Table of Contents

<<6-4-81 —- 6-4-83>>

6-4-82 एरनेकाचो ऽसम्योगपूर्वस्य

प्रथमावृत्तिः

TBD.

काशिका

धातोः इति वर्तते, तेन संयोगो विशेष्यते। धातोरवयवः संयोगः पूर्वो यस्मादिवर्णान भवति असावसंयोगपूर्वः, तदन्तस्य अङ्गस्य अनेकाचो ऽचि परतो यणादेशो भवति। निन्यतुः। निन्युः। उन्न्यौ। उन्न्यः। ग्रामण्यौ। ग्रामण्यः। एः इति किम्? असंयोगपूर्वग्रहणम् इवर्णविशेषणं यथा स्यात्, अङ्गविशेषणं मा भूतिति। लुलुवतुः, लुलुवुः इत्येतत् तु ओः सुपि 6-4-83 इति नियमादपि सिध्यति। अनेकाचः इति किम्? नियौ। नियः। असंयोगपूर्वस्य इति किम्? यवक्रियौ। यवक्रियः। धातुना संयोगविशेषणम् किम्? इह अपि स्यादुन्न्यौ, उन्न्यः इति। गतिकारकाभ्याम् अन्यपूर्वस्य नेष्यते, परमनियौ, परमनियः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

201 धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यणजादौ प्रत्यये. प्रध्यौ. प्रध्यः. प्रध्यम्. प्रध्यौ. प्रध्यः. प्रध्यि. शेषं पपीवत्. एवं ग्रामणीः. ङौ तु ग्रामण्याम्.. अनेकाचः किम्? नीः. नियौ. नियः. अमि शसि च परत्वादियङ्, नियम्. ङेराम्; नियाम्.. असंयोगपूर्वस्य किम्? सुश्रियौ. यवक्रियौ..

बालमनोरमा

270 एरनेकाचः। `इणो य'णित्यतो यणित्यनुवर्तते। एरिति षष्ठ\उfffद्न्तम्। इवरस्येत्यर्थः। पूर्वसूत्रे श्नुधातुभ्रुवामिति द्वन्द्वनिर्देशेऽपि धातोरिति पृथक्कृत्य षष्ठ\उfffद्न्तमनुवर्तते नतु श्नुभ्रुवावपि। तत्र इवर्णाऽभावात्। धातोरित्यनुवृत्तं चावर्तते। एकमवयवषष्ठ\उfffद्न्तम्, अन्यत्स्थानषष्ठ\उfffद्न्तम्। एरिति च धातोरिति षष्ठ\उfffद्न्तस्य विशेषणं, ततः- तदन्तविधिः। इवर्णान्तधातोरित्यर्थः। अवयवषष्ठ\उfffद्न्तं धातोरित्येतत्- `असंयोगपूर्वस्ये'त्यत्र संयोगांशेऽन्वेति। धात्ववयवसंयोगः पूर्वा यस्मात्स धात्ववयवसंयोगपूर्वः, तद्भिन्नः=असंयोगपूर्वः , तस्येति इवर्णविशेषणम्। `अङ्गस्ये'त्यधिकृतं स्थानषष्ठयन्तधातुना विशेष्यते, तदन्तविधिः। अनेकोऽच् यस्य तस्य अनेकाच इत्यङ्गान्वयि। `अचि श्नुधातुभ्रावा'मित्यतोऽचीत्यनुवर्तते। तच्चाङ्गाक्षिप्तस्य प्रत्ययस्य विशेषणं तदादिविधिः। तदाह-धात्ववयवेत्यादिना। हरिं हरीनित्यादौ यण्निवृत्त्यर्थं `धातो'रित्यङ्गविशेषणम्। अन्यथा प्रध्यमित्यादाविव पूर्वरूपादीन्बाधित्वा यण् स्यात्। धात्ववयवेति संयोगाविशेषणस्य तु प्रयोजनम्। उन्नीशब्दनिरूपणावसरे मूल एव स्फुटीभविष्यति। `अनेकाचोऽसंयोगा'दित्येव सुवचम्। य्वोरित्यनुवर्तते। `धात्ववयवसंयोगात्परौ न भवतो यौ इवर्णोवर्णौ तदन्तस्ये'त्यर्थलाभः। `ओः सुपी'ति तु नियमार्थः-`उवर्णस्य सुप्येव य'णिति। ततश्च लुलुवतुरित्यादौ त्वतिप्रसङ्गाऽभाव इत्यलम्। इति यणिति। कुमार्यौ, कुमार्य इत्यत्र `एरनेकाचः' इति इयङपवादो यणित्यर्थः। नन्वन्तर्वर्तिसुपा अमाक्यजन्तस्य कुमारीशब्दस्य पदत्वात् `इकोऽसवर्णे' इति प्रकृतिभावः स्यात्। अल्लोपस्य स्थानिवद्भावेऽपि तमाश्रित्यैव स दुर्वार #इति चेन्मैवम्–`नः क्ये' इति क्यचि नान्तस्यैव पदत्वनियमात्। अमि शसि चेति। अमि पूर्वरूपं शसि पूर्वसवर्णदीर्घं च बाधित्वा इयङि प्राप्ते तदपवादे `एरनेकाचः' इति यणि, अमि कुमार्यं, शसि कुमार्य इति रूपम्। `तस्माच्छसः' इति नत्वं तु न, कृतपूर्वसवर्णदीर्घात्परत्वाऽभावात्। तथाच बहुश्रेयसीशब्दापेक्षया अम्शसोरेव रूपे विशेष इति भावः। प्रधीरिति। प्रध्यायतीति प्रधीः। `ध्यायतेः संप्रसारणं चे'ति क्विप्। यकारस्य संप्रसारणमिकारः। `संप्रसारणाच्चे'ति पूर्वरूपम्। `हलः' इति दीर्घः। कृदन्तत्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः। अङ्यन्तत्वान्न सुलोपः। अजादौ सर्वत्र `एरनेकाचः' इति यणेव। अस्त्रीत्वान्नदीकार्यं न। हे प्रधीः प्रध्यौ प्रध्यः। प्रध्यं प्रध्यः। प्रध्या। प्रध्ये। प्रध्योः। प्रध्यि। प्रकृष्टा दीर्यस्य स इति विग्रहे तु दीशब्दस्य नित्यस्त्रीत्वात् `प्रथमलिङ्गग्रहणं चे'ति नदीत्वान्नदीकार्यम्। अङ्यन्तत्वान्न सुलोपः। प्रधीः। शेषमुदाह्मतक्विबन्तकुमारी शब्दवत्। हे प्रधि। प्रध्यौ। प्रध्यः। प्रध्यम्। प्रध्यौ। प्रध्यः। प्रध्या। प्रध्यै। प्रध्या 2। प्रधीनाम्। प्रध्याम्। \र्\नुन्नीरिति। `सत्सूद्विषे'त्यादिना उत्पूर्वान्नीधातोः क्विप्। सुबुत्पत्तिः। अङ्यन्तत्वान्न सुलोपः। अजादौ तु प्रत्यये परे `एरनेकाचः' इति यण्। नन्वत्र इवर्णस्य संयोगपूर्वकत्वात्कथमत्र यणित्यत आह–धातुनेति। धात्वयवसंयोगपूर्वस्यैव यण् पर्युदस्यते। नचाऽत्र संयोगो धात्ववयव इति भावः। हे उन्नीरिति। अस्त्रीत्वादनदीत्वादम्बार्थेत्यादिना नदीकार्यं नेति भावः। उन्न्यमिति। पूर्वरूपापवादो यणितिभावः। हे उन्नीरिति। अस्त्रीत्वादनदीत्वादम्बार्थेत्यादिना नदीकार्यं नेति भावः। उन्न्यमिति। पूर्वरूपापवादो यणिति भावः। शसादौ-उन्न्यः। उन्न्या। उन्न्ये। उन्न्यः। उन्न्योः। ङेरामिति। नदीत्वाऽभावेऽपि `ङेराम्' इति सूत्रे नीशब्दस्य पृथग्ग्रहणादाम्। आङ्गत्वेन नीशपब्दान्तादपि भवतीति भावः। एवं ग्रामणीरिति। ग्रामं नयति=नियच्छतीति ग्रामणीः। `अग्रग्रमाभ्यां नयतेर्णो वाच्यः' इति णत्वम्। अनेकाचः किमिति।`एरनेकाचः इत्यत्रे'ति शेषः। नीरिति। नीधातोः केवलात्पूर्ववत्क्विप्। अनेकाच्त्वाऽभावान्न यण्। किंतु `अचि श्नुधात्वि'ति इयङ्। एतावदेव उन्नीशब्दादस्य वैलक्षण्यमिति भावः।

प्रकृतेदीर्घश्च। सु श्रयतीति, शोभना श्रीरस्येति वा सुश्रीः। ततोऽजादिप्रत्यये यण् न भवति। इवर्णस्य धात्वयवसंयोगपूर्वकत्वादिति भावः। यवक्रियाविति। यवान् क्रीणातीति यवक्रीः। क्रीञ्धातोः क्विपि रूपम्। अत्रापि धात्ववयवसंयोगपूर्वकत्वान्न यणिति भावः। `गतिकारकपूर्वस्यैवेष्यते' इति वार्तिकं पठितं, तत्तात्परय्तः सङ्गृह्णाति– गतिकारकेतरेति। यथाश्रुते तूदाह्मतक्विबन्तकुमारीशब्दे यण् न स्यात्। शुद्धधियाविति। शुद्धा धीर्यस्येति विग्रहः। अत्र शुद्धशब्दस्य गतिकारकेतरत्वात्तत्पूर्वकस्य न यणिति भावः। शुद्धं ब्राहृ ध्यायतीति विग्रहे तु स्यादेव यण्–शुद्धध्यौ इत्यादि। पर्युदस्यते, गतिकारकपूर्वस्य त्ववश्यं यण्, तदा दुर्धियः वृश्चिकमिय इत्यादि कथमित्यन्वयः। आदिना दुर्धियौ वृश्चिकभियौ इत्यादिसङ्ग्रहः। दुःस्थिता धीर्येषामिति विग्रहः। `प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहिः। पूर्वपदे उत्तरखण्डस्य लोपश्च। वृश्चिकाद्भोरिति विग्रहः। अत्र दुरो गतित्वाद्वृश्चिकस्या।ञपादनत्वाच्च गतिकारकपूर्वत्वात्पर्युदासाऽभावे सतीयङपवादोऽत्र यण् दुर्वार इत्याक्षेपः। उच्यते। इति। `परिहार' इति शेषः। गतित्वमेव नास्तीति। `उपसर्गाः क्रियायोगे' `गतिश्चे'ति प्रादीनां क्रियान्वये गत्युपसर्गसंज्ञे विहिते। धीशब्दश्च बुद्धिगुणवाची, न तु क्रियावाची। अतो न तं प्रति दुरो गतित्वमिति गतिपूर्वकत्वाऽभावान्नात्र यण्, किंतु इयङेवेत्यर्थः। ननु लुप्तस्य स्थिताशब्दस् क्रियाप्रवृत्तिनिमित्तकत्वात्तं प्रति दुरो गतित्वमस्त्येवेत्यत आह–यत्क्रियेति। यया क्रियया युक्ताः प्रादयस्तं प्रत्येव=तद्वाचकशब्दे प्रत्येव गत्युपसर्गसंज्ञका इत्यर्थः। नचैवमप्यत्र स्थिताशब्दं लुप्तं प्रति प्रवृत्तं दुरो गतित्वमादाय दुर्धोशब्दस्य गतिपूर्वकत्वम्स्त्येवेति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तत्क्रियावाचकं प्रत्येव गत्युपसर्गत्वम्। तथाविधिक्रियावाचकस्यैव च गत्युपसर्गकार्यमित्यर्थस्य विवक्षितत्वात्। `यत्क्रियायुक्ताः' इति प्रत्यासत्तिन्यायलभ्यम्। वृश्चिकेति। वृश्चिकशब्दस्याऽपादानत्वं नेह विवक्षितत्वात्। `यत्क्रियायुक्ताः' इति च प्रत्यासत्तिन्यायलभ्यम्। वृश्चिकेति। वृश्चिकशब्दस्याऽपादानत्वं नेह विवक्षितमित्यन्वयः। कुत #इत्यत आह–बुद्धिकृतमिति। आरोपितमित्यर्थः। अपादानत्वं हि विश्लेषावधित्वम्। नह्रत्र वृक्षात्पर्णं पततीत्यत्र पर्णविश्लेषे वृक्षस्यैव भयविश्लेषे वृश्चिकस्याऽवधित्वमस्ति, वृक्षे पर्णवद्भयस्य वृश्चिके संश्लेषाऽभावात्, विश्लेषस्य संश्लेषपूर्वकत्वात्। उक्तं च भाष्ये–`विवक्षितः कारकाणि भवन्ती'ति। प्रकृते च वृश्चिकेऽपादानत्वारोपस्य वक्रधीनत्वादिह च तदनारोपात्सम्बन्धमात्रविक्षया षष्ठीमाश्रित्य `वृश्चिकस्य भी'रिति षष्ठीसमासे वृश्चिकभीशब्दस्य व्युत्पत्तिराश्रीयते। ततश्च कारकेतरपूर्वकत्वान्नात्र यणिति भावः। नच वृश्चिकाद्भीरित्यादौ बुद्धिकृतमेवापादानत्वमादाय पञ्चम्युपपत्तेः `भीत्रार्थाना'मिति व्यर्थमिति वाच्यं, तस्य सूत्रस्य भाष्ये प्रत्याख्यातत्वेन इष्टापत्तेरित्यलम्। परिहारान्तरमाह-वृश्चिकसम्बन्धिनीति। उत्तरपदेति। वृश्चिकसम्बन्थिनीति पूर्वपदे उत्तरखण्डस्य सम्बन्धिनीशब्दस्य लोपः शाकपार्थिवादित्वादित्यर्थः। सुष्ठु ध्यायतीति सु=शोभना धीर्यस्येति वा विग्रहे सुधीशब्दः। अत्र अजादौ परे `एरनेकाचः' इति यणि प्राप्ते-।

तत्त्वबोधिनी

233 एरनेकाचः। `इणो यण्'इत्यतो यणिति वर्तते। `अचि श्नुधातु–'इति सूत्रादिह धातुरेवानुवर्तते, न तु श्रुभ्रुवौ, तयोरिवर्णाऽसंभवात्। धातुग्रहणं चावृत्त्योभयोर्विशेषणं, संयोगस्याङ्गस्य चेति ब्याचष्टे–धात्ववयवसंयोगेत्यादि। तत्र धातुना संयोगस्य विशेषणादिह यण्–, उन्न्यौः। उन्न्यः। `हरी'`हरी'नित्यादि सिह्रार्थं धातुना अङ्गं विशेष्यते। अन्यथा `प्रध्यं'`प्रध्य'इत्यादाविव पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यण्स्यात्, धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तत्वादङ्गस्य। प्रधीरिति। प्रध्यायतीति प्रधीः। `ध्यायतेः संपर्सारणं चे'ति क्किपि संप्रसारणे पूर्वरूपे च कृते `हलः'इति दीर्घः। यदा तु `प्रकृष्टा धीर्बुद्धिर्यस्ये'ति विगृह्.यते तदा धीशब्दस्य नित्यस्त्रीत्वात् `प्रथमलिङ्गग्रहणं चे'ति नित्यस्त्रीलिङ्गातिदेशे यथासंभवं नदीकार्यं बोध्यम्। `प्रथमलिङ्गग्रहणं चे'ति वार्तिकस्य प्रथमलिङ्गं `यू स्त्र्याख्यौ'इत्यनेन नदीत्वं वक्तव्यमित्यर्थात्। एरनेकाच इति यण्विषयटत्वेन `नेयडुवङ्—'इति निषेधस्याऽप्रवृत्तेश्चेत्येके। अन्ये त्वाहुः—एवं तर्हि यथोद्देशप्रवृत्तौ न्यायसिद्धमिदमिति मनोरमादिग्रन्थो विरुध्येत। यथोद्देशपक्षेऽपि प्रधीशब्दार्थतया वचनस्यावश्यकत्वात्। मूले हि `उपसर्जनत्वेऽपि नदीत्वं वक्तव्य'मित्युक्तं, न तु नित्यस्त्रीत्वमिति। तस्मा `त्प्रथमलिङ्गग्रहण'मित्यनेन लिङ्गप्रयुक्तं यन्नदीत्वं वृत्तेः प्राक् स्थितं तदिहाऽतिदिश्यते। धीशब्दे तु `नेयङुवङ्–'इति निषेधेन मदीत्वाऽभावान्नास्त्येव प्रधीशब्दे नदीत्वातिदेश इति। `ङिति ह्यस्वश्चे'ति वैकल्पिकनदीत्वमपीह नातिदिश्यते। `प्रथमलिङ्गे'ति वचनं यथोद्देशे न्यायसिद्धमिति ग्रन्थानुरोधेनः वृत्तेः प्रागवस्थायामवयवत्वेनाभिमतेऽपि विद्यमानाया एव नदीसंज्ञायाः समुदाये अभ्युपेयत्वात्। न च प्रकृष्टा धीर्यस्य तस्मै प्रध्ये प्रध्य इत्यादौ प्रथमान्तधीशब्दस्य ङिति परे प्रवर्तमाना नदीसंज्ञाऽस्तीति दिक्। उन्नीरिति। `सत्सूद्विषे'त्यादिना क्किप्। ङेरामिति। अङ्गत्वान्नीशब्दान्तादपि ङेराम्भवतीति भावः। ग्रामणीरिति। ग्रामं नयतीति ग्रामणीः। `अग्रग्रामाभ्यां नयते' रितिणत्वम्। नीरिति। नयतीति नीःष क्किप्। यणिष्यते'इति तु नोक्तम्, कुमारीमिच्छन् ब्राआहृणः कुमारी, कुमार्यौ कुमार्य इत्यत्र यणभावप्रसङ्गात्। शुद्धधियाविति। यदा तु शुद्धं ब्राहृ ध्यायतीति विगृह्रते तदा भवत्येव यण्। शुद्धध्यौ। शुद्धध्यः। एवमग्रेऽपि। कथं तर्हीति। गतिकारकेतरपूर्वपदत्वमिह नास्तीतियणैव भाव्यमिति प्रश्नः। `दुर्धिय'इत्यत्र `प्रादिभ्यो धातुजस्ये'ति वार्तिकेन उत्तरपदलोपो बोध्य इत्याशयेनाह–दुःस्थिता धीर्येषामिति. वृश्चिकशब्दस्येति। भाष्यकृता हि बुद्धिपरिकल्पितपायमाश्रित्य `भीत्रार्थाना'मिति सूत्रं प्रत्याख्यातं। ततश्च सम्बन्धमात्रविवक्षायां षष्ठ\उfffदेवेति नास्त्यत्र कारकपूर्वत्वमिति भावः। `ओः सुपी'त्यतः `सुपी'त्यनुवर्तनादाह–

Satishji's सूत्र-सूचिः

137) एरनेकाचोऽसंयोगपूर्वस्य 6-4-82

वृत्ति: धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यणजादौ प्रत्यये। If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by a यण् letter in the following situation – the अङ्गम् is अनेकाच् (has more than one vowel) and ends in a धातु: which ends in the इवर्ण: (इकार: or ईकार:) and there is no conjunct consonant belonging to the धातु: prior to the इवर्ण:।

उदाहरणम् – गीतासु उदाहरणम् – श्लोकः 10.24

सेनानी + आम् = सेनान्याम्