Table of Contents

<<3-1-79 —- 3-1-81>>

3-1-80 धिन्विकृण्व्योर च

प्रथमावृत्तिः

TBD.

काशिका

हिवि, धिवि जिवि प्रीणनार्थाः, कृवि हिंसाकरणयोः, इत्येतयोः धात्वोः उप्रत्ययो भवति, अकारश्च अन्तादेशः। धिनोति। कृणोति। अतो लोपस्य स्थानिवद्भावात् गुणो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

171 धिन्विकृण्व्योः। `अ' इति लुप्तप्रथमाकम्। धिविकृव्योः कृतनुमोर्धिन्विकृण्वीत निर्देशः। `तनादिकृञ्भ्यः उः' इत्यत उरिति चकारादनुकृष्यते। `कर्तरि श'बित्यतः कर्तरीति, `सार्वधातुके य'गित्यतः सार्वधातुक इति च। तदाह– अनयोरित्यादिना। वकारस्याऽकारः। दिन् अ उ ति इति स्थितम्। अतो लोप इति। युगपत्संनियोगशिष्टतया उप्रत्ययाऽकारयोर्विधानेऽपि श्रुतक्रमानुरोधेन प्रवृत्त्या आद्र्धधातुकोपदेशेकाले `धिन' इत्यस्याऽदन्तत्वमिति भावः। नन्वत्र वकारस्य लोप एव विधीयतां किमकारविधिनेत्यत आह–तस्येति। वकारस्य लोपाविधौ तु अजादेशत्वाऽभावात्स्थानिकवत्त्वं न स्यादिति भावः। तथा च धिनु ति इति स्थिते आह– उप्रत्ययस्येति। धिनुत इति। धिविधातोरनुमि तसि उप्रत्यये वकारस्य अकारादेशे अतो लोपः। तसो ङित्त्वादुकारस्य न गुणः। धिन्वन्तीति। धिन्व् इत्यस्माज्झिः। झोऽन्तः। उप्रत्ययः। वकारस्य अकारः। अतो लोपः। उकारस्य यणिति भावः। अत् वकारस्य स्थानिवत्त्वेन आद्र्धधातुकत्वेऽपि नेट्। उकारवृत्त्याद्र्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात्। तदिदं `भोभगो' इति सूत्रभाष्ये स्पष्टम्। धिनोषि धिनुथः धिनुथ। धिनोमि।

तत्त्वबोधिनी

145 धिन्विकृष्व्योर च। `अलोऽन्त्यस्ये'ति वकारस्याऽकारादेशः। चकारेण तु उप्रत्ययोऽनुकृष्यते। बोपदेवेन त्वनयोस्तनादित्वं स्वीकृतम्। तन्मते तु चकारं विनाप्युप्रत्ययलाभः। अतो लोप इति। यद्यप्युपदेशेऽदन्तत्वं नास्ति तथाप्याद्र्धधातुकोपदेशे तदस्त्येव। `धिन्विकृण्व्योर चे'ति श्रुतत्वादकारादेशे कृते चानुकृष्टस्य पश्चाज्जायमानत्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.