Table of Contents

<<6-4-38 —- 6-4-40>>

6-4-39 न क्तिचि दीर्घश् च

प्रथमावृत्तिः

TBD.

काशिका

क्तिचि परतो ऽनुदात्तोपदेशादीनाम् अनुनासिकलोपः दीर्घश्च न भवति। यन्तिः। वन्तिः। तन्तिः। अनुनासिकलोपे प्रतिषिद्धे अनुनासिकस्य क्विझलोः क्ङिति 6-4-15 इति दीर्घः प्राप्नोति, सो ऽपि प्रतिषिध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1584 दीर्घानुनासिकेति। `अनुनासिकस्य क्विझलो'रिति दीर्घस्य र`अनुदात्तोपदेशे'त्यादिनानुनासिकलोपस्य च प्राप्तरिति बोध्यम्। यन्तिरित्यादि। यम उपरमेष रम क्रीडायाम्, वनु याचने, तनु विस्तारे।

Satishji's सूत्र-सूचिः

TBD.