TBD.
अनुदात्तोपदेशानाम् अङ्गानां वनतेः तनोत्यादीनां च अनुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परतः। यमु यत्वा। यतः। यतवान्। यतिः। रमु रत्वा। रतः। रतवान्। रतिः। अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः। वनति वतिः। क्तिनो रूपम् एतत्। क्तिचि तु न क्तिचि दीर्घश्च 6-4-39 इति भवति। अन्यत्र झलादाविटा भवितव्यम्। तनोत्यादयः ततः। ततवान्। सनोतेरात्वं वक्ष्यति। क्षणु क्षतः। क्षतवान्। ऋणु ऋतः। ऋतवान्। तृणु तृतः। तृतवान्। घृणु घृतः। घृतवान्। वनु वतः। वतवान्। मनु मतः। मतवान्। ङिति अतत। अतथाः। अनुदात्तोपदेशवनतितनोत्यादीनाम् इति किम्? शान्तः। शान्तवान्। तान्तः। तान्तवान्। दान्तः। दान्तवान्। अनुनासिकस्य इति किम्? पक्वः। पक्ववान्। झलि इति किम्? गम्यते। रम्यते। क्ङिति इति किम्? यन्ता। यन्तव्यम्। उपदेशग्रहणं किम्? इह वयथा स्यात्, गतिः। इह च मा भूत्, शान्तः, शान्तवानिति।
TBD.
561 अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे. यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः. तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः. हतः. घ्नन्ति. हंसि. हथः. हथ. हन्मि. हन्वः. हन्मः. जघान. जघ्नतुः. जघ्नुः..
259 अनुदात्तोपदेश। `ऊदृदन्तै'रित्यादिभिः सङ्गृहीता अनुदात्तोपदेशाः, वनतिभौवादिकः, तनोत्यादयस्तु `तनु विस्तारे' इत्यादिना पठिष्यन्ते। एतेषामनुनासिकस्य लोपः स्याज्झलादौ क्ङितीति प्रतीयमानार्थः। एवं सति `मुक्त'मित्यादौ मुचादीनामपि मकारादिलोपः स्यात्। तत्राह– अनुनासिक इति लुप्तषष्ठीकं पदमिति। एवमप्युक्ताऽतिप्रसङ्गतादवस्थ्यादाह–वनतीतरेषां विशेषणमिति। अनुदात्तोपदेशानां तनोत्यादीनां चेत्यर्थः। तथा च विशेषणत्वात्तदन्तविधावनुनासिकान्तानामनुदात्तोपदेशानां तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः। तदाह– अनुनासिकान्तानामित्यादिना। वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम्, अव्यभिचारादिति भावः। अत्रानुदात्तोपदेशाननुनासिकान्तान्दर्शयति—यमिरमीति। अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः। अथ तनोतीत्यादीननुनासिकान्तान्दर्शयति–तनुक्,णुक्षिण्विति। `मनु' इत्यन्तं समाहारद्वन्द्वात्प्रथमैकवचनम्। एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः। `तनु विस्तारे' इत्यारभ्य `डु कृञ् करणे' इत्यन्ता दश धातवस्तनोत्यादयः। तत्रकरोतिरनुनासिकान्तात्वाऽभावादिह न गृह्रते, `जनसनखनां सन्झलो'रिति सनोतेरात्त्वस्य वक्ष्यमाणत्वात्सोऽप्यत्र न गृहीतः। `वनु याचने' इति तनादौ पठितम्। तस्य उविकरणतया, उदित्त्वेन वनतिग्रहणेनाऽग्रहणात्तनादौ पठितस्यापि पृथग्ग्रहणम्। तत्र तानादिकस्य वनेरुदित्त्वात् `उदितो वे'ति क्त्वायामिड्विकल्पात् `यस्य विभाषे'ति निष्ठायामिडभावे वतः वतवानित्युदाहरणम्। वनतेस्तु भौवादिकस्य उदित्त्वाऽभावान्निष्ठायां सेट्कतवेऽपि क्तिनि वतिरित्युदाहरणम्, तत्र `तितुव्रतथसिसुसरकसेषु चे'ति इण्निषेधादित्यलम्। हत इति। तसि अनुदात्तोपदेशानुनासिकान्तत्वान्नकारलोपः, `सार्वधातुकमपि' दिति तसो ङित्त्वात्। घ्नन्तीति। अजादिङित्परकत्वात् `गमहने'त्युपधालोपे `हो हन्ते' रिति कुत्वेन हस्य घः। हसि हथः हथ।
315 यज्वेति। इष्टावान्यज्वा। `सुयजोर्ङ्वनिप्'। ब्राहृणा इति। `सर्वधातुभ्यो मनि' न्निति प्रकम्य `बृंहर्नोऽच्चेत'ति नस्याऽत्वाविधानाह्ब्राहृञ्शब्दोऽयं`निष्पन्नः।
367) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति 6-4-37
वृत्तिः अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे । There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् or a ङित्।
Note: * सिद्धान्त-कौमुदी – “यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।” The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
√यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।
The following eight roots belonging to तनादि-गणः are subject to this rule:
√तन् (तनुँ विस्तारे ८. १), √क्षण् (क्षणुँ हिंसायाम् ८. ३), √क्षिण् (क्षिणुँ [हिंसायाम्]च ८. ४), √ऋण् (ऋणुँ गतौ ८. ५), √तृण् (तृणुँ अदने ८. ६), √घृण् (घृणुँ दीप्तौ ८. ७), √वन् (वनुँ याचने ८. ८) and √मन् (मनुँ अवबोधने ८. ९)।
उदाहरणम् – हतः (√हन्, अदादि-गणः, हनँ हिंसागत्योः धातु-पाठः #२. २ ) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।
हन् + लँट् 3-4-69, 3-2-123
= हन् + ल् 1-3-2, 1-3-3 = हन् + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हन् + शप् + तस् 3-1-68, 1-3-4 = हन् + तस् 2-4-72
= ह + तस् 6-4-37 (तस् is not a पित् and therefore it is ङिद्वत् by 1-2-4) = हतः 8-2-66, 8-3-15