TBD.
आडागमो भवति अजादीनां लुङ्लङ्लृङ्क्षु परतः, उदात्तश्च स भवति। ऐक्षिष्ट। ऐहिष्ट। औब्जीत्। औम्भीत्। लङ् ऐक्षत। ऐहत। औब्जत्। औम्भत्। लृङ् ऐक्षिष्यत। ऐहिष्यत। औब्जिष्यत्। औम्भिष्यत्। इह ऐज्यत, औप्यत, औह्यत इति लङि कृते लावस्थायाम् अडागमादन्तरङ्गत्वाल् लादेशः क्रियते, तत्र कृते विकरणो नित्यत्वादडागमं बाधते। शब्दान्तरप्राप्तेरडागमस्य अनित्यत्वम्, कृते हि विकरणान्तस्य अङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति। ननु शब्दान्तरादिति विकरणो ऽनित्यः? विकरणे कृते सम्प्रसारणम् अडागमान् नित्यत्वादेव भवति, सम्प्रसारणे च कृते ऽजाद्यङ्गं जातम् इति आडजादीनाम् इत्याडागमः।
TBD.
446 अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु. आतत्. अतेत्. अत्यात्. अत्यास्ताम्. लुङि सिचि इडागमे कृते —.
100 अथ एधधातोर्लङि लुङ्लङ्लृङ्क्ष्वडुदात्त इत्यडागमे वृदिं?ध बाधित्वा परत्वादतो गुण इति पररूपे प्राप्ते–आडजादीनां। लुङादिष्विति। `लुङ्लङ्लृङ्क्ष्वि' त्यनुवृत्तेरिति भावः। अटोऽपवाद इति। अटि सति पररूपं स्यादिति भावः। `आटश्चेत्यनन्तरं `वृद्धि'रिति शेषः। यद्यपि वृद्धिरेचीति वा वृद्धौ इदं सिध्यति तथापि ऐक्षतेत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम्। ऐधतेति। लङस्तादेशे शपि आडागमे आटश्चेति वृद्धिः। लङादेशानां टिदादेशत्वाऽभावादेत्वं न भवति। `आडजादीना'मिति सूत्रं भाष्ये प्रत्याख्यातम्। ऐधेतामिति। आतामि शपि आटि वृद्धिः। `आतो ङित' इत्याकारस्य #इय्। आद्गुणः। आटो वृद्धिः। ऐधावहि ऐधमहीति। वहिमह्योः शप्, आट्, वृद्धिः। इति लङ्प्रक्रिया।
74 एतच्चाऽजादीनमटा सिद्धमिति वार्तिककृता प्रत्याख्यातम्। ननु अटिसति `वृद्धिरेची'त्यनेन ऐधतेत्यादिसिद्धावपि ऐन्ददित्यादि न सिध्येत्। किं च `अतो गुणे' इति पररूपप्रवृत्त्या ऐधतेत्याद्यपि न सिध्येत्। यदि तु `आटश्चे'ति सूत्रम् `अटश्चे'ति क्रियेत तर्हि अस्वपोऽहसदित्यत्र वृद्धिः स्यात्।`रुदश्च पञ्चभ्यः', `अङ्गाग्र्यगालवयो'रित्यडागमस्य सत्त्वात्, `अतो रोरप्लुता'दिति रोरुत्वे सति अच्परत्वाच्चेति चेन्न, `उपसर्गादृति धातौ' इत्यतो धातावित्यपकृष्याऽजादौ धाताविति व्याख्यानात्। न च अस्वपोऽस्तीत्यादावोकारस्यान्तवद्भावेनाऽट्?त्वात्परत्राजादिधातुसत्त्वाच्चोक्तदोषस्तदवस्थ इति वाच्यम्, आदित्यनुवत्र्य अकाररूपादटोऽचि परे वृद्धिरिति व्याख्यानात्। एतेन अटश्चेत्युक्तौ `अट गतौ' इत्यस्माल्ल्युटि अटनमित्यत्रातिप्रसङ्गः स्यादित्येतदपि निरस्तमम्। न चैवमपि आतत् आतीदित्यादि न सिध्यति। `अटश्चे'त्यसयैन्ददित्यादौ सावकाशतया परत्वादिह `अतो गुणे' इत्यस्यैव प्रवृत्तेरिति वाच्यं, चकारोऽत्र पुनर्वृद्धिविधानार्थ इत्यभ्युपगमादन्तरङ्गत्वाद्वा `अटश्चे'त्यस्यैव प्रवृत्तेः। स्यादेतत्– `आडजादीना'मिति सूत्राऽभावे आस्ताम् आसन् इति कथमटा सिध्यति। `श्नसो'रित्याल्लोपेन `अटश्च' इतितत्र वृद्ध्यप्रवृत्तेः। मैवम्। अन्तरङ्गत्वात्प्रागेवाऽऽडागमे कृते वृद्धौ च कृतायां पश्चात् श्नसोरल्लोपस्याऽप्रसक्तेः। न च `वार्णादाङ्गं बलीयः' इति वृद्धेःप्रागल्लोप एव स्यादिति शङ्क्यं, व्याश्रयत्वात्, `वार्णादाङ्ग'मिति परिभाषाया अनित्यत्वाद्वा। तत्र हि `श्नसोरल्लोपः' इति तपरकरणमेव लिङ्गं ,यदि वृद्धेः प्रागेवाल्लोपः स्यात्तर्हि किंतेन तपरकरणेनेति। यद्यपि वैदिकप्रक्रियायामानट् आव इत्यादौ `छन्दस्यापि दृश्यते' इत्याडागमस्य वक्ष्यमाणत्वात्तदर्थमाट्?सूत्रं कर्तव्यं तथाप्याटं विनैवाड्?व्यत्ययेन, आङ्पूर्वकत्वेन वा तत्र कथंचिद्व्याख्येयमिति स्थितस्य गतिमाहुः।
318) आडजादीनाम् 6-4-72
वृत्तिः अजादेरङ्गस्याऽऽट् लुँङ्लँङ्लृँङ्क्षु । When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment.
उदाहरणम् – आतत् (√अत्-धातुः, लँङ्, प्रथम-पुरुषः, एकवचनम्)
अत् + लँङ् 3-2-111 = अत् + ल् 1-3-2, 1-3-3
= अत् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अत् + ति 1-3-3 = अत् + त् 3-4-100
= अत् + शप् + त् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अत् + अ + त् 1-3-3, 1-3-8 = आट् अतत् 6-4-72, 1-1-46
= आ अतत् 1-3-3 = आतत् 6-1-90