TBD.
उभयत्र विभाषेयम्। टुभ्राशृ, दुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु चलने, द्वयोरपि ग्रहणम्, क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटी छेदने, लष कान्तौ, एतेभ्यो वा श्यन् प्रत्ययो भवति। भ्राश्यते, भ्राशते। भ्लाश्यते, भ्लाशते। भ्राम्यति, भ्रमति। क्राम्यति, क्रामति। क्लाम्यति, क्लामति। त्रस्यति, त्रसति। त्र्युट्यति, त्रुटति। लष्यति, लषति।
TBD.
487 एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे. पक्षे शप्..
161 वा भ्राश। `दिवादिब्यः श्य' नित्यतः श्यन्निति, `कर्तरि श'बित्यतः कर्तरीति, `सार्वधातुके य'गित्यतः सार्वधातुक इति चानुवर्तते। तदाह—एभ्यः श्यन्वेत्यादि।
135 उभयत्रविभाषेयम्। अनवस्थानर्थो भ्रमिः, क्लमित्रसी च– दिवादयः, तेभ्यो नित्यं प्राप्ते। इतरेषामप्राप्ते चारम्भात्। `भ्राश्रृ भ्लाश्रृ दीप्तौ'। फणादावेतौ। `भ्रमु चलने' ब्वादिः, ज्वलादिः। `फणादि'रित्यपि ?मनोरमायां पठ\उfffद्ते, तद्रभसादिति नव्याः। `भ्रमु अनवस्थाने' दिवादिः, पुषादिः, शमादिः। तत्र ब्वादेः- - भ्रम्यति भ्रमति। शमादेस्तु श्यनि दीर्घे भ्राम्यीति त्रैरूप्यम्। `क्लमु ग्लानौ', `त्रसी उद्वेगे', `त्रुट छेदने', `लष कान्तौ'।
330) वा भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुटि-लषः 3-1-70
वृत्तिः एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्। The श्यन्-प्रत्यय: is optionally placed after the following verbal roots – √भ्राश् (टुभ्राशृँ – [दीप्तौ]१. ९५८), √भ्लाश् (टुभ्लाशृँ दीप्तौ १. ९५९), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२), √क्रम् (क्रमुँ पादविक्षेपे १. ५४५), √क्लम् (क्लमुँ ग्लानौ ४. १०४), √त्रस् (त्रसीँ उद्वेगे ४. ११), √त्रुट् (त्रुटँ छेदने ६. १०२) and √लष् (लषँ कान्तौ १. १०३३) – when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
In the other case (when the श्यन्-प्रत्यय: is not used) the default शप्-प्रत्यय: is used by 3-1-68.
उदाहरणम् – क्राम्यति (√क्रम्-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)
क्रम् + लँट् 3-2-123 = क्रम् + ल् 1-3-2, 1-3-3 = क्रम् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= क्रम् + श्यन् + तिप् 3-1-70, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = क्रम् + य + ति 1-3-3, 1-3-8
Example continued below