Table of Contents

<<7-3-98 —- 7-3-100>>

7-3-99 अड् गार्ग्यगालवयोः

प्रथमावृत्तिः

TBD.

काशिका

रुदादिभ्यः पञ्चभ्यः परस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति गार्ग्यगालवयोर् मतेन। अरोदत्। अरोदः। अस्वपत्। अस्वपः। अश्वसत्। अश्वसः। प्राणत्। प्राणः। अजक्षत्। अजक्षः। गार्ग्यगालवयोर्ग्रहणं पूजार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

307 अड्गाग्र्यगालयवयोः। अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अपृक्तस्य अडागमः स्यादिति स्पष्टोऽर्थः। अरोदीरिति।अरुदितम् अरुदितेत्यपि ज्ञेयम्। अरोदमिति। अरुदिव अरुदिम इत्यपि ज्ञेयम्। ननु लिङस्तिपि यासुटंबाधित्वा परत्वात् `अड्गाग्र्यगालवयो'रिति, `रुदश्च पञ्चभ्यः' इति च अडीटौ स्यातामित्यत आह– प्रकृतिप्रत्ययेति। हलादिपित्सार्वधातुकाऽपृक्ताऽपेक्ष्तवाच्चेत्यपि ज्ञेयम्। लुङि `इरितो'वेत्यङ्पक्षे आह– अरुदिदिति। अङभावपक्षे त्वाह–अरोदीदिति। `अस्तिसिचः' इति ईट्। `रुदश्च पञ्चभ्य' इति तु नेह प्रवर्तते, सिचा व्यवहितत्वात्। ञि ष्वप् शये इति। षोपदेशोऽयम्। आद्र्धधातुके अनिट्। स्वपितीति। `रुदादिभ्यः' इति इट्। स्वपित इति। स्वपन्ति। स्वपिषि स्वपिथः स्वपिथ। स्वपिमि स्वपिवः स्वपिमः। सुष्वापेति। द्वित्वे `लिट\उfffद्भ्यासस्ये'ति संप्रसारणे पूर्वरूपे आदेशसकारत्वात् षत्वमिति भावः। सुषुपतुरिति। `वचिस्वपी'ति संप्रसारणे कृते द्वित्वादीति भावः। सुषुपुरित्यपि ज्ञेयम्। सुष्वपिथ सुष्वप्थेति। भारद्वाजनियमात्थलि वेडिति भावः। सुषुपथुः सुषुप। सुष्वाप–सुष्वप सुषुपिव सुषुपिम। सुविनिर्दुभ्र्यः। कृतस#ंप्रसारणस्य स्वप्धातोः सुपीत्यनेन ग्रहणम्। सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्रते। समेत्यनेनाऽपि समशब्दस्य ग्रहणम्। षष्ठ\उfffद्र्थे प्रथमा। `सहेः साडः स' इत्यत स इति षष्ठ\उfffद्न्तमनुवर्तते। मूर्धन्य इत्यधिकृतम्। तदाह—एभ्यः सुप्यादेरिति। सुषुप्तिः, सुषूतिः, सुषम इत्युदाहरणानि। अत्र कृतसंप्रसारमस्य स्वप्धातोग्र्रहमात्सुखप्र इत्यत्र न षत्वमिति भाष्यम्। नन्वेषं सति सुषुषुपतुरित्यत्र सुपूर्वस्य स्वपधातोः कथं षत्वम्। कृतसंप्रसारमस्य हि स्वपधातोः षत्वम्। तत्र यदि स्वप् अतुस् इति स्थिते पूर्वं द्वित्वे कृते पश्चात् `वचिस्वपी'ति संप्रासरणं तदा हलादिशेषे उत्तरखण्डस्यैव `वचिस्वपी'ति संप्रसारणं, न त्वभ्यासस्य। अतुसः कित उत्तरखण्डव्यवहितत्वात्, `न संप्रसारमए संप्रसारण'मिति निषेधाच्च। ततश्च सु ससुप् अतुसित्यत्र पूर्वखण्डस्य कृतसंप्रसारणत्वाऽभावात् कथं षत्वम्। उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाऽभावात्कथमनेन षत्वम्, इण्कवर्गाभ्यां इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम्। तत्तु न युज्यते। `पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणे'ति परिभाषया सु इत्युपसर्गसंबन्धस्य द्वित्वात्प्रागप्रवृत्तेः। तथा च कृतसंप्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्यैव `आदेशप्रत्ययो'रिति षत्वं स्यान्नतु पूर्वखण्डस्य, `सात्पदाद्यो'रिति निषेधात्। कृते हलादिशेषे सु इति पूर्वखण्डस्य सुब्राऊपत्वाऽभावेन `सुविनिर्दुभ्र्यः' इत्यस्याऽप्यप्रवृत्तिः। न च एकदेशविकृतस्याननयत्वं शङ्क्यम्, एवमप्यभ्यासस्यानर्थकत्वेन अर्थवद्ग्रहमपरिभाषया षत्वस्य तत्राऽप्राप्तेः। तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्क्याह– पूर्वं धातुरित्यादिना। लक्ष्यानुरोधादिह `पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेने'त्याश्रीयते। ततश्च द्वित्वात्परागेव परत्वात्संप्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुनः प्रसङ्गविज्ञानात् षुबित्यस्य कृतषत्वस्य कतं द्वित्वं , द्वित्वे कत्र्वये षत्वस्याऽसिद्धत्वादित्यत आह– पूर्वत्रासिद्धीयमिति। ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे ष्तवं श्रूयेतेत्यत आह–पिति त्विति। पिति णलि कित्त्वाऽभावात् `वचिस्वपी'त्यस्याऽप्रवृत्तौ कृते द्वित्वे `लिच्यभ्यासस्ये'ति पूर्वखण्डस्य संप्रसारणम्। सु सुप् स्वप् अ इति स्थिते `सुविनिर्दुर्भ्यःर' इति षत्वस्याऽसिद्धत्वात् हलादिशेष इत्यर्थः। नित्यत्वाच्चेति। कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भावः। तत इति। हलादिभावान्न ष इति द्रष्टव्यम्। स्वप्ता। स्वप्स्यति। स्वपितु-स्वपितात् स्वपिताम् स्वपन्तु। स्वपिहि-स्वपितात् स्वपितम् स्वपित। स्वपानि स्वपाव स्वपाम। लड\उfffदाह– सुप्यादिति। `वचिस्वपी'ति संप्रसारणमिति भावः। `सुविनिर्दुभ्यः' इति षत्वं मत्वाह– सुषुप्यादिति। असवाप्सीदिति। अनिट्कत्वान्न सिज्लोप इति भावः। \उfffदास प्राणने इति। वलाद्याद्र्धधातुके सेडयम्। सार्वधातुके तु वलादौ `रुदादिभ्यः' इति इट्। लङस्तिपि `रुदश्चे'ति ईटम्, `अड्गार्ग्ये'त्यटं च मत्वा आह– अ\उfffदासीत् अ\उfffदासदिति। विध्याशीर्लिङो \उfffदास्यादिति सिद्धवत्कृत्य आह–\उfffदास्याताम्। \उfffदास्यास्तामिति। अन चेति। अनधातुरपि प्राणने वर्तते इत्यर्थः। सेडयम्। सार्वधातुकेऽपि वलादौ `रुदादिभ्यः' इति इट्। लङि ईडटौ मत्वा आह– आनीत् आनदिति।

तत्त्वबोधिनी

266 प्रकृतिप्रत्ययेत्यादि। हलादिपित्सार्वधातुकाऽपृक्ताऽपेक्षत्वाच्च बहिरङ्गत्वमडीटोः। अरुदिति। `इरितो वे'त्यङ्। अरोदीदिति। `अस्तिसिच' इति ईट्। `रुदश्चे' त्यनेन तु न, सिचा व्यवधानेन रुदादेः परत्वाऽभावात्। सुषुपतुरिति। `वचिस्वपी'ति संप्रसारणम्। ततो द्वित्वम्।

Satishji's सूत्र-सूचिः

TBD.