शेषः (1/1), घि (1/1), असखि (1/1)|
हिन्दी – [शेष:] शेष की [घि] घि संज्ञा होती है [असखि] सखि शब्द को छोडकर। प्रश्न होता है शेष किन को कहा जाय? सो कहते हैं कि जो ह्रस्व इकारान्त उकारान्त शब्द स्त्रीलिङ्ग के वाचक नहीं है (स्त्री की आख्यावालों की तो नदी संज्ञा ’ङिति ह्रस्वश्च’ ने कह ही दी थी), तथा जो स्त्री के आख्यावाले होते हुये भी नदीसंज्ञक नहीं है, वे शेष है॥
ह्रस्वः इति वर्तते। शेषोऽत्र घिसंज्ञो भवति, सखिशब्दम् वर्जयित्वा। कश्च शेषः? ह्रस्वम् इवर्णौवर्णान्तं यन् न स्त्र्याख्यम्, स्त्र्याख्यं च यन् न नदीसंज्ञकं, स शेषः। अग्नये। वायवे। कृतये। धेनवे। असखि इति किम्? सख्या। सख्ये। सख्युः। सख्यौ। घिप्रदेशाः- द्वन्द्वे घि 2-2-32 इत्येवम् आदयः।
The rest of the words that end in short इ and उ are called घि with the exception of the word सखि. The word ह्रस्व is understood in this सूत्रा. The word शेषः or 'the rest' implies 'the words ending in short इ and उ which are not names of females, or if they are feminine names, they are not नदी words'.
170 शेष इति स्पष्टार्थम्. ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्..
241 तृतीयैकवचने हरि आ इति स्थिते घिकार्यं वक्ष्यन्घिसंज्ञामाह–शेषो। `यू स्त्र्याख्यौ' इत्यतो `यू' इत्यनुवर्तते। इश्च उश्च यू=इवर्णश्च उवर्णश्च। `ङिति ह्यस्वश्चे'त्यतो `ह्यस्व' इत्यनुवर्तते। तच्च यूभ्यां प्रत्येकमन्वेति। उक्तान्नदीसंज्ञकादन्यः शेषः। स च यूभ्यां प्रत्येकमन्वेति। `शब्दस्वरूप'मित्यध्याहार्यं यूभ्यां विशेष्यते। तदन्तविधिः। तदाह– अनदीसंज्ञावित्यादिना। शेषः किमिति। अनदीसंज्ञकत्वविशेषणं किमर्थमिति प्रश्नः।
स्यात्। ततश्च आण्नद्याः' इत्याडागमे वृद्धौ `घेर्ङिती'ति गुणेऽयादेशे `\त्मतयै' इति स्यादिति भावः। शेषग्रहणाऽभावे।ञपि `मत्यै' इत्यत्र घिसंज्ञा न भवति, `आकडारादेका संज्ञे'त्यनवकाशया नदीसंज्ञया बाधादित्यत आह–एकसंज्ञेति। वातप्रम्ये इति। ह्यस्वग्रहणाऽभावे वातप्रमी-ए इति स्थिते ईकारान्तस्यापि घिसंज्ञा स्यात्। ततश्च `घेर्ङिती'ति गुणेऽयादेशे च `वातप्रमये' इति स्यात्। अतो ह्यस्वग्रहणमिति भावः। मात्रे इति। `यू' इत्यस्याऽभावे मातृ-ए इति स्थिते ऋकारान्तस्यापि घिसंज्ञायां `घेर्ङिती'ति गुणे अकारे रपरत्वे `मातरे' इति स्यात्। अत इदुताविति भावः। वस्तुतस्तु इदुताविति व्यर्थमेव, `मात्रे' इत्यत्र ऋकारान्तस्यापि घित्वे तु `घेर्ङिती'त्येव गुणसिद्धौ किं तेन ?।
203 सूत्रे शेषपदस्य प्रयोजनमाह–अनदी–संज्ञाविति। `यूस्त्र्याख्यौ' इत्यतः `यू' इति, `ङिति ह्यस्वश्चे'त्यतो `ह्यस्व' इति चानुवर्तते, तदाह-ह्यस्वौ यावित्यादि। मत्यै इति। नदीसंज्ञापक्षेऽपि घिसंज्ञायां सत्याम् `आण्नद्या' इत्याडागमे `घेर्ङिती'ति गुणे कृतेऽयादेशे च `मतयै' इति स्यादिति भावः।
81) शेषो घ्यसखि 1-4-7
वृत्ति: अनदीसंज्ञौ ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम् । When a short “इ” ending or short “उ” ending term – except for “सखि” – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।
गीतासु उदाहरणम् – श्लोकः bg9-10
हेतु + टा The प्रातिपदिकम् “हेतु” has the घिसंज्ञा which allows the next rule to operate