Table of Contents

<<1-1-1 —- 1-1-3>>

1-1-2 अदेङ् गुणः

प्रथमावृत्तिः

TBD.

काशिका

गुणशब्दः संज्ञात्वेन विधीयते, प्रत्येकम्, अदेङां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च। तपरकरणं त्विह सर्वार्थम्। तरिता। चेता। स्तोता। जयन्ति। अहं पचे। गुणप्रदेशाः मिदेर् गुणः 7-3-82 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

25 अत् एङ् च गुणसंज्ञः स्यात्..

सिद्धान्तकौमुदी

<< 1-1-21-3-1 >>
१७ अदेङ् च गुणसंज्ञः स्यात् ॥

बालमनोरमा

19 अदेङ्गुणः। संज्ञाप्रस्तावात्संज्ञेति लभ्यते। अच्च एङ्? चेति समाहारद्वन्द्वः। तदाह–अदेङ् चेत्यादिना।

तत्त्वबोधिनी

18 अदेङ्गुणः। तपरकरणमिह सर्वार्थम्। तेन `गङ्गोदक'मित्यत्र त्रिमात्रो न। `तरती'त्यत्र त्वकार एव, नतु कदाचिदाकारः। नच प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात्। गुणप्रदेशास्तु- `आद्गुणः' `अतो गुणे' इत्यादयः।

Satishji's सूत्र-सूचिः

TBD.