Table of Contents

<<3-2-138 —- 3-2-140>>

3-2-139 ग्लाजिस्थश् च क्ष्नुः

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इति निवृत्तम्। ग्ला जि स्था इत्येतेभ्यो धातुभ्यः, चकारात् भुवश्च तच्छीलादिषु क्ष्नुः प्रत्ययो भवति। ग्लास्नुः। जिष्णुः। स्थास्नुः। भूष्णुः। गिच्चायं प्रत्ययो न कित्। तेन स्थः ईकारो न भवति। क्ङिति च 1-1-5 इत्यत्र गकारो ऽपि चर्त्वभूतो निर्दिश्यते, तेन गुणो न भवति। श्र्युकः किति 7-2-11 इत्यत्र अपि गकरो निर्दिश्यते, तेन भुव इड् न भवति। क्ष्तोर्गित्त्वान् न स्थ ईकारः कङितोरीत्वशासनात्। गुणाभावस्त्रिषु स्मार्यः श्र्युको ऽनिट्त्वं गकोरितोः। दंशेश्छन्दस्युपसङ्ख्यानम्। दंक्ष्णवः पशवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

921 ग्लाजिस्थश्च। निवृत्तमिति। व्याख्यानादिति भावः। चाद्भुव इत्यनुवकृष्यते। ग्ला, जि, स्था एषां द्वन्द्वात्पञ्चमी। ग्ला, जि,स्था, भू इत्येभ्यः क्स्नुः स्यात्तच्छीलादिष्वित्यर्थः। ककार इत्। `स्थास्नु' इत्यत्र कित्त्वलक्षणं `घुमास्थे' तीत्त्वमाशङ्क्याह– गिदयमिति। सूत्रे चर्त्वेन ककारनिर्देश इति भावः। गित्त्वान्न गुण इति। `क्क्ङिति चे'त्यत्र गस्य चर्त्वेन ककारान्तरप्रश्लेषादिति भावः। ननु भूष्णुरित्यत्र इट् स्यात्, `श्र्युकः किती'ति कित एव इण्निषेधात् , अस्य च गित्त्वादित्यत आह– श्र्युक इति। प्रश्लेषादिति। चर्त्वेनेति भावः।

तत्त्वबोधिनी

756 ईत्त्वं नेति। `घुमास्थे'त्यादिः। गित्त्वादिति। `क्ङिति चे'त्यत्र गकारं प्रश्लिष्य गिति किति ङितीति व्याख्यानादिति भाव-। गकारप्रश्लेषादिति। नन्वेवं गकारे चत्र्वस्याऽसिद्धत्वात् `हशिचे'त्युत्वं स्यादित चेत्। सत्यम्। सौत्रोऽयं निर्देशः। तथा च वार्तिकं– ग्स्नोर्गित्त्वान्न स्थ ईकारः। क्ङितोरीत्त्वप्रशासनत्। गुणाऽभावस्त्रिषु स्मार्यः श्र्युकोऽनिट्त्वं कगोरितोः' इति। दङक्ष्णव इति। दंश दशने। `व्रश्चे'त्यादिना षत्वे `षढोः कः सी'ति कत्वम्। `आदेशप्रत्ययो'रिति षत्वम्। `अनिदिती'मिति नलोपो न,ग्स्नोर्गित्त्वेन प्राप्त्यभावात्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एतेभ्यश्चाद्भुवश्च ग्स्नु: स्यात् तच्‍छीलादिषु कर्तृषु । Following any one of the verbal roots listed below, the affix ‘ग्स्नु’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill -
(i) √ग्लै (ग्लै हर्षक्षये १. १०५१)
(ii) √जि (जि जये १. ६४२, जि अभिभवे १. १०९६)
(iii) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
(iv) √भू (भू सत्तायाम् १. १)

उदाहरणम् – जयति तच्छील:/तद्धर्मा/तत्साधुकारी = जिष्णु: ।

जि + ग्स्नु 3-2-139
= जि + स्नु 1-3-8, 1-3-9. 7-2-10 stops the augment ‘इट्’ which would have been done by 7-2-35. 1-1-5 stops the गुणादेश: which would have been done by 7-3-84
= जिष्नु 8-3-59
= जिष्णु 8-4-1. ‘जिष्णु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – तिष्ठति तच्छील:/तद्धर्मा/तत्साधुकारी = स्थास्नु: ।

स्था + ग्स्नु 3-2-139
= स्था + स्नु 1-3-8, 1-3-9. 7-2-10 stops the augment ‘इट्’ which would have been done by 7-2-35. Note: 6-4-66 cannot apply here because ‘ग्स्नु’ is a गित् and not a कित् or a ङित्।
= स्थास्नु । ‘स्थास्नु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.