Table of Contents

<<8-3-20 —- 8-3-22>>

8-3-21 उञि च पदे

प्रथमावृत्तिः

TBD.

काशिका

अवर्णपूर्वयोः व्योः पदान्तयोर् लोपो भवति उञि च पदे परतः। स उ एकविंशवर्तनिः। स उ एकाग्निः। पदे इति किम्? तन्त्र उतम्, तन्त्रयुतम्। वेञः सम्प्रसारणे कृते उञिति भूतपूर्वेण ञकारेण शक्यते प्रतिपत्तुम् इति। अथ उञित्येवं रूपो निपातः प्रतिपदोक्तो ऽस्ति? तदा लाक्षणिकत्वाद् वेञादेशस्य ग्रहणम् इह न अस्ति, उत्तरार्थं पदग्रहणं क्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

169 उञि च पदे। अपूर्वस्येति, पदस्येति, व्योरिति लोप इति चानुवर्तते। तदाह– अवर्णेति। स उ एकाग्निरिति। `उ' इति निपातः। सस् उ इति स्थिते सस्य रुः, भोभगो इत्यपूर्वत्वाद्यत्वम्। लोपश्शाकल्यस्येति विकल्पनिवृत्त्यर्थमिदम्। वकारोदाहरणं तु `असा उ एकाग्नि'रिति वृत्तिः। पदे किमिति। उञः पदत्वाऽव्यभिचारात्पदे इति तद्विशेषणस्य किं प्रयोजनमिति प्रश्नः। तन्त्रयुतमिति। तन्त्रे-उतमिति विग्रहः। अयादेशः। अत्र यकारस्य लोपनिवृत्त्यर्थं पदग्रहणमिति भावः। नन्वत्र उञ्?परकत्वाऽभावादेव लोपनिवृत्तिसम्भवात्पदग्रहणं व्यर्थमेवेत्यत आह–वेञ, इति। `वेञ् तन्तुसन्ताने' इत्यतः क्तप्रत्यये, `वचिस्वपियजादीनाम्' इति वकारस्य संप्रसारणे उकारे, पूर्वरूपे, उतमिति रूपम्। अत्र उञ्परकत्वे।ञपि तस्य उञः पदत्वाऽभावात्तस्मिन् परे यस्य लोपो न भवतीत्यर्थः। ननु स उ एकाग्निरित्यत्र उञ् प्रतिपदोक्तः, चादौ पठितत्वात्। उतमित्यत्र तु उञ् लाक्षणिकः , संप्रसारणादिविधिनिष्पन्नत्वात्। ततश्च `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहण'मिति परिभाषया चादिपठितस्यैव उञोऽत्र ग्रहणं भविष्यति। नतु उतमित्यत्र उञोऽपि। अतः पदग्रहणं व्यर्थमेवेत्यत आह-यदीति। उत्ररार्थमिति। ङमो ह्यस्वादचीत्यर्थमित्यर्थः। एतच्चात्रैव भाष्ये स्पष्टम्।

तत्त्वबोधिनी

139 उत्तरार्थं पदग्रहणमिति। वस्तुतस्तूत्तरत्रापि नोपयुज्यते, `पदस्ये'त्यनुवृत्त्यैव निर्वाहात्। `उञि च पदे' इत्यतः `पदे' इत्यनुवर्त्त्य `अजादेः पदस्ये'ति व्याख्यानात्। `परमदण्डिनावित्यादौ ङमुण्ने'ति प्राचो व्याख्यानस्य `ङमो ह्स्वादची'ति सूत्रे मनोरमायां निरस्तत्वाच्च। ननु `हलि सर्वेषा'मित्यत्र `पदे'ग्रहणानुवृत्तौ `हलादौ पदे' इति व्याख्यानलाभाद्वृक्षव्भ्यां वृक्षव्भिरित्यत्र वस्य नित्यं लोपो न भवति, किं तु `लोपः शाक्ल्यस्ये'ति वैकल्पिक एव लोपैत्यस्ति `पदे'-ग्रहणस्य प्रयोजनमिति चेन्मैवं; हलि सर्वेषा'मित्यत्र वस्याऽननुवर्तितत्वात्। किंच `माभ्यां' `माभि'रित्यत्र भ्यामादौ परतो यस्य विकल्पेनैव भवन्मते लोपः स्यात्, तत्र `हलि सर्वेषा'मित्यस्याऽप्रवृत्तेः। न चेष्टापत्तिः, भाष्यकारैर्दण्डिनेत्यत्र ङमुङ्वारणाय `ङमो ह्यस्वादची'त्यत्रानुवृत्त्यर्थं पदग्रहणमित्युक्तत्वात्। न च तदेव प्रयोजनमस्त्विति वाच्यं, `ह्यस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमु'डिति व्याख्यानेन `दण्डिने'त्यत्र प्रसक्तयभावात्।

Satishji's सूत्र-सूचिः

TBD.