Table of Contents

<<6-1-72 —- 6-1-74>>

6-1-73 छे च

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वस्य तुकिति वर्तते। छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति। इच्छति। यच्छति। ह्रस्व एव अत्र आगमी, न तु तदन्तः। तेन चिच्छदतुः, चिच्छिदुः इत्यत्र तुकभ्यासस्य ग्रहणेन न गृह्यते इति हलदिःशेषेण न निवर्त्यते, नावयवावयवः समुदायावयवो भवति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

101 ह्रस्वस्य छे तुक्. शिवच्छाया..

बालमनोरमा

तत्त्वबोधिनी

118 छे च। छकारोपरि अकार उच्चारणार्थः, `विदिभिदिच्छिदे'रिति निर्देसात्। तेन `विच्छिन्न'मित्यादि सिद्धम्। ह्यस्वस्येति। एतच्च `ह्यस्वस्य पिति कृती'त्यतोऽनुवर्तते, तुक् च।

Satishji's सूत्र-सूचिः

341) छे च 6-1-73
वृत्तिः ह्रस्‍वस्‍य छे तुक् । A short vowel (ह्रस्वः) gets the तुँक्-आगमः when a छकारः follows in संहितायाम्।

Example continued from above

ग छ् + अ + ति = ग तुँक् छ् + अति 6-1-73, 1-1-46 = ग त् छ ति 1-3-2, 1-3-3 = गच्छति 8-4-40