रिङ् (1/1), शयग्लिङ्क्षु (7/3)| अनु. - ऋत:, असार्वधातुके, यि, अङ्गस्य।
हिन्दी – ऋकारान्त अङ्ग को [शयग्लिङ्क्षु] श यक् तथा यकारादि सार्वधातुक भिन्न लिङ् परे रहते [रिङ्] रिङ् आदेश होता है।
ऋकारान्तस्य अङ्गस्य श यक् इत्येतयोः लिङि च यकारादौ असार्वधातुके परतो रिङ् इत्ययम् आदेशो भवति। श - आद्रियते। आध्रियते। यक् - क्रियते। ह्रियते। लिङ् - क्रियात्। ह्रियात्। रिङ्वचनं दीर्घनिवृत्त्यर्थम्। असार्वधातुके इत्येव - बिभृयात्। यि इत्येव - कृषीष्ट। हृषीष्ट।
For the final short ऋ of a root, there is substituted रि, before the Present-character अ (श), before the Passive-character य, and before the augment यास् in the Benedictive.
545 शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्. रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न. भ्रियात्..
204 आशीर्लिङि परस्मैपदे भृ यादिति स्थिते– रिङ् शय। श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम्। `अयङ्यि क्ङिती'त्यतो यीति सप्तम्यन्तमनुवृत्तं लिङो विसेषणम्। तदादिविधिः। शे तु यीति नान्वेति, असंभवात्। नापि यकि, अव्यभिचारात्। अत एव ?कृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणं। तदाह–शे यकीत्यादिना। ऋत इति। `रीङृत' इत्यतस्तदनुवृत्तेरिति भावः। अङ्गस्येधिकृतम्। `ऋत' इति तद्विशेषणं। तदन्तविधिः। ऋदन्तस्याऽङ्गस्येति लभ्यते। आदेशे ङकार इत्। ङित्त्वादन्तादेशः। निर्दिश्यमानपरिभाषयैव सिद्धे ङकारोच्चारणम्, इङागमेनैव सिद्धे रेफोच्चारमं च स्पष्टार्थम्। ननु भ्रियादिति वक्ष्यमाणमुदाररणमयुक्तम्, कृते रिङि `अकृत्सार्वधातुकयो'रिति दीर्घप्रसङ्गादित्यत आहरीङि प्रकृते इति। कृते रिङि यदि दीर्घः स्यात्तर्हि रिङ्विधिव्र्यर्थः स्यात्, `रीङृत' इत्येव सिद्धेः। अतो रिङि कृते सति न दीर्घ इत्यर्थः। भ्रियादिति। भ्रियास्तमित्यादि सुगमम्।
176 लिङ् शयग्लिङ्क्षु। `अयङ् यि क्ङिती'त्यतोऽनुवृत्तं यीत्येतल्लिङ एव विशेषणं, सेऽसंभवात्। यकि तु वैयथ्र्यात्। तथा `अकृत्सार्वधातुकयो' रित्यनुवृत्तमपि लिङ एव विशेषणमित्यभिप्रेत्याह— यादावित्यादि। शे–म्रियते। `तुदादिभ्य' इतिशः। यकि– क्रियते। म्रियते।
वृत्तिः शे यकि यादावार्धधातुके लिँङि च ऋतो रिङ् आदेशः स्यात् । The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by any one of the following:
1. श-प्रत्यय:
2. यक्-प्रत्यय:
3. यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्।
Note: रीङि प्रकृते रिङि्वधानसामर्थ्याद् दीर्घो न । 7-4-25 is not applied after applying 7-4-28 for the following reason -
In the अष्टाध्यायी, the सूत्रम् 7-4-27 रीङ् ऋतः comes right before 7-4-28 रिङ् शयग्लिङ्क्षु। If पाणिनिः wanted to get the दीर्घ-आदेशः then he would have used the अनुवृत्तिः of रीङ् from 7-4-27. The fact that he has introduced रिङ् in 7-4-28 is a ज्ञापकम् (indication) that after applying 7-4-28, the दीर्घ-आदेशः should not be done (by 7-4-25.)
उदाहरणम् – क्रियते (√कृ, तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्।
कृ + लँट् 3-4-69, 3-2-123 = कृ + ल् 1-3-2, 1-3-3
= कृ + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = कृ + ते 3-4-79
= कृ + यक् + ते 3-1-67, यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114. Since यक् is a कित्, 1-1-5 prevents 7-3-84 from doing a गुणादेश: in place of the ending ऋकार: of the अङ्गम्।
= कृ + य + ते 1-3-3 = क् रिङ् + य + ते 7-4-28, 1-1-53 = क्रि + य + ते 1-3-3 = क्रियते