Table of Contents

<<6-1-113 —- 6-1-115>>

6-1-114 हशि च

प्रथमावृत्तिः

TBD.

काशिका

हशि च परतः अत उत्तरस्य रोरुकारादेशो भवति। पुरुषो याति। पुरुषो हसति। पुरुषो ददाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

107 तथा. शिवो वन्द्यः..

बालमनोरमा

165 हशि च। `अतो रोरप्लुता'दिति पदत्रयमनुवर्तते। `ऋत उ'दित्यत `उ'दिति च। तदाह- अप्लुतादिति। शिवो वन्द्य इति। शिवस् वन्द्य इति स्थिते सस्य रुः। तस्याऽत्परकत्वाभावात्पूर्वसूत्रेण उत्वं न प्राप्तमिति वचनमिदम्। ननु प्रातरत्र धातर्गच्छत्यत्र रेफस्य अतो रोरिति हशि चेति च उत्वं कुतो न स्यादित्यत आह– रोरित्यनुकारेति। उकारोऽनुबन्ध इद्यस्य स उकारानुबन्धः, तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र उत्वं न भवति। प्रातरिति हि रेफान्तमव्ययम्। न तत्र रेफ उकारानुबन्धवान्। धातृशब्दात् सम्बुद्धिः सुः, `ऋतो ङि सर्वनामस्थानयोः' इति ऋकारस्य गुणोऽकारो रपरः, हल्ङ्यादिना सुलोपः। अत्रापि न रेफ उकारानुबन्धवान्। अत उभयत्रापि रेफस्य उत्वं न भवतीत्यर्थः। \र्\नथ देवा इहेति रूपं दर्शयितुमाह– देवास् इह इति स्थिते रुत्वमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

9) हशि च 6-1-114

वृत्ति: हशि च परतोऽप्लुतादत: परस्य रोरु: स्यात् । When the letter “रुँ” is preceded by a short “अ” letter and is followed by a हश् letter, then it is substituted by the letter “उ”।

गीतासु उदाहरणम् – श्लोकः bg11-2

विस्तरशस् + मया = विस्तरशरु + मया = विस्तरशउ + मया = विस्तरशॊ + मया