Table of Contents

<<6-1-157 —- 6-1-159>>

6-1-158 अनुदात्तं पदम् एकवर्जम्

प्रथमावृत्तिः

TBD.

काशिका

परिभाषा इयम् स्वरविधिविषया। यत्र अन्यः स्वरः उदात्तः स्वरितो वा विधीयते, तत्र अनुदात्तं पदम् एकं वर्जयित्वा भवति इत्येतदुपस्थितं द्रष्टव्यम्। अनुदात्ताच्कम् अनुदात्तम्। कः पुनरेको वर्ज्यते? यस्य असौ स्वरो विधीयते। वक्ष्यति धातोः 6-1-162 अन्तः उदात्तो भवति। गोपायति। धूपायति। धातोरन्त्यम् अचं वर्जयित्वा परिशिष्टम् अनुदात्तं भवति। धातुस्वरं श्नाश्वरो बाधते। लुनाति। पुनाति। श्नाश्वरं तस्स्वरः। लुनीतः। पुनीतः। तस्स्वरमांस्वरः। लुनीतस्तराम्। पुनीतस्तराम्। आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च। पृथक्ष्वरनिवृत्त्यर्थम् एकवर्जं पदस्वरः। आगमस्य चितुरनुडुहोरामुदात्तः 7-1-98। चत्वारः। अनड्वाहः। आगमस्वरः प्रकृतिस्वरं बाधते। विकारस्य अस्थनि, दधनि इत्यनङ्स्वरः प्रकृतिस्वरं बाधते। प्रकृतेः गोपायति। धूपायति। प्रकृतिस्वरः प्रत्ययस्वरं बाधते। प्रत्ययस्य कर्तव्यम्। हर्तव्यम्। प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः। परनित्यान्तरङ्गापवादैः स्वरैर् व्यावस्था सतिशिष्टेन च। यो हि यस्मिन् सति शिष्यते स तस्य बाधको भवति। तथा हि गोपायति इत्यत्र धातुस्वरापवादः प्रत्ययस्वरः, तेन एव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद् बाध्यते। कार्ष्णोत्तरासङ्गपुत्रः इत्यत्र च समासस्वरापवादो बहुव्रिहिस्वरः सतिशिष्टेन समासान्तोदात्तत्वेन वाध्यते। विकरणस्वरस् तु सतिशिष्टो ऽपि सार्वधातुकस्वरं न बाधते। लुनीतः इति तस एव स्वरो भवति। विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम्। अतिस्रः इत्यत्र तिसृभ्यो जसः 6-1-166 इति सतिशिष्टो ऽपि विभक्तिस्वरो नञ्स्वरेण बाध्यते। विभक्तिनिमित्तस्वराच् च नञ्स्वरो बलीयानिति वक्तव्यम्। अचत्वारः, अनन्ड्वाहः इति। यस्य विभक्तिर् निमित्तमामः, तस्य यदुदात्तत्वं तनप्रस्वरेण बाद्यते। पदग्रहनं किम्? देवदत्त गामभ्याज शुक्लाम् इति वाक्ये हि प्रतिपदं स्वरःपृथग् भवति। परिमाणार्थं च इदं पदग्रहणम् पदाधिकारस्य निवृत्तिं करोति। तेन प्रागेव पदव्यपदेशात् स्वरविधिसमकालेम् एव शिष्टस्य अनुदात्तत्वं भवति। तथा च कुवल्या विकारः कौवलम् इत्यत्र अनुदात्तादिलक्षणो ऽञ् सिद्धो भवति। तथा गर्भिणीशब्दश्च अनुदात्तादिलक्षणस्य अञो बाधनर्थं भिक्षादिषु पठ्यते। कुवलगर्भशब्दौ आद्युदात्तौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.