Table of Contents

<<8-2-2 —- 8-2-4>>

8-2-3 न मु ने

प्रथमावृत्तिः

TBD.

काशिका

मुभावो नाभावे कर्तव्ये न असिद्धो भवति। किं तर्हि? सिद्ध एव। अमुना। मुभावस्य असिद्धत्वात् घिलक्षणो नाभावो न स्यात्। कृते तु नाभावे मुभावस्य असिद्धत्वात्, सुपि च 7-3-102 इति दीर्घत्वं यत् प्राप्नोति, तत् सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति। अथवा योगद्वयम् इदम् उभयार्थं तन्त्रेण उच्चारितम्। अथ वा ने परतो यत् प्राप्नोति तस्मिन् कर्तव्ये मुभावो न असिद्धः इत्येष एव अत्र सूत्रार्थः। ने तु कर्तव्ये मुभावस्य यत् सिद्धत्वं तदर्थात् सङ्गृहीतम्। तेन अत्र मुभावस्य सिद्धत्वात् नाभावश्च भवति, दीर्घत्वं च न भवति। एकादेशस्वरो ऽन्तरङ्गः सिद्धो वक्तव्यः। किं प्रयोजनम्? अयायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम्। वृक्ष इदम्, प्लक्ष इदम्। अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः। स एकादेशस्वरो ऽन्तरङ्गः सिद्धो वक्तव्यः। किं प्रयोजनम्? अयायावेकादेशशतृस्वरैकाननुदत्तसर्वानुदात्तार्थम्। वृक्ष इदम्, प्लक्ष इदम्। अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः। स एकादेश उदात्तेन उदात्तः 8-2-5 इत्युदात्तः। तस्य? सिद्धत्वं वक्तव्यम्। आन्तर्यतः अयादेशः उदात्तो यथा स्यात्। आय् कुमार्या इदम्। कथम् इदम् उदाहरणम् यदि उदात्तयणो हल्पूर्वात् 6-1-174) इत्युदात्तत्वे कृते विभक्तेः आटश्च (*6,1.90 एकादेशः, तदा भवति इदम् उदाहरणम्। अथ तु कृते एकादेशे उदात्तयणो हल्पूर्वात् 6-1-174 इति स्वरः, तदा न एतदस्य प्रयोजनं भवति। आव् वृक्षाविदम्। प्लक्षाविदम्। एकादेशः स्वरः गाङ्गे ऽनूप इति गाङ्गेशब्दे एकारः एकादेश उदात्तेन उदात्तः 8-2-5 इति उदात्तः। तस्य सिद्धत्वात् य पुनः एङः पदान्तादति 6-1-109 इति एकादेशः स एकादेश उदात्तेन उदात्तः 8-2-5) इति, अत स्वरितो वा ऽनुदात्ते पदादौ (*8,2.6 इत्येतद् भवति। शतृस्वरः तुदती। नुदती। अदुपदेशातिति लसार्वधातुकानुदत्तत्वे कृते एकादेशः, तदुदात्तस्य सिद्धत्वात् शतुरनुमो नद्यजादी 6-1-173 अन्तोदात्तातित्येष स्वरो भवति। अनुम इति प्रतिषेधो ज्ञापकः, एकादेशस्वरः शतृस्वरे सिद्धः इति। नहि सनुंकं शत्रन्तं शत्रन्तं किञ्चिदेकादेशस्वरम् अन्तरेण अन्तोदात्तम् अस्ति। एकाननुदात्तः तुदन्ति। लिखन्ति। एकदेशस्वरस्य सिद्धत्वात् तेन अनुदात्तं पदम् एकवर्जम् 6-1-158 इति वर्ज्यमानता भवति। सर्वानुदात्तः ब्राह्मणास् तुदन्ति। ब्राह्मणाः लिखन्ति। एकादेशस्वरस्य सिद्धत्वात् कृते तस्मिन् तिङ्ङतिङः 8-1-27 इति निघातो भवति। अन्तरङ्ग इति वचनाद् बहिरङ्गस्य असिद्धत्वम् एव, पचतीति, प्रपचतीति। संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः। किं प्रयोजनम्? हरिवो मेदिनं त्वा। हरिवः इति मतुबन्तम् एतत्, तत्र छन्दसीरः 8-2-15 इति वत्त्वे, संयोगान्तस्य लोपे च कृते, मतुवसो रु मम्बुद्धौ छन्दसि 8-3-1 इति रुत्वम्, तस्य संयोगान्तस्य लोपस्य असिद्धत्वात् हशि च 6-1-114 इति उत्वं न प्राप्नोति। सिज्लोप एकादेशे सिद्धो वक्तव्यः। अलावीत्। अपावीत्। इट ईटि 8-2-29 इति सिज्लोपस्य सिद्धत्वात् सवर्णदीर्घत्व भवति। निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्द्ः वक्तव्यः। वृक्णः। वृक्णवान्। निष्ठादेशस्य सिद्धत्वात् झलि इति षत्वं न भवति। कुत्वं तु प्रति असिद्ध एव इति तद् भवति। स्वरप्रत्ययविधीड्विधिषु क्षीबशब्द उदाह्रियते। तत्र च निपातनम् अनेकधा समाश्रीयते। यदा क्षीबेर् निष्ठायाम् इटि कृते इत्शब्दलोपो निपात्यते, तदा क्षीबः इति संज्ञायाम् इत्शब्दलोपस्य असिद्धत्वात् निष्ठा च द्व्यजनात् 6-1-205 इत्येष स्वरो न प्राप्नोति, क्षीबेन तरति क्षीबिकः इति द्व्यजलक्षणष्ठन् न प्रप्नोति। यदा तु तकारलोपो निपात्यते, तदा तस्य असिद्धत्वातिडागमः प्राप्नोति। प्लुतविकारस्तुग्विधौ छे सिद्धो वक्तव्यः। अग्ना3इच्छत्रम्। पटा3उच्छत्रम्। प्लुतविकारस्य असिद्धत्वत् छे च 6-1-73 इति ह्रस्वलक्षणो नित्यस् तुग् न प्राप्नोति। श्चुत्वं धुटि सिद्धं वक्तव्यम्। श्च्युतिर् क्षरणे इत्ययं धातुः सकारादिः पठ्यते, तस्य श्चुत्वस्य असिद्धत्वातट् श्च्योतति, रट् श्च्योतति इति डः सि ढुट् 8-3-21 इति प्राप्नोति। अटति इति अड्, रटति इति रड्, क्विबन्तो ऽयम्। किमर्थं पुनः सकारादिः पठ्यते? इह मधु श्च्योतति इति मधुश्च्युत्, क्विबन्तः, मधुश्च्युतम् आचष्टे इति णिच्, मधुश्च्ययति, मधुश्च्ययतेः पुनः क्विपि कृते संयोगादित्वात् सलोपः, संयोगान्तत्वाद् यलोपः, चकारस्य कुत्वम्, मधुगिति सिद्धम्। शकारादौ पुनरेतस्मिन् संयोगान्तलोपेन यकारचकारयोः लुप्तयोः शकारस्य षत्वे सति मधुडिति स्यात्। अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये। बभणतुः। बभणुः। अभ्यासजश्त्वस्यासिद्धत्वातनादेशादेः इति एत्वं प्राप्नोति। छिदेः विचिच्छित्सति, उच्छेः उचिच्छिषति इति अभ्यासादेशस्य असिद्धत्वात् छे च 6-1-73 इति तुक् न प्राप्नोति। द्विर्वचने परसवर्नवं सिद्धं वक्तव्यम्। सय्म्\उ0310 य्म्\उ0310 यन्ता, सव्म्\उ0310 व्म्\उ0310, वत्सरः, यल्म्\उ0310 ल्म्\उ0310, लोकम्, तल्म्\उ0310 ल्म्\उ0310 लोकम् इति परसवर्णस्यासिद्धत्वाद् यरः इति द्विर्वचनं न स्यात्। पदाधिकारश्चेल् लत्वघत्वढत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि। लत्वम् गलो हलः, गरो गरः। घत्वम् द्रोग्धा द्रोग्धा। ढत्वम् द्रोढा द्रोढा। नत्वम् नुन्नो नुन्नः, नुत्तो नुत्तः। रुत्वम् अभिनो ऽभिनः, अभिनदभिनत्। षत्वम् मातुःष्वसा मातुःष्वसा, मातुःस्वसा मतुःस्वसा। पितुःष्वसा पितुःष्वसा, पितुःस्वसा पितुःस्वसा। णत्वम् माषवापाणि माषवापाणि, माषवापानि माशवापानि। अनुनासिकम् वाङ्नयनं बाङ्नयनम्, वाग्नयनं वाग्नयनम्। छत्वम् वक्च्छयनं वाक्च्छयनम्, वाक्शयनं वाक्शयनम्। लत्वादीनां विकल्पितानाम् असिद्धत्वात् कृते द्विर्वचने सत्युपरिष्टद् विकल्पे सिति गरो गलः, गलो गरः इत्येवं रूपम् अपि द्विरुक्तं स्यात्। तदेतत् सर्वं न मु ने इति योगविभागेन साध्यते। न इत्येतावदनिष्टे विषये पूर्वत्र असिद्धस्य प्रतिषेधार्थम्। ततो मु ने इति। नेत्येतदनुवर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

360

बालमनोरमा

ननु कृतेऽपि प्रथमं मुत्वे नाभावो न संभवति, तस्मिन् कर्तव्ये मुत्वस्याऽसिद्धतया घेः परत्वाऽभावादित्यत आह–नमुने इति। असिद्धमित्यनुवर्तते। म् च उश्चेति समाहारद्वन्द्वः। `ने' इति ना इत्यस्य सप्तम्येकवचनम्। विषयसप्तमी सत्सप्तमी च एषा। तथाच `नाभावे कर्तव्ये कृते चे'ति लभ्यते। तदाह-नाभावे इत्यादिना। प्रकृते च नाभावे कर्तव्ये मुत्वस्याऽसिद्धत्वाभावाद्धेः परत्वान्नाभावो निर्बाधः। यदि तु नाभावे कर्तव्ये मुभावो नासिद्ध इत्येवाश्रीयते, तर्हि प्रकृते नाभावे कृते `सुपि च' इति दीर्घः प्रसज्येत। दीर्घे कर्तव्ये मुत्वस्याऽसिद्धतयाऽकारस्य सत्त्वात्। अतः `कृतेऽपी'त्याश्रितम्। ततश्च प्रकृते नाभावे कृतेऽपि दीर्घे कर्तव्ये मत्वस्याऽसिद्धत्वाभावादकाराऽभावात् न दीर्घ इति भावः। अमूभ्यामिति। त्यदाद्यत्वे, पररूपे, `सुपि च' इति दीर्घे, दस्य मत्वम्, आकारस्य ऊत्त्वमिति भावः। अमीभिरिति। त्यदाद्यत्वं, पररूपं, `नेदमदसोरकोः' इति ऐस्?निषेधः, `बहुवचने झल्येत्' इत्येत्वम्, `एत ईद्बहुवचने' इति ईत्त्वमत्वे इति भावः। अमुष्मै इति। त्यदाद्यत्वं, पररूपं, ङेः स्मै, उत्त्वमत्वे, षत्वमिति भावः। अमीभ्य इति। त्यदाद्यत्वं, पररूपं `बहुवचने झल्येत्' इत्येत्वम्, ईत्त्वमत्वे इति भावः। अमुष्मादिति। त्यदाद्यत्वं, पररूपं, ङसेः स्मात्, उत्वमत्वे, षत्वमिति भावः। अमुष्येति। त्यदाद्यत्वं, पररूपं, ङसः स्यादेशः, उत्वमत्वे, षत्वमिति भावः। अमुयोरिति ओसि त्यदाद्यत्वं, पररूपम्, `ओसि चे'त्येत्त्वम्, अयादेशः, उत्वमत्वे इति भावः। अमीषामिति। आमि त्यदाद्यत्वं, पररूपं, `ङेः स्मिन्नादेशः, उत्वमत्वे, षत्वमिति भावः। अमीष्विति। सुपि त्यदाद्यत्वं, पररूपम्, एत्त्वम्, ईत्त्वमत्वे, षत्वमिति भावः। इति सान्ताः। अथ हलन्तस्त्रीलिङ्गप्रकरणम् *

तत्त्वबोधिनी

391 न मु ने। `ने'इति विषयसप्तमीत्याह–नभावे कर्तव्य इति। अन्यथा घेः परत्वाऽभावान्नाभावो न स्यादिति भावः। नन्वेवमपि कृते नाभावे `सुपि चे'ति दीर्घः स्यात्, दीर्घं प्रति मुत्वस्याऽसिद्धत्वादत आह–कृते चेति। एतच्च `ने'इत्यस्यावृत्त्यां लभ्यते। एकत्र विषयसप्तम्यपरत्र तु परसप्मीत्याश्रयणात्। वस्तुतस्तु `कृते चे'चि व्याख्यानं व्यर्थं, संनिपातपरिभाषाया `सुपि चे'ति दीर्घस्य सिसमाधेयत्वात्। ननु `अधुना'इति वत् `अमुना'इत्येवोच्यतां किमनेनाऽसिद्धक्वनिषेधेनेति चेत्। अत्राहुः—`न मु ने'इत्युक्तिः `न'इति योगविभागार्था, तेन `रामः'`रामेभ्य'इत्यादि सिध्यति। अन्यथा हि रोरसिद्धतयोकारस्येत्संज्ञालोपौ कतं स्याताम्। न चानुनासिकनिर्देशसामर्थादित्संज्ञालोपौ प्रति रुत्वम नासिद्धमिति वाच्यम्, `तरुमूलं' `देवरुही'त्यादौ `हशि चे'त्यस्य व्यावृत्तये `अतो रो'रित्यत्रानुनासिकस्यैव निर्देशेन तत्रैव चरितार्थत्वात्। एवं च स्थानिवत्सूत्रस्यापि प्रवृत्तौ पदत्वाद्विसर्गौ लभ्यते। `पत्र्ययः'`परश्चे'त्यादिनिर्देशाश्चेह लिङ्गमिति दिक्। इति हलन्तपुंलिङ्गप्रकरणम्।

Satishji's सूत्र-सूचिः

254) न मु ने 8-2-3

वृत्ति: नाभावे कर्तव्‍ये कृते च मुभावो नाऽसिद्धः। When the “ना”-आदेश: (by 7-3-120) is to be done or has been done, the “मु”-आदेश: is not असिद्ध:।

उदाहरणम् – अदस् + टा 4-1-2 = अद अ + टा 7-2-102 = अद + टा 6-1-97 = अमु + टा 8-2-80 (Note: 7-1-12 was not applied because doing so will make 8-2-3 useless) = अमुना 8-2-3, 1-4-7, 7-3-120 (Note: 7-3-102 does not apply because of 8-2-3.)

वार्त्तिकम् - सिज्लोप एकादेशे सिद्धो वाच्यः ।

If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.)

Example continued from 8-2-28

अ पठ्/पाठ् + इ + ईत्
= अपठीत्/अपाठीत् The above वार्त्तिकम् allows 6-1-01 to apply.