Table of Contents

<<8-2-77 —- 8-2-79>>

8-2-78 उपधायां च

प्रथमावृत्तिः

TBD.

काशिका

हलि इति अनुवर्तते। धातोः उपधाभूतौ यौ रेफवकारौ हल्परौ तयोः उपधायाः इको दीर्घो भवति हुर्च्छा हूर्च्छिता। मुर्च्छा मूर्छिता। उर्वी ऊर्विता। धुर्वी धूर्विता। हलि इत्येव, चिरि, जिरि चिरिणोति। जिरिणोति। इह कस्मान् न भवति, री गतौ रिर्यतुः, रिर्युः, वी गत्यादिषु विव्यतुः विव्युः इति? यणादेशस्य स्थानिवत्त्वातसिद्धत्वाच् च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः। चतुर्यिता इत्यत्र अपि बहिरङ्गलक्षणत्वाततो लोपस्य धातोः उपधाभूतो रेफो न भवति। प्रतिदीव्ना इत्यत्र तु हलि च 8-2-77 इति दीर्घत्वम्, दीर्घविधौ लोपाजादेशस्य स्थानिवद् भावप्रतिषेधात्। असिद्धं बहिरङ्गमन्तरङ्गे इत्येतत् तु नाश्रयितव्यम्। उणादयो ऽव्युत्पन्नानि प्रातिपदिकानि इति जिव्रिः, कर्योः, गिर्योः इत्येवम् आदिषु दीर्घो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

109 उपधायां च। सिपि धातोरिति, `र्वोरुपाधाया' इत्यतो र्वोरिक इति, `हलि चे'त्यतो हलीति चानुवर्तते। `उपधयो'रित्यर्थे उपधायामित्यार्षम्। तदाह–धातोरित्यादि। ऊर्दत इति। अत्र धातोः रेफवान्तत्वाऽभावात् `र्वोरुपधायाः' इत्यस्य `हलि चे'त्यस्य चाऽप्राप्तौ `उपाधायां चे'त्यारम्भः। धातोरित्यभावे पदाधिकारस्थत्वात्पदस्य उपधाभूतयोरित्यर्थः स्यात्। ततश्च क्विबन्ते ऊर्दित्यत्रैव स्यात्, ऊर्दत इत्यादौ न स्यात्। रेफवकारयोः किम् ?। पुष्प्यति। हल्परयोः किम् ?। चिरिणोति। इकः किं ?। नर्दति। ऊर्दांचक्र इति। इजादित्वादाम्। `कृञ्चानुप्रयुज्यते' इत्यनुप्रयोगः। कुर्देति। गुदेत्यपि पृथग्धातुः। `क्रीडायामेवे'त्यर्थनिर्देशः। एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति। कूर्दत इति। `उपधायां चे'ति दीर्घः। चुकूर्द इति। `कुहोश्चु'रिति चुत्वम्। खूर्दत इति। `उपधायां चे'ति दीर्घः। एवं गूर्दते इति। गोदत इति। शपि लघूपधगुणः। जुगुद इति। `असंयोगा'दिति कित्त्वान्न गुणः। षूदेति। क्षरणं–प्ररुआवणम्। सूदत इति। प्ररुआवतीत्यर्थः। `धात्वादे'रिति षस्य सः। अलघूपधत्वान् गुणः। सुषूद इति। `धात्वादे'रिति षस्य सत्वे लिटि द्वित्वादौ इणः परस्यादेशसकारत्वात्षत्वम्। यदि धातुपाठे सकारस्यैव पाठस्तर्हि इहादेशसकात्वाऽभावात् षत्वं न स्यात्। षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात्षत्वं सूपपादमिति भावः। ननु धातुपाठे के धातवः षादयः पठिताः, के वा सादयः, पाणिनिकृतषोपदेशपाठस्य इदानीं परिभ्रष्टत्वादित्याशङ्क्य पाणिनीयपरम्परासिद्धान् षोपेदेशान् पठति –सेगिति श्लोकेन। `दन्त्याजन्तषादय एकाचः षोपदेशाः स्यु'रित्यन्वयः। दन्त्यश्च अच्च दन्त्याचौ, तौ अन्तौ = अव्यवहितपरौ यस्य स दन्त्याऽजन्तः, तथाविधः षः = षकार आदिर्येषां ते – दन्त्याजन्तषादयः। दन्त्यपरकोऽच्परकश्च यः षकारस्तदादय एकाचो धातव इदानीं कृतसत्वाः सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिनोपदिष्टाः प्रत्येतव्या इत्यर्थः। `सादय' इति पाठेऽप्येवमेव व्याख्येयम्। `अज्दन्त्यपराः षादयः षोपदेशाः' इति भाष्यम्। षूद क्षरणे इत्यादयोऽच्परकषोपदेशाः। `ष्ठा गतिनिवृत्ता'वित्यादयस्तु दन्त्यपरकषोपदेशाः। दन्त्याजन्तेति किम् ?। स्कुदि आप्रवणे। चुस्कुन्दे। अत्र सकारो न दन्त्यपरको, नाप्यच्परकः। एकाचः किम् ?। सोसूत्र्यते। `सूत्र वेष्टने', चुरादिरजन्तोऽनेकाच्। यद्यप्येकाच इति भाष्ये न दृश्यते, तथापि यङ्विधौ सोसूच्यत इति भाष्यं तत्र मानमिति बोध्यम्। एवं च `साध-संसिद्धौ' इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव। ननु `सेकृ गतौ', `सृप्लृ गतौ' , `सृ गतौ', `सृज विसर्गे' एते चत्वारोऽच्परकसादयः। स्तृञ् आच्छादने' ऋदन्तः श्नुविकरणः,। `स्तृ?ञ् आच्छादने ऋदन्तः श्नविकरणः, स्त्यै शब्दसङ्घातयोः'। एते त्रयो दन्त्यपरकसादयः। एषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाशङ्क्य तद्भिन्नत्वं विशेषणमाह– - सेक् सृप् सृ स्तृ सृज् स्तृ?म्त्यान्ये इति। स्त्यै धातोः कृतात्वस्य निर्द्देशः श्लोके समावेशार्थः, स्त्यै इत्यैकारान्तस्य निर्देशे `स्त्यार्यन्य' इत्येकस्याक्षरस्याधिक्यापत्तेः। नन्वेवमपि ष्वष्क् गतौ, ञिष्विदा गात्रप्ररुआवणे, ष्वद आस्वादने, ष्वञ्ज परिष्वङ्गे, ञिष्वप् शये, ष्मिङीषद्धसने–इत्येतेषु सकारस्य दन्त्यपरकत्वाऽभावादच्परकत्वाऽभावाच्च षोपदेशेष्वसङ्ग्रह स्यादित्यव्याप्तिमाशङ्क्य तानपि संङ्गृह्णाति–ष्वक् स्विद् स्वद् स्वप् स्मिङ इति। `अपी'ति शेष-। ननु `स्वृ शब्दोपतापयो'रित्यादीनामपि दन्त्यवकारपरकत्वात्षोपदेशत्वं स्यादित्यत आह– दन्त्यः केवलदन्त्य इति। कुत इत्यत आह– ष्वष्कादीनांमिति। अन्यथा दन्त्यपरकत्वादेव सिद्धे ष्वष्कादिग्रहणं व्यर्थं स्यादिति भावः। यद्यपि ष्वष्कतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्ठिनुष्वष्कतीनां सत्वप्रतिषेध इति वार्तिकात्तल्लाभ इति भावः। हादेति। रेफवानयम्। अव्यक्तशब्दः— अमनुष्यवाक।जहाद इति। अभ्यासस्य ह्यस्वः। चुत्वम्। ह्लादीति। लकारवानयम्। `स्वीदितो निष्ठाया'मितीण्निषेधार्थमीत्वम्। स्वादेति केवलदन्त्यपरकत्वाऽभावान्नायं षोपदेशः। असिस्वदत्। पदेति। गुदरव इत्यर्थः। यतीति। ईदित्त्वमिण्निषेधार्थम्। येते इति। `अत एकहल्मध्ये' इत्येत्वाभ्यासलोपौ। युतृ जुतृ इति। ऋदित्त्वम् `नाग्लोपिशास्वृदिता'मित्याद्यर्थम्। योतत इति। शपि लघूपधगुणः। युयुत इति। `असंयोगा'दिति कित्त्वान्न गुणः। विथृ वेथृ इति। द्वितीयान्तविमौ। ननु `विथृ' इत्येवास्तु, लघूपधगुणे सति घेथत इत्यस्याऽविशिष्टत्वादित्यत आह– विविते विवेथे इति। वेथृधातोर्विवेथे इति रूपम्। विथृधातोस्तु असंयोगादिति कित्त्वाद्गुणाऽभावे विविथ इति रूपमिति भावपः। श्रथीति। द्वितीयान्तः। शैथिल्यं– रुआंसनम्। श्रन्थते इति। इदित्त्वान्नुम्। ग्रथीति। द्वितीयान्तः। काटिल्यं–वक्रीभवनम्। ग्रन्थत इति। इदित्त्वान्नुम्। कत्थेति। अविद्यमानगुणज्ञापनं श्लाघा। अथाष्टातिं?रशदिति। अष्टौ च तिं?रशदिति द्वन्द्वः। अष्टाधिका तिं?रशदिति वा। `द्व्यष्टनः सङ्खाया'मित्यात्वम्। `अष्ट तिं?रश'दिति पाठे तु अष्टेति पृथक्पदम्। परस्मैपदिन इति। अनुदात्तस्वरितङ्?ञित्त्वाऽभावात् `शेषात्कर्तरी'ति परस्मैपदिन एवेति भाव-। अतेति। सातत्यगमनं– संततगमनम्। लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह– अत आदेरिति। `इति दीर्घ'इति शेषः। तथा च अभ्यासाऽकारस्य दीर्गे सति सवर्णदीर्घः। तदाह-आतेति। अकारस्य हल्मध्यस्थत्वऽभावादेत्वाभ्यासलोपौ न। लुङिति। अतधातोर्लुङस्तिपि इतश्चेति इकारलोपे च्लेः सिचि तस्य इडागमे `अस्तिसिचोऽपृक्त' इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः।

तत्त्वबोधिनी

84 `सिपि धातो'रित्यतो धातोरित्यनुवर्तते, `र्वरुपधायाः' इत्यतो र्वोरिक इति। `हलि चे'त्यतो हलीति च। तदाह– धातोरित्यादि। धातोः किम् ?। `ऊङुतः'। कुरूः कुर्वौ कुर्व इत्यत्रेको दीर्घो माभूतू। न चात्र रेफस्य प्रातिपदिकोपधात्वेऽपि पदोपधात्वाऽभावदेव दीर्घो भवेदिति धातोरित्यनुवर्तनमिहानावश्यकमिति वाच्यं, पदस्येत्यनुवृत्तौ तु कूर्दते गूर्दते इत्याद्यसिद्धिप्रसङ्गात्। वस्तुतस्तु पूर्वत्रासिद्धे न स्थानिवदिति स्वीकारात् `अचः परस्मि'न्निति स्थानिवत्त्वस्य निषेधाभ्युपगमेऽपि कार्यकालपक्षे `असिद्धं बहिरङ्ग'मिति परिभाषायाः प्रवृत्तेर्बहिरङ्गयणोऽसिद्धत्वात्कुर्वौ कुर्व इत्यत्र `उपधायां चे'ति दीर्घो न भवेदिति धातुग्रहणानुवर्तनस्य नात्यन्तावश्यकता, पदस्येत्यननुवृत्त्या कूर्दते इत्यादौ दीर्घः सिध्यत्येवाहुः। रेफवकारयोः किम् ?। `पुष्प विकसने' पुष्प्यति। हल्परयोः किम् ?। चिरणोति। जिरिणोति। इकः किम् ?। अर्वते। नर्दति। ननु `हलि चे'त्यत्र रेफवकारयोर्हल्परयोरिको दीर्घः स्यादिति व्याख्यायां कूर्दते गूर्दते इत्यादि सिध्यत्येवेति सूत्रमिदं व्यर्थमिति चेत्। अत्राहुः– `हलिचे'त्यत्र धातुग्रहणमनुवर्तनीयमेव। अन्यथा दिवमिच्छति दिव्यतीत्यादावतिप्रसङ्गः स्यात्। तथा च `उपधायां चे'ति सूत्राऽभावे उपधाभूतयोः र्वोः परतो दीर्घोन स्यात् किं तुरेफवान्तयोरेव धात्वोः `हलि चे'ति सूत्रेण स्यादित्येतत्सूत्रमावश्यकमेवेति। सूदते इति। रुआवतीत्यर्थः। ननु स्वर्दतिवत्स्वद सूदेति दन्त्यादय एव धातवः पठ\उfffद्न्ताम्, षोपदेशान् पठित्वा सत्वविधौ गौरवात्। मैवम्। तथाहि सति ण्यन्च्चङि असिष्विदत, असूषुददित्यादौ, लिटि सुषूदे सिषेधेत्यादौ च `आदेशप्रत्यययोः' इति षत्वं न स्यात्। इणः परस्य सकारमात्रस्य षत्वविधौ तु सुपिसौ सुपिस इत्यादावपि स्यादिति धातुपाठे पाणिनिना तालव्यदन्त्यादिपाठवत्षोपदेशा अपि व्यवस्थयैव पठिताः, स च पाठ इदानीं परिभ्रष्टः। साधादिषु सादिपाठस्यैव दृश्यमानत्वात्। अतो लक्षणमुखेन तान्व्यवस्थापयति– सेगित्यादि। दन्तश्च अञ्च दन्त्यादौ, तौ अन्तौ अव्यवहितपरौ यसय् स दन्त्याजन्तः। दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः, स आदिर्येषां धातूनां ते दन्त्यान्तसादयोऽजन्तसादयश्चैकाचः षोपदेशा बोध्याः। तथा च साधादौ सांप्रतं पठ\उfffद्मानः सकार उपदेशे न स्थित इत्यनुमेयदन्तौ।उक्तलक्षणस्यातिव्या\उfffद्प्त वारयितुमाह– सिगिति। `सकृ गतौ'। `सृप्लृ गतौ' `स्तृञ् आच्छादने'। `सृज विसर्गे'। स्तृ?ञ् ` आच्छादने'। `स्त्यै शब्दसह्घातयो'। एभ्योऽन्ये। पूर्वेण केषांचिदसङ्ग्रहादाह– ष्वष्केति। `ष्वष्क गतौ' ञिष्विदा गात्रप्रक्षरणे'। `स्वद आस्वादने'। `ष्वञ्ज परिष्वङ्गेट। `ञिष्वप् शये'। `स्मिङ् ईषद्धसने' एते षोपदेशा' इत्यन्वयः। `स्वाद आस्वादने' इत्यादावतिव्याप्तिमाशङ्क्#आयाह– दन्त्यः केवलदन्त्य इति। तथा च असिस्वददित्यादौ षत्वं नेति भावः। ह्लादी सुखे च। चादव्यक्ते शब्दे। ईकारः `\उfffदाईदितो निष्ठाया'मितीण्निषेधार्थः। प्रह्लन्नः प्रह्लन्नवान्। इह `ह्लादो निष्ठाया'मित्युपधाह्यस्वः। श्लाघायामिति। अविद्यमानगुणसम्बन्धज्ञापनं– श्लाघा। आततुरिति। हल्मध्यस्थत्वाऽभावादेत्वं न।

Satishji's सूत्र-सूचिः

TBD.