Table of Contents

<<8-2-1 —- 8-2-3>>

8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति

प्रथमावृत्तिः

TBD.

काशिका

नलोपः पूर्वत्र असिद्धो भवति सुब्विधौ, स्वरविधौ, सज्ञाविधौ, तुग्विधौ च कृति। विधिशब्दो ऽयं प्रत्येकम् अभिसम्बध्यमानः स्वरसंज्ञातुकां विधेयत्वात् तैः कर्मषष्ठीयुक्तैः भावसाधनो ऽभिसम्बध्यते। सुपा तु सम्बन्धसामान्यवचनषष्ठ्यन्तेन कर्मसाधनः। तेन सुपः स्थाने यो विधिः, सुपि च परभूते, सर्वो ऽसौ सुब्विधिः इति सर्वत्रासिद्धत्वं भवति। सुब्विधौ तावत् राजभिः, तक्षभिः इत्यत्र नलोपस्य असिद्धत्वाततो भिस ऐस् 7-1-9 इति न भवति। राजभ्याम्, तक्षभ्याम्, राजसु, तक्षसु इति सुपि च 7-3-102) इति, बहुवचने झल्येत् (*7,3.103 इति दीर्घत्वमेत्वं च न भवति। स्वरविधौ राजवती इत्यत्र नलोपस्य असिद्धत्वातन्तो ऽवत्याः 6-1-220 इति न भवति। पञ्चार्मम्, दशार्मम्, इत्यत्र नलोपस्य असिद्धत्वातर्मे चावर्णं द्व्यच् त्र्यच् 6-2-90 इति पूर्वपदस्य आद्युदात्तत्वं न भवति। पञ्चदण्डी इत्यत्र नलोपस्य असिद्धत्वादिगन्ते द्विगौ इति पूर्वपदप्रकृतिस्वरो न भवति। संज्ञाविधौ पञ्च ब्राह्मण्यः, दश ब्राह्मण्यः इति नलोपस्य असिद्धत्वात् ष्णान्ता षट् 1-1-24) इति षट्संज्ञा भवति, ततश्च न षट्स्वस्रादिभ्यः (*4,1.10 इति टापः प्रतिषेधो भवति। तदेतत् प्रयोजनं कथं भवति? यदि प्रतिकार्यं संज्ञाप्रवृत्तिः इत्येतद् दर्शनम्। या हि जश्शसोर्लुगर्था षट्संज्ञा प्रवृत्ता, तया स्त्रीप्रत्ययप्रतिषेधो न क्रियते इति सा पुनः प्रवर्तयितव्या इति। तुग्विधौ वृत्रहभ्याम्, वृत्रहभिः इति नलोपस्य असिद्धत्वात् ह्रस्वस्य पिति कृति तुक् 6-1-71 इति तुग् न भवति। अत्र केचित् सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति तुकं प्रति नलोपस्य अनिमित्तत्वात्, बहिरङ्गलक्षणेन वा असिद्धत्वात्, तुग्विधिग्रहणम् अनर्थकम् इति प्रतिपन्नाः। तत् तु क्रियते परिभाषद्वयस्य अनित्यत्वं ज्ञापयितुम्। कृति इति किम्? वृत्रहच्छत्रम्, वृत्रहच्छाया, छे च 6-1-73 इति तुग् भवति। अत्र सिद्धे सत्यारम्भो नियमार्थः, एतेष्वेव नलोपो असिद्धो भवति, न अन्यत्र। तेन राजीयति, राजायते, राजाश्वः इति ईत्वम्, दीर्घत्वम्, एकदेशश्च सिद्धो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

284 सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपोऽसिद्धो नान्यत्र - राजाश्व इत्यादौ. इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न. राजभ्याम्. राजभिः. राज्ञि, राजनि. राजसु.. यज्वा. यज्वानौ. यज्वानः..

बालमनोरमा

नच नलोपस्याऽसिद्धत्वादिह दीर्घ ऐस् एत्त्वं च नेति वाच्यं, नलोपविषये `पूर्वत्राऽसिद्ध'मित्यस्य प्रवृत्तौ राजा\उfffदाओ दण्ड\उfffद्श्च इत्यादावपि नलोपस्याऽसिद्धत्वात्सवर्णदीर्घ यणाद्यनापत्तेरित्यत आह–नलोपः सुप्। नस्य लोपो नलोपः। विधिशब्दो भावसाधनः, विधानं विधिः। सुप्च स्वरश्च संज्ञा च तुक्च तेषां विधय इति सम्बन्धसामान्यषष्ठ\उfffदा समासः। `कृती'ति तु तुकैव सम्बध्यते, अन्यत्राऽसम्भवात्तदाह–सुब्विधावित्यादिना। सुपो विधिः सुब्विधिः। सम्बन्धसामान्यं विवक्षितम्। सुबाश्रयविधाविति यावत्। स्वरस्य विधिः। कर्मणः शेषत्वविवक्षया षष्ठी। स्वरे विधेये इति यावत्। एवं संज्ञाविधावित्यपि कर्मणः शेषत्वविवक्षया षष्ठी। संज्ञायां विधेयायामिति यावत्। कृति परतो यस्तुक् तस्य विधिः कृतितुग्विधिः। इहापि कर्मणः शेषत्वविवक्षया षष्ठी। कृति परे यस्तुक्। तस्मिन् विधेये इति यावत्। `पूर्वत्रासिद्ध'मित्येव सिद्धेऽन्यनिवृत्तिफलकनियमार्थमेतदित्याह–नान्यत्रेति। `अन्यत्रे'त्येतदुदाह्मत्य दर्शयति-राजा\उfffदा इत्यादाविति। आदिना दण्डय\उfffदा इत्यादिसङ्ग्रहः। अत्र सवर्णदीर्घयणादिविधीनां सुब्विध्यटाद्यनन्तर्भावात्तेषु कर्तव्येषु नलोपस्याऽसिद्धत्वाऽभावे सति नकारलोपस्य सत्त्वात्सवर्णदीर्घादिकं निर्बाधमिति भावः। प्रकृते-राजाभ्यां राजभ्य इत्यत्र दीर्घादिन भवत्येवेत्याह– इत्यसिद्धत्वादिति। सुपि परतो दीर्घविधिः, भिसः ऐस्विधिः, भ्यसि एत्त्वविधिश्च सुबाश्रयविधय इति तेषु कर्तव्येषु परिसङ्ख्याविधिलभ्याऽसिद्धत्वनिषेधाऽभावे सति `पूर्वत्रासिद्ध'मिति नलोपस्याऽसिद्धत्वान्नदीर्घादिकमित्यर्थः। वस्तुतस्त्वन्यनिवृत्तिफलकसिद्धविषयकविधित्वमेव नियमविधित्वम्। अत एव `पञ्च पञ्चनखा भक्ष्याः' इत्यत्र पञ्चानां पञ्चनखप्राणिनां भक्षणनियमे तदितरेषां पञ्चनखानां भक्षणप्रतिषेधो गम्यते इति पस्पशाह्निकभाष्ये प्रपञ्चितम्। तदाह- इत्यसिद्धत्वादिति। ननु दण्डिष्वित्यत्र नलोपे कृत इणः परत्वात्सस्य षत्वमिति स्थितिः। तत्र षत्वविधेः सुबाश्रयविधित्वात्तत्र कर्तव्ये नलोपस्याऽसिद्धत्वात्कथं षत्वमिति चेत्, मैवं–न हि षत्वविधि सुब्विधिः। सुप्त्वं तद्व्याप्यधर्मं वा पुरस्कृत्य प्रवर्तमानो विधिर्हि सुब्विधिरिह विवक्षितः। नच षत्वविधिस्तथा। अतस्तत्र नलोपस्य सिद्धत्वमस्त्येवेति षत्वं निर्बाधम्। अस्तु वा षत्वविधिरपि सुब्बिधिस्तथापि तस्मिन् कर्तव्ये नलोपस्याऽसिद्धत्वं न भवत्येव। तदसिद्धत्वंहि किं `पूर्वत्रासिद्ध'मित्यनेनापाद्यते, उत `नलोपः सुप्स्वरे'त्यनेनैव ?। न तावदाद्यः, नलोपविधेः षत्वविध्यपेक्षया पूर्वत्वेन तस्य षत्वे कर्तव्येऽसिद्धत्वाऽसंभवात्। न द्वितीयः, `नलोपः सुप्स्वरे'त्यनेन हि `राजभ्या'मित्यादौ नलोपस्याऽसिद्धत्वमपूर्वं न विधीयते, किंतु `पूर्वत्रासिद्ध'मित्यनेन प्राप्तमेव नियमार्थं पुनर्विधीयते `राजा\उfffदा' इत्यादौ सुप्स्वरसंज्ञातुग्बिधिभिन्नसवर्णदीर्घादिविधिसिद्धये। दण्डिष्वित्यत्र तु नलोपस्याऽसिद्धत्वं `पूर्वत्रासिद्ध'मित्यनेन प्राप्तं न भवतीति तस्य `नलोपः सुप्स्वरे'ति सूत्रविषयत्वं न सम्भवति। अन्यथा सुब्विधावित्यनेन दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपाऽसिद्धत्वमपूर्वं विधीयेत। राजभ्या'मित्यादौ तु दीर्घादौ कर्तव्ये सिद्धमेव नियमार्थं विधीयत इति विधिवैरूप्यमापद्येत, तस्माद्दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावान्नलोपस्य सत्त्वादिणः परत्वाऽनपायात्षत्वं निर्बाधमिति शब्देन्दुशेखरे प्रपञ्चितम्। प्रकृतमनुसरामः। स्वरविधौ यथा-पञ्चार्मम्। अत्र नलोपस्याऽसिद्धत्वादकारान्तत्वाऽभावात् `अर्मेचावर्णं द्व्यच्ञ्य'जिति पूर्वपदाद्युदात्तत्वं न भवति। संज्ञाविधौ यथा-दण्डिदत्तौ दत्तदण्डिनौ। अत्र `द्वन्द्वे धी'ति पूर्वनिपातनियमो न भवति, घिसंज्ञाविधौ नलोपस्याऽसिद्धत्वेन इदन्तत्वविरहात्। कृतितुग्विधौ यथा-वृत्रहभ्याम् वृत्रहभिः। अत्र `ब्राहृभ्रूणवृत्रेषु क्वि'बिति विहितं क्विपमाश्रित्य `ह्यस्वस्य पिति कृति तुगि'ति न तुक्, नलोपस्याऽसिद्धत्वेन ह्यस्वस्य नकारव्यवहितत्वात्। कृतीति विशेषणाच्छे चे'ति तुग्विधौ नलोपस्य नाऽसिद्धत्वम्। ततश्च वृत्रहच्छत्रम्। इह स्यादेव `छे चे'ति तुक्। भाष्ये तु वृत्रहभ्यामित्यादौ नलोपस्य सत्त्वेऽपि संनिपातपरिभाषया `ह्यस्वस्य पिती'ति तुक् न भविष्यतीति तुग्विधिग्रहणं प्रत्याख्यातम्। `स्वादिषु' इति पदत्वद्वारा भ्याम्?संनिपातमिमित्तको नलोपस्तद्विघातकं न प्रवर्तयतीत्याशयः। तुग्व्यावृत्त्यर्थं तुग्विधिग्रहणमावश्यकं, तत्र नलोपस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य प्रवृत्तं पदत्वमादाय प्रवृत्तस्य नलोपस्य संनिपातनिमित्तकत्वाऽभावादिति चेन्न, तुग्विधिग्रहणप्रत्याख्यानपरभाष्यप्रामाण्येनतादृशसंनिपाताऽनिमित्तकनलोपविषयाणां `वृत्रहझन'मित्यादीनामनिधानकल्पनादित्यास्तां तावत्। राज्ञि-राजनीति। `विभाषा ङिश्योः' इत्यल्लोपविकल्प इति भावः। प्रतिदिवेति। `दिवु क्रीडादौ'। तस्मात् `कनिन्युवृषितक्षी'त्युणादिसूत्रेण कनिन्प्रत्ययः। कनावितौ। इकार उच्चारणार्थः। प्रतिदिवन्शब्दात्सुबुत्पत्तिः। `सर्वनामस्थाने चे'ति दीर्घः। हल्ङ्यादिना सुलोपे `प्रतिदिवा' इति रूपम्। सुटि राजवत्। अस्येति। प्रतिदवन्शब्दस्य शसादावचि अल्लोपोऽन इत्यल्लोपे सतीत्यर्थः।

तत्त्वबोधिनी

313 नलोपः सुप्स्वर। `पूर्वत्रासिद्ध'मित्यनेनैव नियमार्थोऽयमारम्भ इत्याह– नान्यत्रेत्यादि। तेन `राजा\उfffदा'इत्यादौ सवर्णदीर्घो कर्तव्ये नलोपोऽसिद्धो न भवतीति भावः। सुब्विधिमिदाहरति–आत्वमित्यादिना। सुबाश्रितो विधिः–सुब्विधिः। स्वरविधौ तु `पञ्चार्मम्'। `दिक्सङ्खये संज्ञाया'मिति समासे नलोपे कृते अवर्णान्तं पूर्वपदं जातमिति `अर्मे चाऽवर्णं द्द्यच्त्र्य'जिति पूर्वपदाद्युदात्तत्वं प्राप्तंनलोपस्यादिद्धत्वान्न भवति।थ संज्ञाविधौ `पञ्चेत्यत्र नलोपे कृतेऽपी'त्यादिना स्त्रीप्रत्ययेषु वक्ष्यति। अन्येतु– `दण्डिगुप्तौ'`गुप्दण्डिना'वित्यप्युदाहरन्ति। अत्र नलोपस्याऽसिद्धत्वाद्धिसंज्ञा नास्तीति `द्वन्द्वे घी'ति पूर्वनिपातनियमो न भवतीत्याहुः। कृति तुग्विधाविति किम्? वृत्रहच्छत्रम्। इह स्यादेव `छे चे'ति तुक्। यद्यपि `वृत्रहभ्या'मित्यत्र `असिद्धं बहिरङ्गमन्तरङ्गे'इत्यनेनैव नलोपस्याऽसिद्धत्वं सिध्यति, तथाप्यस्याः परिभाषाया अनित्यत्वज्ञापनार्थं कृति तुग्ग्रहणं, तेन`या'`से'त्यादि सिध्यति। अन्यथा विभक्त्यश्रयस्याऽत्वस्य बहिरङ्गत्वेनाऽसिद्धत्वाट्टाब्न स्यात्। एतच्च `नजानन्तर्ये बहिष्ट्वप्रक्लृप्ति'रित्यत्र `यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्य'मिति हरदत्तादिमतेन कैश्चिदुक्तम्। `उत्तरकार्ये अच आनन्तर्य'मिति कैयटमते तु नाऽत्र बहिरङ्गपरिभाषा प्रवर्तते। `या'`से'त्यत्र टाप्तु संनिपातपरिभाशषामपि बाधित्वा `न यासयो 'रिति निर्देशादेव सिध्यतीति ज्ञेयम्। प्रतिदिवेति। `कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः'इति कनिन्।

Satishji's सूत्र-सूचिः

193) नलोपः सुप्स्वरसञ्ज्ञातुग्विधिषु कृति 8-2-2

वृत्ति: सुँब्विधौ स्वरविधौ सञ्ज्ञाविधौ कृति तुँग्विधौ च नलोपोऽसिद्धो नान्यत्र। The लोपः of नकारः (done by 8-2-7) is not visible to prior rules that are in following categories:
1. सुँब्विधौ – rules relating to सुँप् affixes
2. स्वरविधौ – rules relating to accents (in the वेद:)
3. सञ्ज्ञाविधौ – rules that give names or designations
4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।
This rule limits the application of 8-2-1. As per 8-2-1, the लोपः of नकारः (done by 8-2-7) would not be visible to any prior rule. Now as per 8-2-2, the लोपः of नकारः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned above – others will see the लोपः of नकारः|

उदाहरणम् – राजन् + भ्याम् = राज + भ्याम् 1-4-17, 8-2-7 = राजभ्याम्। Since this is a सुँप्-विधि:, the लोपः of नकारः remains असिद्ध: by 8-2-1. (8-2-2 cannot make it सिद्ध:।) Hence 7-3-102 cannot do the दीर्घादेशः of the ending अकारः of the अङ्गम्।