TBD.
उदात्तयणः स्वरितयणश्च परस्य अनुदात्तस्य स्वरितः आदेशो भवति। उदात्तयणः कुमार्यौ। कुमार्यः। उदात्तनिवृत्तिस्वरेण अयम् ईकारः उदात्तः, तस्य स्थाने यणादेशः स उदात्तयण्, तस्मात् परस्य अनुदात्तस्य स्वरितः आदेशो भवति। स्वरितयणः सकृल्ल्व्याशा। खलप्व्याशा। सकृल्लूः, खलपूः इति कृत्स्वरेण अन्तोदातौ, तयोः रोः सुपि 8-3-16 इति यणादेशः, स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात् स्वरितयणः परस्य आशाशब्दाकारस्य अनुदात्तस्य स्वरितो भवति। ननु च सप्तम्येकवचनस्य यदुदात्तयणः इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत् कथमयं स्वरितयण् भवति? आश्रयात् सिद्धत्वं भविष्यति। यदि एवम्, उदात्तादनुदात्तस्य स्वरितः 8-4-66 इत्येतस्य अपि आश्रयात् सिद्धत्वं प्राप्नोति, ततश्च दध्यशा इत्यत्र अपि स्वरितः स्यात्? तस्मादयम् एव यण्स्वरो यणादेशे सिद्धो वक्तव्यः। केचित् तु ब्रुवते, उदात्तात् स्वरितयणो ऽपि परस्य अनुदात्तस्य स्वरितत्वं दृश्यते। तथा च तैत्तिरीयके शाखान्तरे पठ्यते यास्ते विश्वाः समिधः सन्त्यग्ने इति। अग्ने इत्ययम् अकारः स्वरितः पठ्यते। तथा ब्राह्मणे ऽपि दध्याशयति इत्याकारः स्वरितः पठ्यते इति। यथा तु वार्तिकं भाश्यं च, तथा उदात्तात् स्वरितयणः परस्य अनुदात्तस्य अनेन स्वरितत्वं न भवति इति स्थितम्। तथा च भाष्ये स्वरितयण्ग्रहणम् इदं प्रत्याख्यायते। सकृल्ल्व्याशा इत्येवम् आदौ उदात्तयणः इत्येव स्वरितस्य सिद्धत्वात्। स्वरितयण्व्यवधानम् अव्यवधानम् एव, स्वरिविधौ व्यञ्जनम् अविद्यमानवतिति। तत् तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावात् व्यवधानम् अस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यते इति। उदात्तस्वरितयोः इति किम्? वैदी आशा वैद्याशा। शार्ङ्गरव्याशा। अनुदात्तयणादेशो ऽयम्। अनुदात्तस्य इति किम्? कुमार्यत्र। किशोर्यत्र। अत्र इत्ययम् आद्युदात्तो लित्स्वरेण।
TBD.
–
–
–
TBD.