TBD.
अकारान्तादङ्गादुत्तरेषाम् टाङसिङसाम् इन आत् स्य इत्येते आदेशाः भवन्ति यथासङ्ख्यम्। टा इत्येतस्य इनादेशो भवति। वृक्षेण। प्लक्षेण। ङसि इत्येतस्य आत्। वृक्षात्। प्लक्षात्। ङसित्येतस्य स्यादेशो भवति। वृक्षस्य। प्लक्षस्य। अतः इति किम्? सख्या। पत्या। अतिजरसिन, अतिजरसातिति केचिदिच्छन्ति। यथा तु भाष्ये तथा न एतदिष्यते इति लक्ष्यते।
TBD.
140 अदन्ताट्टादीनामिनादयः स्युः. णत्वम्. रामेण..
199 टाङसिङसाम्। `अङ्गस्ये'त्यधिकृतं पञ्चम्या, विपरिणम्यते। `अतो भिस' इत्यस्मात् `अत' इति पञ्चम्यन्तमनुवृत्तमङ्गस्य विशेषणम्। तदन्तविधिः। तदाह– अकारान्तादङ्गादिति। `परेषा'मिति शेषः। `क्रमा'दिति यथासङ्ख्यसूत्रलब्धम्। टादीनामिति। टा-ङसि-ङसामित्यर्थः। इनादय इति। `इन-आत्-स्य' एते इत्यर्थः। राम- इनेति स्थिते आद्गुणः। णत्वमिति। `अटकुप्वा'ङिति नकारस्य णकार इत्यर्थः। राम- भ्याम् इति स्थिते `न विभक्ता'विति मस्य नेत्त्वम्।
167 टाङसि। `अतो भिस ऐ'सित्यस्मादनुवृत्तेन `अत' इत्यनेन सामानाधिकरण्येन विशेषणात् `अङ्गस्ये'त्याधिकृतं षष्ट\उfffद्न्तमपि पञ्चम्या विपरिणम्यते, विशेषणेन तदन्तविधिस्तदाह–अकारान्तादङ्गादिति।
59) टाङसिँङसामिनात्स्या: 7-1-12
वृत्ति: अदन्तात् टादीनामिनादय: स्यु: । Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।
गीतासु उदाहरणम् – श्लोकः bg1-3
द्रुपदपुत्र + टा = द्रुपदपुत्र + इन = द्रुपदपुत्रेन 6-1-87 = द्रुपदपुत्रेण 8-4-2
श्लोकः bg2-62
काम + ङसिँ = काम + आत् = कामात् 6-1-101 = कामाद् 8-2-39 or optionally कामात् 8-4-56
श्लोकः bg1-23
धार्तराष्ट्र + ङस् = धार्तराष्ट्रस्य