रूपम्। सख्ये इति। सखि-ए इति स्थिते घित्वाऽभावात् `घेर्ङिती'ति गुणाऽभावे यणि रूपम्। ङसिङसोः-सखि अस् इति स्थिते घित्वाऽभावात् `घेर्ङिती'ति गुणाऽभावे यणि सख्यस् इति स्थिते।
213 अचोञ्णिति। `मृजेर्वृद्धि'रित्यतो `वृद्धि'रित्यनुवर्तते, `अङ्गस्ये'ति चानुवृत्तमचा विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेन व्याचष्टे— अजन्ताङ्गस्येति।