Table of Contents

<<7-4-57 —- 7-4-59>>

7-4-58 अत्र लोपो ऽभ्यासस्य

प्रथमावृत्तिः

TBD.

काशिका

यदेतत् प्रक्रान्तं सनि मीमा इत्यादि मुचो ऽकर्मकस्य इति यावत्, अत्र अभ्यासलोपो भवति। तथैव उदाहृतम्। अभ्यासस्य इत्येतच् च अछिकृतं वेदितव्यम् आ अध्यायपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामः अभ्यासस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति, ह्रस्वः 7-4-59 डुढौकिषते। तुत्रौकिषते। सनि मीमाधुरभलभशकपतपदामच इस्, अभ्यासलोपश्च, इत्येवम् सिद्धे यदत्रग्रहनम् इह अक्रियते, तद् विषयावधारणार्थम्, अत्रैव अभ्यासलोपो भवति, सन्वद्भावविषये न भवति। अमीमपत्। अदीदपत्। सन्वल्लघुनि चङ्परे ऽनग्लोपे 7-4-93 इति सन्वद्भावात् प्राप्नोति। सर्वस्य अभ्यासस्य अयं लोपः इष्यते, तदर्थम् एव केचितत्रग्रहणं वर्णयन्ति। नानर्थके ऽलो ऽन्त्यविधिः इत्यपरे सर्वस्य कुर्वन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

448 अत्र लोपोऽभ्यासस्य। `सनि मीमे'ति `आप्ज्ञप्यृधामी'दिति `दम्भ इच्चे'ति , `मुचोऽकर्मकस्य गुणो वे'ति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते। तदाह– सनि मीमेत्यारभ्यते। सूत्रचतुष्टकार्ये कृते सतीत्यर्थः। ईप्सतीति। आप् धातोः सनि आकारस्य इत्त्वे `अजादेर्द्वितीयस्ये'ति प्स इत्यस्य द्वित्वेऽभ्यासलोप इति भावः। रपरत्वमिति। ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः। चत्र्वमिति। ईर्ध् स इति स्थिते धस्य चर्त्वे `न न्द्राः' इति रेफं वर्जयित्वा `अजादेर्द्वितीयस्ये'ति, `त्स' इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः। `पूर्वत्राऽसिद्धीयमद्वित्वे' इति वचनाच्चर्त्वे कृते द्वित्वमिति बोध्यम्। इट्पक्षे आह– अर्दिधिषतीति। सनः सादित्वाऽभावादीत्त्वाऽभावे गुणे रपरत्वे अर् ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः। भ्रस्ज्धातोः सन इटि `भ्रस्जो रोपधयो'रिति रमागमाऽभावे आह–बिभ्रज्जिषतीति। सस्य श्चुत्वेन शः, शस्य जश्त्वेन जः। क्ङिदभावात् `ग्रहिज्ये'ति संप्रसारणं न। बिभर्जिषतीति। इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि साकरात्प्राग्रेफागमे भकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज् इस इति स्थिते भर्ज् इत्यस्य द्वित्वं हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम्। तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम्। बिभ्रक्षतीति। इडभावे रमागमाऽभावे च रूपम्। जस्य कुत्वं सस्य षः। बिभक्र्षतीति। इडभावे रमागमे च रूपम्। तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे।

तत्त्वबोधिनी

389 ईप्सतीति। `अजादेर्द्वितीयस्ये'तिप्सशब्दस्य द्वित्वम्। बिभ्रज्जिषतीति। इटि तदभावे च रमागमविकल्पाच्चत्वारि रूपाणि। सुस्वूर्षतीति। `अज्झनगमा'मिति दीर्घे सत्युत्वम्।

Satishji's सूत्र-सूचिः

वृत्तिः “सनि मीमा -” इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात्। The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

Example continued from 7-4-54
दित् + स
= दित् स् दित् स 6-1-9
= दित् स 7-4-58
“दित्स” gets धातु-सञ्ज्ञा by 3-1-32

दित्स + लँट् 3-2-123 = दित्सति 1-3-62, 1-3-78 or दित्सते 1-3-62, 1-3-72

उदाहरणम् – लिप्सते is a desiderative form derived from √लभ् (डुलभँष् प्राप्तौ १. ११३०).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
लभ् + सन् 3-1-7
= लभ् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= लिस् भ् + स 7-4-54
= लिस्भ् स् लिस्भ् स 6-1-9
= लिस्भ् स 7-4-58
= लिभ् स 8-2-29
= लिप्स 8-4-55
“लिप्स” gets धातु-सञ्ज्ञा by 3-1-32

लिप्स + लँट् 3-2-123 = लिप्सते 1-3-62, 1-3-12