Table of Contents

<<8-2-28 —- 8-2-30>>

8-2-29 स्कोः संयोगाऽद्योरन्ते च

प्रथमावृत्तिः

TBD.

काशिका

पदस्य अन्ते यः संयोगः, झलि परतो वा यः संयोगः, तदाद्योः सकारककारयोर् लोपो भवति। लस्जेः लग्नः। लग्नवान्। साधुलक्। मस्जेः मग्नः। ककारस्य तक्षेः तट्। तष्टः। तष्टवान्। काष्ठतत्। झलि सङीति वक्तव्यम्। किम् इदं सिङि इति? सनः सप्रभृति महिङो ङकारेण प्रत्याहारः। इह मा भूत्, कष्ठशक्ष्थाता इति। थकारे झलि ककारस्य संयोगादेर् लोपः प्राप्नोति। तदत्र शकेः क्विबन्तस्य प्रयोग एव न अस्ति इत्याह काष्ठशगेव न अस्ति, कुतो ऽयं काष्ठशकि तिष्ठेतिति। वास्यर्थम्, काक्वर्थम् इत्यत्र अपि बहिरङ्गलक्षणस्य यणादेशस्य असिद्धत्वात् संयोगादिलोपो न भवति। स्कोः इति किम्? नर्नर्ति। वर्वर्ति। संयोगाद्योः इति किम्? पयःशक्। अन्ते च इति किम्? तक्षितः। तक्षकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

311 पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः. भृट्. सस्य श्चुत्वेन सः. झलां जश् झशि इति शस्य जः. भृज्जौ. भृड्भ्याम्.. त्यदाद्यत्वं पररूपत्वं च..

बालमनोरमा

तत्र विशेषमाह–स्कोः संयोगाद्योः। `पदस्ये'त्यधिकृतम्। चकारात् `झलो झली'त्यतो `झली'त्यनुवर्तते। पदस्यान्ते इति झलीति च संयोगेत्यनेन संबध्यते। `संयोगे'ति लुप्तषष्ठीकं पृथक्पदम्। स् च क् च स्कौ, तयोरिति विग्रहः `संयोगान्तस्य लोपः' इत्यतो `लोप' इत्यनुवर्तते। तदाह–पदन्ते इत्यादिना। अत्र काष्ठशक् स्थातेत्यत्र झल्परसंयोगादित्वात्ककारस्य लोपप्राप्तौ तन्निवृत्त्यर्थं वार्तिकं पठितं- झलीत्यपहाय `सङीति वक्तव्य'मिति। सनः सकारमारभ्य आमहिङो ङकारेण प्रत्याहारः। तदिदं वार्तिकं बाष्ये प्रत्याख्यातं-`काष्ठशगेव नास्ति `कुतः काष्ठशक् स्थाते' ति। ककारान्तेब्यो नास्ति क्विप्, अनभिधानादित्याशयः। नच पृथक्?स्थातेत्यत्र ककारस्य लोपनिवृत्तये `सङी'ति वार्तिकमावश्यकमिति वाच्यं, तत्प्रत्याख्यानपरभाष्यप्रमाण्यादेवंजातीयकसंयोगादिलोपप्राप्तियोग्योदाहरणानामप्रयोगावगमादिति शब्देन्दुशेखरे स्पष्टम्। भृट्-भृडिति। भृस्ज् स् इति स्थिते हल्ङ्यादिलोपे `स्को'रिति सकारलोपे जकारस्य व्रश्चादिना षत्वे जश्त्वचर्त्वे इति भावः। यद्यपि जकारस्य संयोगान्तलोपेऽपि सकारस्य `व्रश्चे'ति षत्वे जश्त्वचत्र्वयोर्भृट्-भृड् इति सिध्यति तथापि न्याय्यत्वादिह संयोगादिलोप एव भवति। सस्येति। भृस्ज-औ इत्यादावचि पदान्तझल्परसंयोगादित्वाऽभावान्न संयोगादिलोपः। `झलां जस् झशी'ति जश्त्वस्या।ञसिद्धत्वात्सकारस्य श्चुत्वमिति भावः। तस्येति। शकारस्येत्यर्थः। तालुस्थानकत्वात्शकारस्य जकारः। नच जश्त्वस्यासिद्धत्वात्शकारस्य व्रश्चेति षत्वं शङ्क्यं, षत्वं प्रति श्चुत्वस्याऽसिद्धत्वात्। ब्यामादौ तु `स्वादिषु' इति पदत्वात्संयोगादिलोपः। व्रश्चेति षत्वं, जश्त्वं च। भृड्भ्यमित्यादि। ऋत्विगित्यादिनेति। `ऋ गतौ' औणादिकस्तुः। ऋतुः=गमनं, प्रापति, दक्षिणाद्रव्यलाभो विवक्षितः। तस्मिन्निमित्ते यजन्ति=यज्ञियव्यापारं कुर्वन्तीत्यर्थे ऋतावुपपदे यजधातोः क्विन्। `वचिस्वपी'ति यकारस्य संप्रसारणमिकारः। पूर्वरूपम्। यणादेशश्च। ऋत्विजिति रूपम्। ततः सोर्हल्ङ्यादिलोपः। एतावत्सिद्धवत्कृत्याह– क्विन्नन्तत्वात्कुत्वमिति।`क्विन्प्रत्ययस्येत्यनेने'ति शेषः। एतदर्थमेव क्विन्विधानमिति भावः। नच क्विपि `चोः कुः' इति कुत्वेनैवैतत्सिध्यतीति वाच्यं, चोः कुरिति कुत्वं हि `व्रश्चे'ति षत्वेनाऽपवादत्वाद्बाध्येत। `क्विन्प्रत्ययस्ये'ति कुत्वं तु क्विन्विधिसामथ्र्यादेव न बाध्यते। यष्टेत्यादौ षविधेश्चरितार्थत्वादिति भावः। ऊर्क ऊर्गिति। `ऊर्ज बलप्राणनयोः'चुरादिण्यन्तात् `भ्राजभासे'त्यादिना क्विप्, णिलोपः। ऊर्जिति रूपम्। ततः सोर्हल्ङ्यादिलोपः। `चोः कुः' इति जस्य कुत्वं गकारः। `वाऽवसाने' इति चत्र्वविकल्पः। नच कुत्वे कर्तव्ये णिलोपस्य स्थानिवत्त्वं शङ्क्यं , पदान्तविधौ तन्निषेधात्, पूर्वत्रासिद्धीये न स्थानिव'दिति वचनाच्च। इति जान्ताः। अथ दकारान्ता निरूप्यन्ते। त्यद्?शब्दस्तद्शब्दपर्यायः। तस्य विशेषमाह–त्यदाद्यत्वं पररूपत्वमिति। सर्वत्र विभक्तावुत्पन्नायां `त्यदादीनाम' इति दकारस्यान्त्यस्य अकारः, `अतो गुणे' इति पररूपं चेत्यर्थः। तथश्चाऽदन्तवद्रूपाणीति भावः। त्य स् इति स्थिते।

तत्त्वबोधिनी

340 स्कोः। `पदस्ये'त्यनुवर्तते, `झलो झलि'त्यतो `झली'ति च। `संयोगे'ति लुप्तषष्ठीकं झलन्ताभ्यां विशेष्यते। तदेतदाह–पदान्ते झलि च परे इति। झलि किम्?भ्रष्टा। भृज्जतीति भृट्। क्विप्। `ग्रहिज्ये'ति संप्रसारणम्। `व्र\उfffदो'ति षत्वम्। ऊर्गिति। `ऊर्ज बलप्राणनयोः'। अस्माच्चुरादिण्यन्तात् `भ्रजभासे'त्यादिना क्विपि णिलोपः, स च चोः कुत्वे न स्थानिवत्, पदान्तविधित्वात्, पूर्वत्राऽसिद्धत्वाच्च। इह जान्तेषु–अवयाः। अवयाजौ। अवयाजैति नोदाह्मतं, `मन्त्रे\उfffदोतवहोक्थे'ति पर्कृत्य `अव यजः'इति विहितस्य ण्विनस्तदपवादस्य पदान्ते ङसश्छान्दसत्वेन वैदिकप्रक्रियायामेव वक्तुमुचित्वात्। इति जान्ताः।

Satishji's सूत्र-सूचिः

222) स्कोः संयोगाद्योरन्ते च 8-2-29

वृत्ति: पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात्। The सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.

उदाहरणम् – भृस्ज् + सुँ = भृस्ज् 1-3-2, 6-1-68 = भृज् 1-4-14, 8-2-29 (Note: 8-2-23 is over-ruled by 8-2-29) = भृष् 8-2-36 =  भृड् 8-2-39 = भृट्, भृड् 8-4-56