Table of Contents

<<7-4-20 —- 7-4-22>>

7-4-21 शीङः सार्वधातुके गुणः

प्रथमावृत्तिः

TBD.

काशिका

शीङः अङ्गस्य सार्वधातुके परतः गुणो भवति। शेते, शयाते, शेरते। सार्वधातुके इति किम्? शिश्ये।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

586 क्क्ङिति चेत्यस्यापवादः. शेते. शयाते..

बालमनोरमा

272 शीङः सार्वधातुके। स्पष्टम्। `सार्वधातुकाद्र्धधातुकयो'रित्येव सिद्धे किमर्थमिदमित्यत आह–क्ङिति चेत्यस्यापवाद इति। झस्य अदादेशे सति शे-अते इति स्थिते–

तत्त्वबोधिनी

238 क्ङिति चेत्यस्येति। अन्यत्र `सार्वधातुकाद्र्धधाततुकयो'रित्यनेन सिद्धमिति भावः।

Satishji's सूत्र-सूचिः

387) शीङः सार्वधातुके गुणः 7-4-21
वृत्तिः शीङोऽङ्गस्य सार्वधातुके परतो गुणो भवति। The verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows.
Note: This सूत्रम् is an अपवाद: for 1-1-5 ग्क्ङिति च।

उदाहरणम् – शेते (√शी, अदादि-गणः, शीङ् स्वप्ने, धातु-पाठः #२. २६) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The धातुः √शी is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √शी will get आत्मनेपद-प्रत्ययाः।

शी + लँट् 3-2-123 = शी + ल् 1-3-2, 1-3-3
= शी + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शी + ते 3-4-79 = शी + शप् + ते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113.
= शी + ते 2-4-72 = शेते 7-4-21 (Note: “ते” is a अपित्-सार्वधातुक-प्रत्यय: and hence it it ङिद्-वत् by 1-2-4. Therefore, in the absence of 7-4-21, the गुणादेश: could not have been done by 7-3-84 because 1-1-5 would have blocked it.)