Table of Contents

<<1-2-40 —- 1-2-42>>

1-2-41 अपृक्त एकाल् प्रत्ययः

प्रथमावृत्तिः

TBD.

काशिका

अपृक्तः इति इयं संज्ञा भवति एकाल् यः प्रत्ययस् तस्य। असहायवाची एकशब्दः। स्प्शो ऽनुदके क्विन् 3-2-58 धृतस्पृक्। भजो ण्विः 3-2-62 अर्धभक्। पादभाक्। एकालिति किम्? दर्विः। जागृविः। प्रत्यय इति किम्? सुराः। अपृक्तप्रदेशाः वेरपृक्तस्य 6-1-67 इत्येवम् आद्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

178 एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्..

बालमनोरमा

249 सखान् स् इति स्थिते अपृक्तकार्यं वक्ष्यन्नपृक्तसंज्ञामाह–अपृक्तः। एकालिति कर्मधारयः। अत्रैकशब्दो।ञसहायवाची। `एके मुख्यान्यकेवलाः' इत्यमरः। `स्' इत्यस्याऽपृक्तसंज्ञायाम्।

तत्त्वबोधिनी

210 अपृक्त एकाल्। असहायावाच्यत्रैकशब्दः सङ्ख्यावाची वा। न च सङ्ख्यावाचित्वे `अभैत्सी'दित्यत्र हलन्तात्परस्य सिचोऽपृक्तत्वाल्लोपः स्यादिति वाच्यं, विभक्तिसाहचर्याद्विभक्तेरेव लोप इति व्याख्यानात्। एकालिति किम्? जागृविः। `वरेपृक्तस्ये'ति लोपो न। `अ'लित्यनेनैकत्वे लब्धे इदमेकग्रहण वर्णग्रहणं ज्ञापयतीति। फलं दम्भितुमिच्छति धिप्सतीत्यत्र सनो `हलन्ताच्चे'ति कित्त्वम्। तत्र हल्ग्रहणस्य व्यक्तिपरत्वे योऽत्रैकः समीपबर्ती हल्नकारस्ततः परः सन् न, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात्। ततश्च नलोपो न स्यादित्यभ्युपगम्य `निपात एकाजना' ङित्यत्र एकाज्ग्रहणं त्युक्तुं शक्यमित्यवोचान।

Satishji's सूत्र-सूचिः

92) अपृक्त एकाल् प्रत्यय: 1-2-41

वृत्ति: एकाल् प्रत्यय: य:, सोऽपृक्तसंज्ञ: स्यात् । An affix which has only one letter gets the designation अपृक्त:

गीतासु उदाहरणम् – श्लोकः bg11-44

Continuing from above example: सखान् + स् The affix स् gets the designation अपृक्त: