Table of Contents

<<6-4-35 —- 6-4-37>>

6-4-36 हन्तेर्जः

प्रथमावृत्तिः

TBD.

काशिका

हन्तेर्धातोः जः इत्ययम् आदेशो भवति हौ परत। जहि शत्रून्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

563 हौ परे..

बालमनोरमा

262 हन्तेर्जः। `शा हौ इत्यतो हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे– हौ परे इति। कृते जादेशे `अतो हे'रिति हेर्लुकमाशङ्क्य आह–आभीयतयेति। जहीति। हतात् हतम्। हत। हनानीति। आटः पित्त्वेन हित्त्वाऽभावान्नोपधालोप इति भावः। अहन्निति। लङस्तिपि `इतश्चे'ति इकारलोपे `संयोगान्तस्ये'ति तकारलोपः। न्याय्यत्वाद्धल्ङ्यादिलोपो वा। अहनमिति। अहन्व। अहन्म। झलादिपरकत्वाऽभावान्नोपधादीर्घः। विधिलिङि हन्यात् हन्यताम् इत्यादि। आशीर्लिङि वधादेशं वक्ष्यन्नाह-

तत्त्वबोधिनी

230 आभीयतयेति। सन्निपातपरिभाषयाऽपि हेर्लुङ् नेति वक्तुं शक्यमिति केचित्। तन्मन्दम्। `अतो हे' रित्यारम्भसामथ्र्यात्तस्या अप्रवृत्तेरिति नव्याः।

Satishji's सूत्र-सूचिः

369) हन्तेर्जः 6-4-36

वृत्तिः हौ परे। When followed by the हि-प्रत्ययः, “हन्” gets “ज” as the replacement.

उदाहरणम् – जहि (√हन्, अदादि-गणः, हनँ हिंसागत्योः धातु-पाठः #२. २) लोँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

हन् + लोँट् 3-3-162 = हन् + ल् 1-3-2, 1-3-3 = हन् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हन् + सि 1-3-3 = हन् + हि 3-4-87, हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= हन् + शप् + हि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = हन् + हि 2-4-72 = जहि 6-4-36, 1-1-55

Example continued below.