Table of Contents

<<7-4-28 —- 7-4-30>>

7-4-29 गुणो ऽर्तिसंयोगाद् योः

प्रथमावृत्तिः

TBD.

काशिका

ऋतः यकि लिगि इति वर्तते। श इत्यसम्भवात् निवृत्तम्। गुणो भवति अर्तेः संयोगादीनाम् ऋकारान्तानां यकि परतो लिगि च यकारादौ असार्वधातुके। अर्यते। अर्यात्। स्मर्यते। स्मर्यात्। इह संस्क्रियते, संस्क्रियातिति सुटो बहिरङ्गलक्षणस्य असिद्धत्वातभक्तत्वात् वा संयोगादित्वम् अङ्गस्य न अस्ति इति गुणो न प्रवर्तते। यि इत्येव, स्वृषीष्ट। ध्वृषीष्ट। असार्वधातुके इत्येव, इयृयात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

500 अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च. ह्वर्यात्. अह्वार्षीत्. अह्वरिष्यत्.. श्रु श्रवणे.. 19..

बालमनोरमा

217 आशीर्लिङि ह्वृ यादिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते– गुणोऽर्ति। भौवादिको जौहोत्यादिकश्च ऋधातुरर्तीत्यनेन गृह्रते। लुका निर्देशस्तु न विवक्षितः। अङ्गस्येत्यधिकृतम्। `रीङृतः' इत्यत ऋत इत्यनुवर्तते। तच्च अङ्गविशेषणं, तदन्तविधिः। ऋदन्तस्याङ्गस्येति लभ्यते। संयोगाद्योरित्यपि तद्विशेषणम्। `अकृत्सार्वधातुकयो'रित्यतोऽसार्वधातुकग्रहणमनुवर्तते। आद्र्धधातुके इति लभ्यते। `रिङ् शयग्लिङ्क्षु' इत्यतो यकि लिङीति च लभ्यते। `अयडि\उfffद् क्ङिती'त्यतो यीति सप्तम्यन्तमनुवर्तते। आद्र्धधातुकविशेषणत्वात्तदादिविधिः। तदाह–अर्तेरित्यादिना। तथ् च ह्वृ-यात् इतिस्थिते गुणे रपरत्वे रूपमाह– ह्वर्यादिति। अह्वार्षीदिति। सिचि वृद्धिः। रपरत्वं। षत्वम्। अह्वरिष्यत्। स्वृ इति। अयमप्यनिट्। स्वरति। लिटि तु कित्यपि गुणः। णलि तु कृते गुणे रपत्वे उपधावृद्धिः। सस्वार सस्वरतुः सस्वरुः। थलि तु क्रादिनियमप्राप्तस्य इटः `अचस्तास्व'दित, `ऋतो भारद्वाजस्ये'ति च नित्यनिषेधे प्राप्ते आह– स्वरतिसूतीति वेडिति। सस्वरिथ सस्वर्थेति। सस्वरथुः सस्वर। सस्वार-सस्वर। इत्यपि ज्ञेयम्। वमयोस्त्विति। क्रादनियमान्नित्यमिडित्यन्वयः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । The verbal root √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७) as well as any verbal root which ends in a ऋकार: and begins with a संयोग: (conjunct consonant) takes a गुण: substitute when followed by either the affix यक् or a लिँङ् affix which has the आर्धधातुक-सञ्ज्ञा and begins with a यकार:। Note: As per 1-1-52 अलोऽन्त्यस्य, only the ending ऋकार: of the verbal root takes the गुण: substitute.

उदाहरणम् – स्तर्यात् derived from √स्तृ (स्तृञ् आच्छादने ९. १७). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, परस्मैपद-प्रत्यय:।

स्तृ + लिँङ् (आशिषि) 3-3-173
= स्तृ + ल् 1-3-2, 1-3-3, 1-3-9
= स्तृ + तिप् 3-4-78, 1-3-72, 1-4-101, 1-4-102, 1-4-108
= स्तृ + ति 1-3-3, 1-3-9
= स्तृ + त् 3-4-100. As per 3-4-116, the affix “त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-81 does not apply.
= स्तृ + यासुट् त् 3-4-103, 1-1-46
= स्तृ + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-116, the affix “यास्त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= स्तर् + यास्त् 7-4-29, 1-1-51. Note: As per 3-4-104 किदाशिषि, the affix “यास्त्” is a कित् here. Hence, in the absence of 7-4-29, the गुण: substitute (by 7-3-84) would not have have been possible because 1-1-5 would block it.
= स्तर्यात् 8-2-29