Table of Contents

<<1-1-5 —- 1-1-7>>

1-1-6 दीधीवेवीइटाम्

प्रथमावृत्तिः

TBD.

काशिका

दीधीवेव्योः इटश्च ये गुणवृद्धी प्राप्नुतः, ते न भवतः। आदीछ्यनम्, आदीद्यकः। आवेव्यनम्, आवेव्यकः। इटः खल्वपि कणिता श्वः। रणिता श्वः। वृद्धिरिटो न संभवति इति लघूपधगुणस्यात्र प्रतिषेधः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

39 दीधीवेवी। `दीधीह् दीप्तिदेवनयोः' `वेवीङ् वेतिनी तुल्ये'। दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्ठी। `इको गुणवृद्धी' इत्यतो गुणवृद्धी इति, `न धातुलोप' इत्यतो नेति चानुवर्तते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.