Table of Contents

<<6-1-89 —- 6-1-91>>

6-1-90 आटश् च

प्रथमावृत्तिः

TBD.

काशिका

एचि इति निवृत्तम्। अचि इत्यनुवर्तते। आटः परो यो अच्, अचि च पूर्वो य आट्, तयोः पूर्वपरयोः आडचोः स्थाने वृद्धिरेकादेशो भवति। ऐक्षिष्ट। ऐक्षत। ऐक्षिष्यत। औभीत्। आर्ध्नोन्। औब्जीत्। चकारो ऽधिकविधानार्थः, उसि ओमाङोश्च 6-1-95 इति पररूपबाधनार्थः। औस्रीयत्। औङ्कारीयत्। आ ऊढा ओढा, तामैच्छतौढीयत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

198 आटोऽचि परे वृद्धिरेकादेशः. बहुश्रेयस्यै. बहुश्रेयस्याः. बहुश्रेयसीनाम्..

बालमनोरमा

267 टित्त्वादाद्यवयवः। बहुश्रेयसी आ ए इति स्थिते-आटश्चा। `इकोयणची'त्यतः अचीति `वृद्धिरेचि' इत्यतो वृद्धिरिति चानुवर्तते। `एकः पूर्वपरयो'रिति चाधिकृतम्। तदाह- आटोऽचीत्यादिना। बहुश्रेयस्यै इति। `बहुश्रेयसी आ ए' इति स्थिते `आटश्चे'ति वृद्धौ यणादेशे च रूपमिति भावः। यद्यपि `वृद्धिरेची'त्येव सिद्धं तथापि ऐक्षतेत्याद्यर्थ`माटश्चे'ति सूत्रमिहापि न्याय्यत्वादुपन्यस्तम्। बहुश्रेयस्या इति। ङसि ङसोर्बहुश्रेयसी आ अस् इति स्थिते `आटश्चे'ति वृद्धावाकारे यणि रूपमिति भावः। अत्रापि सवर्णदीर्घेण सिद्धम्। न्याय्यत्वादाटश्चेति वृद्धिः। नद्यन्तात्परत्वादिति। श्रेयसीशब्दस्य ईकारान्तनित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयत्वात्। सवर्णदीर्घे प्राप्ते-।

तत्त्वबोधिनी

229 आटश्च। यद्यपि इह ङयि `वृद्धिरेची'त्येव सिद्धं, ङे सिङ्सोर्ङेरामि च सवर्णदीर्घेण, तथाप्यैन्दिददित्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम्। `अजादीनामटा सिद्धम्' `आडजादीनाम्'इति सूत्रं मास्तु इति वदतो वार्तिककारस्य मतेतु `अटश्चे'त्येव सूत्रमिति बोध्यम्।

Satishji's सूत्र-सूचिः

126) आटश्च 6-1-90

वृत्ति: आटोऽचि परे वृद्धिरेकादेशः । वृद्धिः letter is a single replacement when “आट्” is followed by a vowel.

उदाहरणम् –

When नदी-सञ्ज्ञा is taken:

मति + ङे = मति आ ए 1-3-8, 1-4-6, 7-3-112, 1-1-46 = मति ऐ 6-1-90 = मत्यै 6-1-77

मति + ङसिँ = मति आ अस् 1-3-8, 1-3-2, 1-4-6, 7-3-112, 1-1-46 = मति आस् 6-1-90 = मत्याः 6-1-77, 8-2-66, 8-3-15

मति + ङस् = मति आ अस् 1-3-8, 1-4-6, 7-3-112, 1-1-46 = मति आस् 6-1-90 = मत्याः 6-1-77, 8-2-66, 8-3-15

When नदी-सञ्ज्ञा is not taken:

मति + ङे = मते + ए 1-3-8, 1-4-7, 7-3-111 = मतये 6-1-78

मति + ङसिँ = मते + अस् 1-3-8, 1-3-2, 1-4-7, 7-3-111 = मतेः 6-1-110, 8-2-66, 8-3-15

मति + ङस् = मते + अस् 1-3-8, 1-4-7, 7-3-111 = मतेः 6-1-110, 8-2-66, 8-3-15