Table of Contents

<<7-3-119 —- 7-4-1>>

7-3-120 आङो ना ऽस्त्रियाम्

प्रथमावृत्तिः

TBD.

काशिका

घेः उत्तरस्य आङः नाभावो भवति अस्त्रियाम्। अग्निना। वायुना। पटुना। पुंसि इति नोक्तम्, अमुना ब्राह्मणकुलेन। अस्त्रियाम् इति किम्? कृत्या। धेन्वा।। ॥ इति श्रीवामनविर्चितायां काशिकायां वृत्तौ सप्तमाध्यायस्य तृतीयः पादः।।

प्रथमावृत्तिः

TBD.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

171 घेः परस्याङो ना स्यादस्त्रियाम्. आङिति टासंज्ञा. हरिणा. हरिभ्याम्. हरिभिः..

बालमनोरमा

242 आङो। घेः परस्येति। `अच्च घेः' इत्यतो घिग्रहणानुवृत्तेरिति भावः। हरिणेति। नादेशे `अट्कुप्वा'ङिति णत्वम्। नन्वाङो विहितो नाभावः कथं टा इत्यस्य स्यादित्यत आह–आङितीति। प्राचामाचार्याणां शास्त्रे संञ्ज्ञैषेत्यर्थः। मत्येति। `स्त्रियां क्ति'निति क्तिन्नन्तमतिशब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भावः। हरिभ्याम्। हरिभिः। हरि-ए इति स्थिते।

तत्त्वबोधिनी

204 आङो ना। `पुंसी'ति तु नोक्तम्, `अमुना कुलेने'त्यत्र यथा स्यात्। न च नुमा रूपसिद्धिः, मुत्वास्याऽसिद्धत्वा `इकोऽची'ति नुमोऽप्रवृत्तेः। नादेशे तु नाऽसिद्धत्वम्। `न मुने' इति निषेधात्। नच `न मु ने' इति निषेधो नुम्येव किं न स्यात्,-`न' इत्यकारस्याऽविवक्षितत्वादिति वाच्यम्, `अमुना घटेने'त्याद्यसिद्ध्यापत्तेः। `अमुष्मै कुलाये'त्यादौ नुम्प्रसङ्गाच्च। न च तत्रस्मायादेशे सति नुमोऽप्रवृत्तिरिति शङ्क्यं, स्मायादेशं बाधित्वा परत्वान्नुमः प्रवृत्तेः। प्राचामिति। `आचार्याणा'मिति शेषः।

Satishji's सूत्र-सूचिः

82) आङो नाऽस्त्रियाम् 7-3-120

वृत्ति: घे: परस्याङो ना स्यादस्त्रियाम् । आङ् इति टासञ्ज्ञा । Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”।

गीतासु उदाहरणम् – श्लोकः bg9-10

हेतु + टा = हेतुना