Table of Contents

<<7-3-99 —- 7-3-101>>

7-3-100 अदः सर्वेषाम्

प्रथमावृत्तिः

TBD.

काशिका

अद भक्षणे, अस्मादुत्तरस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति सर्वेषाम् आचार्याणां मतेन। आदत्। आदः। अपृक्तस्य इत्येव, अत्ति। अत्सि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

559 अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन. आदत्. आत्ताम्. आदन्. आदः. आत्तम्. आत्त. आदम्. आद्व. आद्म. अद्यात्. अद्याताम्. अद्युः. अद्यात्. अद्यास्ताम्. अद्यासुः..

बालमनोरमा

257 अदः सर्वेषाम्। `अद' इति पञ्चमी। `तस्मादित्युत्तरस्ये'ति परिभाषया परस्येति लभ्यते। `गुणोऽपृक्ते' इत्यतः `अपृक्ते' इति, `तुरुस्तुशम्यमः' इत्यतः `सार्वधातुके' इति चानुवर्तते। सप्तमीद्वयं च षष्ठ\उfffदा विपरिणम्यते। `अह् गाग्र्यगालवयो'रित्तोऽडित्यनुवर्तते। `गाग्र्यगालवयो'रित्स्यानुवृत्तिनिवृत्तये `सर्वेषा'मिति। तदाह–अदः परस्येत्यादिना। टित्त्वादाद्यवयः। तदाह–आददिति। आत्तामिति। अपृक्तग्रहणान्नाऽडागम इति भावः। विधिलिङि रूपमाह–अद्यादिति। शपो लुकि अतः परत्वाऽभावात् `अतो येयः' इति नेति भावः।मिपः अमि यासुटि सलोपे सवर्णदीर्घे— अद्याम्। अद्याव अद्याम। आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह–अद्यास्तामिति। लुङि अद् स् त् इति स्थिते–

तत्त्वबोधिनी

226 अदः सर्वेषाम्। `अङ्गाग्र्यगालवयोः' इत्यतोऽडित्यनुवर्तते। गाग्र्यगालवयोरित्यसय् त्वनुवृत्ति शङ्कां निवारयितुं सर्वेषांग्रहणम्।

Satishji's सूत्र-सूचिः

365) अदः सर्वेषाम् 7-3-100

वृत्तिः अदः परस्‍यापृक्तसार्वधातुकस्‍य अट् स्‍यात्‍सर्वमतेन । In the opinion of all the teachers, a सार्वधातुक-प्रत्ययः that is अपृक्त: (ref. 1-2-41) takes the अट्-आगमः when it follows the the verbal root √अद् (अदँ भक्षणे २. १) ।

उदाहरणम् – आदत् (√अद्, अदादि-गणः, अदँ भक्षणे, धातु-पाठः #२. १) लँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

अद् + लँङ् 3-2-111 = अद् + ल् 1-3-2, 1-3-3
= अद् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अद् + ति 1-3-3 = अद् + त् 3-4-100
= अद् + शप् + त् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = अद् + त् 2-4-72 = अद् + अट् त् 7-3-100, 1-1-46
= अद् + अ त् 1-3-3 = आट् अदत् 6-4-72, 1-1-46 = आ अदत् 1-3-3 = आदत् 6-1-90