TBD.
ऋकारान्तस्य अङ्गस्य अकृद्यकारे असार्वधातुके यकारे च्वौ च परतो रीङित्ययम् आदेशो भवति। मात्रीयति। मात्रीयते। पित्रीयति। पित्रीयते। चेक्रीयते। मात्रीभूतः। क्ङिति इत्येतन् निवृत्तम्, तेन इह अपि भवति, पितुरागतं पित्र्यम्। ऋत इति तपरकरणं किम्? चेकीर्यते। निजेगिल्यते।
TBD.
1048 अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः. यस्येति च. पित्र्यम्. उषस्यम्..
1215 रीङृतः। अङ्गस्येत्यधिकृतम् ऋता विशेष्यते। तदन्तविधिः। `अयङ् यि क्ङिती'त्यतो यीत्यनुवर्तते। `अकृत्सार्वधातुकयो'रित्यतोऽकृत्सार्वधातुकयोरिति, `च्वौ चे'ति सूत्रं च, तदाह–अकृदित्यादिना। पित्र्यमिति। पितरो देवता अस्येति विग्रहः। यति पितृशब्दस्य रीङ्। `ङिच्चे'त्यन्तादेशः। `यस्येति चेति ईकारलोपः। क्यचि पित्रीयतीत्यादौ `अङ्गकार्ये कृते पुनर्नाङ्गकार्य'मिति वचनात् `अकृत्सार्वदातुकयो'रिति दीर्घे अप्राप्ते ईकारोच्चारणम्। उषस्यमिति। उषः देवता अस्येति विग्रहः। भत्वेन पदत्वाऽभावात्सकारस्य न रुत्वादि। द्यावापृथिवी। द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध-एतेभ्यः-छो यच्च स्यादित्यर्थः। अणः, पत्युत्तरपदण्यस्य चापवादः।
998 रीङृतः। अङ्गवृत्तपरिभाषया `अकृत्सार्वे'ति दीर्घो न प्रवर्तत इति दीर्घग्रहणमित्याहुः। यस्येति चेति। `पित्रीयती'त्यत्र रूङ्?विधिः सावकाश इति भावः। उषस्यमिति उषस्?शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां ब्रावीति।
वृत्तिः अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः । A अङ्गम् ending in a ऋकारः takes the substitute “रीङ्” when followed by the affix “च्वि” or when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा। Note: As per the परिभाषा-सूत्रम् 1-1-53 only the ending ऋकारः of the अङ्गम् is replaced by “री”।
उदाहरणम् – पुनः पुनर्भृशं वा करोति = चेक्रीयते – is a frequentative/intensive form derived from √कृ (डुकृञ् करणे, # ८. १०).
The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कृ + यङ् 3-1-22
= कृ + य 1-3-3, 1-3-9. Note: The affix “यङ्” is a ङित्। Hence 1-1-5 stops 7-3-84 from applying.
= क् रीङ् + य 7-4-27, 1-1-53
= क्री + य 1-3-3, 1-3-9
= क्रीय् क्रीय 6-1-9
= च्रीय् क्रीय 7-4-62
= ची क्रीय 7-4-60
= चि क्रीय 7-4-59
= चेक्रीय 7-4-82
“चेक्रीय” gets धातु-सञ्ज्ञा by 3-1-32
Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
चेक्रीय + लँट् 3-2-123 = चेक्रीय + त 3-4-78, 1-3-12 = चेक्रीयते