अचि(7/1), श्नुधातुभ्रुवां(6/3), य्वो:(6/2), इयङुवङौ(1/2)| अनु. - अङ्गस्य।
हिन्दी – [श्नुधातुभ्रुवां] श्नुप्रत्ययान्त अङ्ग, तथा [य्वो:] इवर्णान्त उवर्णान्त धातु, एवं भ्रू शब्द को [इयङुवङौ] इयङ् उवङ् आदेश होता है, [अचि] परे रहते।
श्नुप्रत्ययान्तस्य अङ्गस्य धातोः इवर्णौवर्णान्तस्य भ्रू इत्येतस्य च इयङुवङित्येतावादेशौ भवतो ऽजादौ प्रत्यये परतः। आप्नुवन्ति। राध्नुवन्ति। शक्नुवन्ति। धातोः - चिक्षियतुः। चिक्षियुः। लुलुवतुः। लुलुवुः। नियौ। नियः। लुवौ। लुवः। भ्रुवौ। भ्रुवः। अचि इति किम्? आप्नुयात्। शक्नुयात्। राध्नुयात्। श्नुधातुभ्रुवाम् इति किम्? लक्ष्म्यौ। वध्वै। य्वोः इति किम्? चक्रतुः। चक्रुः। इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन। चयनम्। चायकः। लवनम्। लावकः। इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलम् उपसङ्ख्यानं कर्तव्यम्। तन्वं (शौ.सं. ५.३.१) पुषेम। तनुवं (तै. सं. १.५.५.४) पुषेम। विष्वं पुषेम। विषुवं पुषेम। स्वर्गो लोकः। सुवर्गः (तै. सं. १.५.७.१) लोकः। त्र्यम्बकं यजामहे (तै. सं. १.८.६.२)। त्रियम्बकं यजामहे।
Before an affix beginning with vowel, there are substituted for the उ of नु, the characteristic of the roots of the fifth class, for the final इ,ई,उ and ऊ of the roots, as well as for the ऊ of भ्रू, the इय् (for इ or ई) and उव् (for उ or ऊ).
200 श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्य चेयङुवङौ स्तोऽजादौ प्रत्यये परे. इति प्राप्ते..
269 कुमारी-औ इति स्थिते `इको यणची'ति यणपवादमियङमाशङ्कितुमाह–अचि श्नु। इस्च उश्च यू, तयोः–य्वोः=इवर्णोवर्णयोरित्यर्थः। श्नुश्च धातुस्च भ्रूश्चेति द्वन्द्वः। प्रत्ययग्रहणपरिभाषया श्नुप्रत्ययान्तं विवक्षितं। `य्वो'रिति धातोरेव विशेषणं, ततस्तदन्तविधिः। श्नुभ्रुवोस्तु नित्यमुवर्णान्तत्वान्न तद्विशेषणम्। इवर्णान्तत्वं तु असंभवान्न तद्विशेषणम्। `संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थव'दिति न्यायात्। `अङ्गस्ये'त्यधिकृतं ततश्च प्रत्यये परत इति लभ्यते। अचीति तद्विशेषणं। तदादिविधिः। तदाह–श्नुप्रत्ययान्तस्येत्यादिना। य्वोः किम् ? चक्रतुः। अचीति किम् ?। आप्नुयात्। इयङ् उवङित्यनयोरनेकाल्त्वात्सर्वादेशत्वमाशङ्क्य आह–ङिच्चेत्यन्तादेश इति। नच `श्नुधातुभ्रुवामिवर्णोवर्णयोः' इत्येवं व्याख्यायतां ङित्त्वं च न क्रियतामिति वाच्यम्, एवं सति `क्षिपती'त्यादावतिव्याप्तेः। नचाऽजादिप्रत्यये परत इत्यनेन तन्निरासः शङ्क्यः, अङ्गाक्षिप्तप्रत्ययपरकत्वस्याङ्गविशेषणताया एवोचितत्वादित्यलम्। आन्तरतम्यादिति। तालुस्थानकस्य इवर्णस्य तादृश एव इयङ्। ओष्ठस्थानकस्य उवर्णस्य तादृश एवोवङित्यर्थः। इतीयङि प्राप्ते इति। `कुमारी औ इत्यादा'विति शेषः।
231 अचि श्रु। `भ्रमेश्च डूः'इति डूप्रत्ययान्तत्वाद्भ्रूशब्दस्य धातोः पृथग्ग्रहणम्। अन्ये त्वाहुः–`गमः क्कौ'इत्यत्र `ऊङ् च गमादीनामितिवक्तव्य'मिति वार्तिकादनुनासिकलोपे ऊङादेशे च कृते निष्पन्नोऽयं भ्रूशब्दः। तथा च धातुग्रहणेनैव सिद्धे भ्रूग्रहणं निरर्थकमिति। `इण'इति वक्तव्ये `य्वो'रिति गुरुनिर्देश`इण्प्रत्याहारः परेणैव णकारेण गृह्रते'इति ज्ञापनार्थः। इह `य्वो'रिति धातोरेव विशेषणं, न तु श्रुभ्रुरव्यभिचारादित्याशयेनाह–इवर्णान्तधातेरिति। `श्रुधातुभ्रुवामिवर्णोवर्णयों'रिति व्याख्याने तु इयङुवोर्ङित्त्वं व्यर्थं स्याद्वैधिकरण्यं च सर्वादेशत्वनिवृत्तिसंभवादि चेन्न; श्रभ्रुवोरपि निर्दि श्यमानत्वेन सर्वादेशत्वप्रसङ्गात्। `इ उ इत्यष्टादशानां संज्ञे त्युक्तत्वाद्यथासङ्ख्यमिहन न प्रवर्तते, इत्याह–आन्तरतम्यादिति। स्थानत इति भावः। य्वेः किम्?। चक्रतुः। चक्रुः। अचीति किम्?। आप्तुयात्। जुहुयात्।
136) अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6-4-77
वृत्ति: श्नुप्रत्ययान्तस्य, इवर्णोवर्णान्तस्य धातो:, भ्रू इत्यस्य च, अङ्गस्य यङुवङौ स्तोऽजादौ प्रत्यये परे। If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”
उदाहरणम् – गायत्री-मन्त्र:
धी + शस् = धी + अस् 1-3-8, 1-3-4 = ध् इय् + अस् = धिय: 6-4-77
श्री + औ = श्र् इय् + औ = श्रियौ 6-4-77
भ्रू + ओस् = भ्र् उव् + ओस् = भ्रू + ओस् 1-3-4 = भ्रुवो: 6-4-77 – गीता 8.10