TBD.
ङ्याप्प्रातिपदिकात् 4-1-1 इत्यधिकृतम्। ङ्याप्प्रातिपदिकात् स्वादयः प्रत्यया भवन्ति। उकारादयो ऽनुबन्धा यथायोगम् उच्चारणविशेषणार्थाः। औटः टकारः सुटिति प्रत्याहारग्रहणार्थः। पकारः सुपिति प्रत्याहारार्थः। सङ्ख्याकर्मादयश्च स्वादीनाम् अर्थाः शास्त्रान्तरेण विहितास् तेन सह अस्य एकवाक्यता। ङ्यन्तात् तावत् कुमारी। गौरी। शार्ङ्गरवी। ङीब्ङीष्ङीनां क्रमेण उदाहरणम्। कुमारी, कुमार्यौ, कुमार्यः। कुमारीम्, कुमार्यौ, कुमारीः। कुमार्या, कुमारीभ्याम्, कुमारीभिः। कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमार्योः, कुमारीणाम्। कुमार्याम्, कुमार्योः, कुमारीषु। एवं गौरी, शार्ङ्गरवी चोदाहार्ये। आपः खल्वपि खट्वा। बहुराजा। कारीषगन्ध्या। टाब्डाप्चापां क्रमेण उदाहरणम्। खट्वा, खट्वे, खट्वाः। खट्वाम्, खट्वे, खट्वाः। खट्वया, खट्वाभ्याम्, खट्वाभिः। खट्वायै, खट्वाभ्याम्, खट्वाभ्यः। खट्वायाः, खट्वाभ्याम्, खट्वाभ्यः। खट्वायाः खट्वयोः, खट्वानाम्। खट्वायाम्, खट्वयोः, खट्वासु। एवं बहुराजाकारीषगन्ध्ये च उदाहार्ये। एवं प्रातिपदिकात् दृषद्, दृषदौ, दृषदः। दृषदम्, दृषदौ, दृषदः। दृषदा, दृषद्भ्याम्, दृषद्भिः। दृसदे, दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषदोः, दृषदाम्। दृषदि, दृषदोः, दृषत्सु।
TBD.
118 सु औ जस् इति प्रथमा. अम् औट् शस् इति द्वितीया. टा भ्याम् भिस् इति तृतीया. ङे भ्याम् भ्यस् इति चतुर्थी. ङसि भ्याम् भ्यस् इति पञ्चमी. ङस् ओस् आम् इति षष्ठी. ङि ओस् सुप् इति सप्तमी..
182 स्वैजसमौट्। सु-औ-जस्, अम्-औट्-शस्, टा-भ्यां-भिस्', ङे-भ्यां-भ्यस्, ङसि- भ्यां-भ्यस्, ङस्-ओस्-आम्, ङि-ओस्-सुप्–इत्येकविंशतिः स्वादयः। समाहाद्वन्द्वः, इतरेतरयोगद्वन्द्वो वा। तथा सति सौत्रमेकवचनम्। ङ्याप्प्रातिपदिकादित्यदिकृतं, `प्रत्ययः', `परश्चे'ति च यथायथं च विपरिणम्यते। तदाह–ङ्यन्तादित्यादिना। सुङस्योरिति। सु-ङसि-इत्यनयोरुकारेकारौ, जस्-शस्-इत्यनयोर्जकारशकारौ, औट्-टा– इत्यनयोष्टकारः, ङे-ङसि-ङस्-ङि-इत्येतेषां ङकारः, `सुप्' इत्यस्य पकार इत्येते इत्संज्ञकाः प्रत्येतव्या इत्यर्थः। `उपदेशेऽजनुनासिक इत्, `चुटू', लशक्वतद्धिते', `हलन्त्यम्' इति सूत्रै'रिति शेषः। इत्संज्ञायां च लोपः। तदुच्चारणफलं तु तत्र तत्र वक्ष्यते।
151 स्वौजसमौट्। समाहारे द्वन्द्वः। सुङस्यौरिति। सोरुकारः `अर्वणस्त्रसा'वित्यत्र विशेषणार्थः। `असी'त्युक्ते हि असकारादाक्?त्यिर्थः स्यात्। तथा च `वाजमर्वत्सु' इति न सिध्येत्। ङसेरिकारः `टाङसिङसां'–`ङसिङयोः स्मात्स्मिनौ' इत्येतदर्थः। जश्शसोर्जकारशकारौ `जसः शी' तस्माच्छसौ नः' इत्यनयोर्विषयविभागार्थौ। [ननु] अन्यतरस्य निरनुबन्धकत्वमेवास्त्विति चेत्[न], जाकाराऽभावे `औ'इत्यस्य आव् स्यात्, ततश्च प्रत्ययस्य वकारान्तता संभाव्येत। एवं शसः शकाराऽभावे औटो ङित्त्वं संभाव्येत, तथाच `तेजसी' इत्यादौ टिलोपः स्यात्। अथवा `लिहा'वित्यादौ ङित्त्वसामथ्र्यादभस्यापि टेर्लोपः संभाव्येत। औटष्टकारः `सु'डिति प्रत्याहारार्थः। टाटकारस्तु `टाङसिङसां'–`द्वितीयाटौस्वेनः' इति विशेषणार्थः। एतेन `आदिरन्त्येने'ति सूत्रे काशिकाकारेण यदुक्तम्-`अन्त्येनेति किम् ?, `सु'डिति तृतीयैकवचनावयवेन मा भूत्'-इति तत्परास्तम्। औटष्टकारस्यान्यार्थतया तेनैव संभवात्, प्रत्यासत्तेश्च। अतेव शब्दकौस्तुभे तत्रान्यदेव प्रयोजनमुक्तम्– `मध्यमेनेता सहित आदिस्तदुत्तरेषामपि ग्राहको मा भूदित्यन्त्येनेति ग्रहणम्। अन्त्येनेता सहितो मध्यमः पूर्वेषामपि मा भूदित्यादिग्रहणम्'-इति। अमुमेवार्थं मनसि निधाय–`आद्यन्ताभ्यामवयवाभ्यामवयवी समुदाय आक्षिप्यते'–इति निष्कृष्टमुक्तं प्राक्। प्रकृतमनुसरामः–ङेप्रभृतीनां ङकारो `घेर्ङिति' `ङेराम्–' इति विशेषणार्थः। सुपः पकारस्तु प्रत्याहारार्थः।
38) (सु-औ-जस्)-(अम्-औट्-शस्)-(टा-भ्याम्-भिस्)-(ङे-भ्याम्-भ्यस्)-(ङसि-भ्याम्-भ्यस्)-(ङस्-ओस्-आम्)-(ङि-ओस्-सुप्) 4-1-2
वृत्ति: ङी-आप्-प्रातिपदिकात् सु-आदय: प्रत्यया: भवन्ति। The (twenty-one) affixes (case-endings) “सुँ” etc are used after a प्रातिपदिकम् and also after a term ending in the (feminine) affix “ङी” or “आप्”|
गीतासु उदाहरणम् – श्लोकः bg1-11
धर्मक्षेत्र + ङि = धर्मक्षेत्र + इ 1-3-8 = धर्मक्षेत्रे 6-1-87