TBD.
त्यदित्येवम् आदीनाम् अकारादेशो भवति विभक्तौ परतः। त्यद् स्यः, त्यौ, त्ये। तद् सः, तौ, ते। यद् यः, यौ, ये। एतद् एषः, एतौ, एते। इदम् अयम्, इमौ, इमे। अदस् असौ, अमू, अमी। द्वि द्वौ। द्वाभ्याम्। द्विपर्यन्तानां त्यदादीनामत्वमिष्यते। इह न भवति, भवत् भवान्। संज्ञोपसर्जनीभूताः त्यदादयः पाठादेव पर्युदस्ताः इति इह न भवति, त्यद्, त्यदौ, त्यदः। अतित्यद्, अतित्यदौ, अतित्यदः। त्यदादिप्रधाने तु शब्दे भवत्येव, परमसः परमतौ, पर्मते।
TBD.
193 एषामकारो विभक्तौ. (द्विपर्य्यन्तानामेवेष्टिः). द्वौ 2. द्वाभ्याम् 3. द्वयोः 2.. पाति लोकमिति पपीः सूर्यः..
263 द्वि-औ इति स्थिते-। त्यदादीनामः। `अष्टन आ विभक्ता'वित्यतो विभक्तावित्यनुवर्तते। एषामिति। त्यदादीनामित्यर्थः। त्यदादिर्येषामिति विग्रहः। `अन्तादेशः' इत्यलोऽन्त्यपरिभाषालभ्यः। विभक्तौ किम् ?। तत्फलम्। `स्वमोर्नपुंसका'दिति लुकि अत्वं न। त्यदादयः पठितास्तेषामिह द्विपर्यन्तानामेव ग्रहणे भाष्यकारस्येच्छत्यर्थः। द्विशब्दस्य द्विवचनेषु परतोऽत्वे कृते रामशब्दवद्रूपाणीत्याह-द्वावित्यादि। द्विपर्यन्तानामिति किमिति। युष्मदस्मदोरात्वयवत्वयलोपैर्बाधात्, किमः कादेशविधानाच्च तेषां त्यदादिष्वन्तर्भावेऽपि न दोष इति प्रश्नः। भवान् भवन्ताविति। भवत्-सिति स्थिते `उगिदचा'मिति नुमि हल्ङ्यादिलोपे संयोगान्तलोपे `अत्वसन्तस्य चे'ति दीर्घे `भवा'निति रूपम्। द्विपर्यन्ताना'मित्यभावे तु भवत्- सिति स्थिते तकारस्य ?त्वे कृते `अतो गुणे' इति पररूपे `उगिदचा मिति नुमि `सर्वनामस्थाने' इति दीर्घे सुलोपे नलोपे `भवा' इति स्यात्। तथा`भवत्-औ' इति स्थिते पूर्ववत्तकारस्याऽत्वे नुमि दीर्घे च `भवाना'विति स्यादिति भावः। अथ यदुक्तं `संज्ञो पसर्जनीभूतानां सर्वादिगणकार्यमन्तर्गणकार्यं च न भवती'ति तत्स्मारयति–संज्ञायामित्यादिना। द्विर्नामेति। `नामे'त्यव्ययं प्रसिद्धौ। `द्वि'रिति प्रसिद्धः कश्चिदित्यर्थः। अत्र च संज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति, एकद्वित्र्यादिष्वपि द्विसंज्ञकत्वसंभवादित्यभिप्रेत्य आह- -द्विः द्वी द्वय इति। अतिद्विरिति। `अत्यादयः' इति समासः। परमद्वाविति। कर्मधारयोऽयम्। संज्ञोपसर्जनत्वाभावादिहाऽत्वं भवत्येव। आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भावः। उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा। तस्यापत्यमौडुलोभिः। `बाह्वादिभ्यश्चे'ति इञ्। `नस्तद्धिते' इति टिलोपः। आदिवृद्धि अस्य एकवचनद्विवचनयोः सर्वत्र हरिवद्रूपम्। तदाह औडुलोमिरौड्डलोमी इति। बहुवचने तूडुलोमा इति। प्रसङ्गादित्यत आह–लोम्नोऽपत्येषु। लोमन्शब्दाद्बहुष्वपत्येषु विवक्षितेष्वकारः प्रत्ययो वक्तव्य इत्यर्थः। बाह्वादीञ इति। बाह्वादिगणाद्विहितस्य इञोऽपवाद इत्यर्थः। `उडुलोमन्-अ' इति स्थिते `नस्तद्धिते' इति टिलोपः। ञ्णित्त्वाऽभावात्कित्त्वाऽभावाच्च नादिवृद्धिः। `उडुलोम'शब्दोऽकारान्तः। तस्य सर्वत्र बहुवचनेषु रामवद्रूपमिति भावः। इति इदन्तप्रकरणम्। अथेदानीमीकारान्ता निरूप्यन्ते। तत्र वातप्रमीशब्दो द्विधा। `माङ्भाने'इति धातोरीप्रत्ययान्तः क्विबन्तश्च। तत्र प्रथमं व्युत्पादयति–वातप्रमीरित्यादिना। `कि'दित्यनन्तरं `निपात्यते' इति शेषः। वातमिति वातमित्युपपदे कर्तरि माङ्धातोरीप्रत्यये कित्त्वात् `आतो लोप इटि चे'त्यल्लोपे `उपपदमतिङि'ति समासे तस्मात्सुबुत्पत्तौ `वातप्रमी'रिति प्रथमैकवचनम्। अङ्यन्तत्वान्न सुलोपः। एतदर्थमेव हल्ङ्यादिसूत्रे सत्यपि दीर्घग्रहणे ङीब्ग्रहणमिति भावः। दीर्घादिति। वातप्रमी-औ इति स्थिते `दीर्घाज्जसि चे'ति पूर्वसवर्णदीर्घे निषिद्धे `इको यणची'ति यणि वातप्रम्याविति रूपमित्यर्थः। हे वातप्रमीरिति। दीर्घान्तत्वात्। `ह्यस्वस्य गुणः' इति न। अमीति। वातप्रमी–अम् इति स्थिते `अमि पूर्वः' इति पूर्वरूपे `वातप्रमी'मिति रूपमित्यर्थः। `एरनेकाचः' इति यण्तु न, ईप्रत्ययान्तस्य धातुत्वाऽभावात्। वातप्रमीनिति। पूर्वसवर्णदीर्घे `तस्माच्छसः' इति नत्वम्। वातप्रम्येति। अघित्वात् `आङो नाऽस्त्रिया' मिति नाभावस्याऽभावे यण्। वातप्रम्ये इति अघित्वान्हेङसिङस्सु `घेर्ङिती'ति गुणो न। वातप्रम्यामिति। आमि यणादेशे रूपम्। दीर्घत्वान्न नुट्, `ह्यस्वनद्यापः' इति ह्यस्वग्रहणादिति भावः। ङौ त्विति। `वातप्रमी–इ' इति स्थिते परत्वाद्यणादेशं बाधित्वा सवर्णदीर्घे `वातप्रमी'ति रूपम्। अघित्वादिदुदन्तत्वाऽभावाच्च `अच्च घे'रिति, `औ'दिति च न भवति। वस्तुतस्तु `ईदूतौ च सप्तम्यर्थे' इति सूत्रे `सप्तम्यन्तमीदूदन्तं लोके नास्ति। अतः `सोमो गौरी अधिश्रितः' `मामकी तनू' इति वेद एव तदुदाहरण'मिति भाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेत्यनुमीयत इति शब्देन्दुशेखरे स्पष्टम्।
ईप्रत्ययः स्यात्, सच कित्। प्रकृतिभूतयोस्तयोर्द्वित्वं चेत्यर्थः। कित्त्वादातो लोप इटि चेत्याल्लोपः। अभ्यासह्यस्वः। क्विबन्तवातेति। `माङ् माने' इत्यस्मात्कर्तरि क्विपि `घुमास्थे'तीत्त्वे `वातप्रमी'शब्द इति केचित्। तन्न, `ईत्त्वमवकारादौ' इति वार्तिकविरोधात्। `मीञ् हिंसाया'मिति मीधातोः क्विपि तु `वातप्रमी'शब्दो निर्बाधः। वक्ष्यमाणो यणिति। अमिपूर्वरूपं, शसि पूर्वसवर्णदीर्घः, ङौ सवर्णदीर्घं च बाधित्वा परत्वात् `एरनेकाचः' इति यण्, ईकारान्तधातुत्वादिति भावः। प्रधीवदिति। प्रकृष्टं ध्यायतीति प्रधीः। `ध्यायतेः संप्रसारणं चे'ति क्विपि यकारस्य संप्रसारणमिकारः। `संप्रसारणाच्चे'ति पूर्वरूपम्। `हलः' इति दीर्घः। अस्य च ईकारान्तधातुत्वादमि ङसि ङौ च `एरनेकाचः' इति यणादेशः। बह्वय इति। `बह्वादिभ्यश्चे'ति ङीष्। श्रेयस्य इति। अतिप्रशस्ता इत्यर्थः। `द्विवचनविभज्योपपदे' इति ईयसुन्। `प्रशस्यस्य श्रः' इति श्रः। `उगितश्चे'ति ङीप्। बहुश्रेयसीति। `स्त्रियाः पुंव'दिति पुंवत्त्वम्। `गोस्त्रियोरि'ति ह्यस्ववस्तु न, `ईयसोबह#उव्रीहेर्नेति वाच्य'मिति तन्निषेधात्। बहुश्रेयसी-सिति स्थिते प्रक्रियां दर्शयति–दीर्घङ्यन्तत्वादिति। ननु श्रेयसीशब्द एव ङ्यन्तः, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। नच `स्त्रीप्रत्यये न तदादिनियमः' इति निषेधान्नेह तदादिनियम इति वाच्यम्, अनुपसर्जन एव स्त्रीप्रत्यये हि न तदादिनियम इति प्रतिषेधः। इह तूपसर्जनन्वात्तदादिनियमोऽस्त्येवेति चेत्, अस्तु श्रेयसीशब्दस्यैव ङ्यन्तत्वम्, नतु बहुश्रेयसीशब्दस्य। तथापि हल्ङ्यादिलोपोऽत्र निर्बाधः। सोङ्र्यन्तात् श्रेयसीशब्दात्परत्वस्याऽनपायात्। नहि`हल्ङ्याब्भ्य' इति विहितविशेषणं, प्रमाणाऽभावात्। या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात्। नहि`हल्ङ्याब्भ्य'इति विहितविशेषणं, प्रमाणाऽभावात्। या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात्, यत्त्त्किमिति हलन्तेभ्यः सुबुत्पत्तौ त्यदाद्यत्वे सत्येव टापः प्रवृत्तेः। नच तत्र हलन्ताद्विहितत्वेन निर्वाहः शङ्क्यः, यः सः क इत्यादावतिव्याप्तेः, कर्ता सखेत्यादावव्याप्तेश्चेत्यास्तां तावत्। `दीर्घाज्झसि चे'ति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्यौ। बह#उश्रेयस्यः।
225 त्यदादिनामः। `अष्टन आ विभक्तौ'इत्यतोऽनुवर्तनादाह-विभक्ताविति किम्?। तद्।यद्। सोर्लुका लुप्तत्वात्प्रत्ययलक्षणं न। युष्मदस्मच्छब्दयोरिष्ट\उfffदाभावेऽपि दोषो नास्ति, आत्वयत्वलोपैर्विशेषविहितैरत्वस्य बाधनात्। तथा किंशब्देऽपि न दोषः, किमः कादेशस्य विशिष्टस्य विधानादिति प्रश्नः। भवानिति। भवत्-सु इति स्थिते तकारस्थाने अत्वे कृते `अतो गुणे' इति पररूपे `उगिदचाम्—-'इति नुमि सति `सर्वनामस्थाने'इत्यनेन दीर्घे सुलोपे नलोपे च सति `भवा'इति रूपं स्यादिति भावः। भवन्ताविति। पूर्ववत्तकारस्याऽत्वे पररूपे नुमि दीर्घे `भवाना'विति रूपं स्यादिति भावः। उडूनीव लोमानि यस्य तस्यापत्यमौडुलोमिः।\र्\निञोऽपवाद इति। तथा च बहुत्वे अकारान्तोऽयमुडुलोमशब्दः, स औडुलोमिशब्दादन्य एव, तस्य च इकारान्तेषु व्युत्पादनं प्रासङ्गिकमिति बोध्यम्। इति इदन्ताः। किदिति। तेन `आतो लोप इटि चे' त्यालोप इति भावः। क्विबन्तवातप्रमीति। माङ्धातोः क्किपि `ईत्त्वमवकारादौ'इति निषेधादीत्त्वं नेति शङ्क्यायां मीनातेरेव क्किब्बोध्यः। यद्वा ईप्रत्ययान्तवातप्रमीशब्दादाचारक्किबन्तात्कर्तरि क्किबोध्यः। श्रेयस्य इति। `प्रशस्यश्रः'इतीयसुनि श्रादेशः। `उगितश्चे'ङीप्। बहुश्रेयसीति। `स्त्रियाः पुंवत्–'इति पुंवद्भावः। `ईयसश्चे'ति न कप्। नाऽप्युसर्जनह्यस्वः, `ईयसो बहुव्रीहिर्ने'ति निषेधात्।
73) त्यदादीनाम: 7-2-102
वृत्ति: त्यदित्येवमादीनामकारादेशो भवति विभक्तौ परत: । द्विपर्यन्तानामेवेष्टि: । The ending letter (see 1-1-52) of the pronouns, starting with “त्यद्” and ending with “द्वि”, is replaced by “अ” when followed by a विभक्ति: affix.
गीताध्याने उदाहरणम् – अन्तिमश्लोक:
तद् + ङे = त अ + ङे using 1-4-104 and the present rule. At this stage 6-1-101 अक: सवर्णे दीर्घ: would apply. But the next rule stops that.