TBD.
तद्धिते ञिति णिति च प्रत्यये परतो ऽङ्गस्य अचाम् आदेः अचः स्थाने वृद्धिर् भवति। गार्ग्यः। वात्स्यः। दाक्षिः। प्लाक्षिः। णिति औपगवः। कापटवः। त्वाष्ट्रः, जागतः इत्यत्र अचामादेर् वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते।
TBD.
1002 दित्यादिभ्यः पत्युततरपदाच्च प्राग्दीव्यतियेष्वर्थेषु ण्यः स्यात्. अणोऽपवादः. दितेरपत्यं दैत्यः. अदितेरादित्यस्य वा..
1059 तद्धितेष्वचामादेः। `अचोञ्णिती'त्यनुवर्तते। `मृजेर्वृद्धि'रित्यतो वृद्धिरिति च। `अचा'मिति निर्धारणषष्ठी। तदाह–ञितीति।
885 तद्धितेष्व। अचां मध्ये आदिरजेवेति `अचोऽञ्णिती'ति सूत्रदच इत्यनुवर्तत इत्याशयेन व्याचष्टे–अच इति। वृद्धिः स्यादिति। `मृजेर्वृद्धि'रित्यतोऽनुवर्तत इति भावः।
TBD.