Table of Contents

<<3-1-68 —- 3-1-70>>

3-1-69 दिवादिभ्यः श्यन्

प्रथमावृत्तिः

TBD.

काशिका

दिवित्येवम् आदिभ्यः धातुभ्यः श्यन् पर्त्ययो भवति। शपो ऽपवादः। नकारः स्वरार्थः। शकारः सार्वधातुकार्थः। दीव्यति। सीव्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

632 शपोऽपवादः. हलि चेति दीर्घः. दीव्यति. दिदेव. देविता. देविष्यति. दीव्यतु. अदीव्यत्. दीव्येत्. दीव्यात्. अदेवीत्. अदेविष्यत्.. एवं षिवु तन्तुसन्ताने.. 2.. नृती गात्रविक्षेपे.. 3.. नृत्यति. ननर्त. नर्तिता..

बालमनोरमा

334 दिवादिभ्यः। `कर्तरि श'बित्यतः कर्तरिति, `सार्वधातुके य'गित्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्याह– शपोऽपवाद इति। शकारनकारावितौ। दिव् यतीति स्थिते आह– हलि चेति दीर्घ इति। श्यनोऽपित्त्वेन ङित्त्वान्न गुण इति भावः। दीव्यतः दीव्यन्तीत्यादि सुगमम्। दिदेवेति। दिदिवतुः। दिदेविथ। दिदिविव। सेट्त्वं सूचयति– देवितेति। षिनुधातुरपि सेट्। षोपदेशः। दिवुधातुवदस्य रूपाणि।परिषीव्यतीति। `परिनिविभ्यः सेवे'ति षत्वमिति भावः। परिषिषेवेति। `स्थादिष्वेवाभ्यासस्ये'ति नियमस्तु न, तत्र `प्राक्सिता'दित्यनुवृत्तेरितिभावः। `सिवादीनां वाऽड्व्यवायेऽपी'ति मत्वाह–न्यषेवीत् न्यसेवीदिति। रिउआवुधातुस्तु रेफवान्। ष्ठिवु निरसने इति। `सुब्दातुष्वक्कष्ठीवा'मिति न सत्वम्। ष्ठीव्यतीत्यादि सुगमम्। आद्र्धदातुकेषु तु शब्विकरणस्थष्ठिबुधातुवद्रूपाणि। ष्णसुधातुश्च षोपदेशः। नृती गात्रेति। `\उfffदाईदितः' इत्याद्यार्थमीदित्त्वम्। सेडयम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

420) दिवादिभ्यः श्यन् 3-1-69
वृत्तिः शपोऽपवादः । The श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ ।

उदाहरणम् – दीव्यति √दिव्-धातुः (दिवादि-गणः, दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, धातु-पाठः #४. १), लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending उकार: (which is an इत् by 1-3-2) of “दिवुँ” has a उदात्त-स्वर: in the धातु-पाठ:। Therefore 1-3-12 doesn’t apply and this धातु: is thus devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। So by the default सूत्रम् 1-3-78, it will take परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

दिव् + लँट् 3-2-123
= दिव् + ल् 1-3-2, 1-3-3
= दिव् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दिव् + ति 1-3-3
= दिव् + श्यन् + ति 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दिव् + य + ति 1-3-3, 1-3-8 (Note: Since the सार्वधातुक-प्रत्यय: “श्यन्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 to prevent 7-3-86 from applying.)
= दीव् + य + ति 8-2-77 = दीव्यति